सदा स्मरामि माधवम्
सुदर्शनं सदाशिवं सदा स्मरामि माधवं
शुभङ्करं प्रियं वदं सदा स्मरामि माधवम् ॥ ध्रु॥
अखण्डराष्ट्रनायकं समत्वगीतगायकम् ।
सुसङ्घमन्त्रदायकं सदा स्मरामि माधवम् ॥ १॥
तपोधनं कृपाघनं आद्यशङ्करोपमम् ।
सुसिद्धयोगभास्वरं सदा स्मरामि माधवम् ॥ २॥
प्रकृष्टधैर्यधारकं विमुक्तहास्यसुन्दरम् ।
भयार्तदीनबान्धवं सदा स्मरामि माधवम् ॥ ३॥
विधेयध्येयतत्परं स्वराष्ट्रभक्तिसाधकम् ।
''इदं न मे'' व्रतोज्वलं सदा स्मरामि माधवम् ॥ ४॥