संस्कृत लावनी

संस्कृत लावनी

कुञ्ज कुञ्ज सखि सत्वरम् । चल चल दयितः प्रतीक्षते त्वां तनोति बहु आदरम् । सर्वा अपि सङ्गताः । नो दृष्ट्वा त्वां तासि प्रियसखिहरिणा हं प्रेषिता । मानं तज वल्लभे । नास्ति श्रीहरिसदृशो दयितो वच्मि इदं ते शुभे । गतिर्भिन्ना । परिधेहि निचोलं लघु । जायते बिलम्बो बहु । सुन्दरि त्वरां त्वं कुरु । श्रीहरि मानसे वृणु । चल चल शीघ्रं नोचेत्सव निष्यन्तिहि सुन्दरम् । अन्यद्वन मन्दिरं चल चल दयितः ॥ १॥ सॄणु वेणुनादमागतम् । त्वदर्थमेव श्रीहरिरेषः समानयत्स्त्रीशतम् । त्वय्येव हरिं सद्रतम् । तवैतार्थीमह प्रमदाशतकं प्रियेण विनियोजितम् । श‍ृण्वन्यमृतां संरुतम् । आकरायन्ति सर्वे समाप्यहरिणोमधुरं मतम् । बिभिन्नगतिः । दिशति ते प्रियतमसन्देशम् ॥ ग्रहीत्वा मदनः पिकवेशम् । जनयति मनसि स्वावेशम् ॥ समुत्साहयतरेतिलेशम् । न कुरु विलम्बं क्षणमपि मत्वा दुर्ल्लभमौल्याकारम् ॥ ॠणु वचनं मे हितभरम् । चल चल दयितः ॥ २॥ सूर्योप्यरतङ्गतः । गोपिगोपयितुमभिसरणं तव अन्धकारैहततः ॥ दृश्यते पश्यनोमुखम् । कस्यापिहि जीवस्य प्रणयिन्यभिसरणौत्सुखम् ॥ ब्रज ब्रजेन्द्र कुलनन्दनम् । करोतियत्स्मृनिरपि सखि सकलव्याधेः सुनिकन्दनम् । गतिः ॥ चन्द्रमुखि चन्द्रंरवे समुदितम् ॥ करैस्त्वामालाम्बितुमुद्यतम् । आलि अवलोक्य तारावृतम् ॥ भाति बिष्टयं चन्द्रिकायुतम् । चकोरायितश्चन्द्रस्त्यत्वा स्थलमपि रत्नाकरम् ॥ मुखं ते दृष्टुं सखि सुन्दरम् । चल चल दयितः ॥ ३॥ परित्यज चञ्चलमञ्जीरम् । अवगुण्ठय चन्द्राननसिंह सखि धेहि नील चीरम् ॥ रमय रसिकेश्वरमाभीरम् । युवतीशतसङ्ग्रामसुरतरमचमेकवीरम् ॥ भयं त्यज हृदि धारय धीरम् । शोभयस्वमुखकान्तिविराजितरवितनया तीरम् ॥ गतिः ॥ मुञ्चमानं मानय वचनम् ॥ विलम्बं मा कुरु कुरु गमनम् ॥ प्रियाङ्के प्रिये रचय शयनम् ॥ सुतनुतनु सुखमयमालिजनम् । दासौ दामोदर हरिचन्दौ पार्थयतस्तेवरम् ॥ वरय राधे त्वं राधावरम् । चल चल दयितः प्रतीक्षते त्वां तनोति बहु आदरम् ॥ ४॥ इति भारतेन्दु हरिश्चन्द्रविरचिता संस्कृत लावनी ।
% Text title            : Sanskrit Lavani
% File name             : saMskRRitalAvanI.itx
% itxtitle              : saMskRitalAvanI (bhAratendu harishchandravirachitA)
% engtitle              : saMskRRitalAvanI
% Category              : misc
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Bharatendu Harishchandra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Scan)
% Latest update         : December 13, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org