संस्कृतस्य रक्षणाय
संस्कृतस्य रक्षणाय बद्धपरिकरा वयम् ।
संस्कृतेः प्रवर्धनाय दृढनिधिर्भवेदिदम् ॥
संस्कृतस्य महिमवर्णनेन नास्ति साधितं
सततसम्भाषणेन तस्य जीवनं स्थिरम् ।
जनमुखेन भाषितं ननु जगति जीवितं
राजते चिरं समस्तराष्ट्रमान्यतास्पदम् ॥
संस्कृतस्य सेवनं मातृसेवासमं
तेन सम्भाषणं वाङ्मातृपूजनम् ।
मातृभिः प्रवर्तनेन मातृभाषा परं
सरलसम्भाषणेन लसति बालादृतम् ॥
राजपोषणात् पुरा नीतमिदं वैभवं
लोकशक्तिकेन्द्रितं स्थास्यतीह केवलम् ।
शिक्षकास्तदर्थमेव त्यागशालिनः स्युः
संस्कृतोज्जीवनाय प्राप्तजीवना ध्रुवम् ॥
- गु. गणपय्यहोळ्ळः
Encoded and proofread by Shubha shubhazero at gmail.com