संस्कृतस्य सेवनं संस्कृताय जीवनम्
संस्कृतस्य सेवनं, संस्कृताय जीवनम्
लोकहितसमृद्धये भवतु तनुसमर्पणम् ॥ ध्रु॥
कार्यगौरवं स्मरन् विघ्नवारिधिं तरन्
लक्ष्यसिद्धिमक्षिसात् करोमि सोद्यमः स्वयम् ।
यावदेति संस्कृतं, प्रतिजनं गृहं गृहं
तावदविरता गतिस्तावदनुपदं पदम् ॥ १॥
कामये न सम्पदं भोगसाधनं सुखं
किञ्चिदन्यदाद्रिये विना न संस्कृतोन्नतिम् ।
गौरवास्पदं पदं, नेतुमद्य संस्कृतं
बद्धकटिरयं जनो निधाय जीवनं पणम् ॥ २॥
भाषिता च वागियं भाषिता भवेद् ध्रुवं
भाष्यमाणतां समेत्य राजतां पुनश्चिरं
भरतभूमिभूषणं सर्ववाग्विभूषणं
संस्कृतिप्रवाहकं संस्कृतं विराजताम् ॥ ३॥
- जनार्दन हेगडे