संस्कृतचित्ताः भारतभक्ताः
संस्कृतचित्ताः भारतभक्ताः, राष्ट्रनवोदयकाङ्क्षिणः ।
सुदृढमनस्काः भासुरचरिताः, राष्ट्रं जागरयाम वयम् ॥ ध्रुवम् ॥
मातृहिताय समग्रसमर्पित - पुण्यधनानां राष्ट्रमिदं
सत्यविनिष्ठितकर्मरतानां, धर्मपराणां भूमिरियम् ।
विश्वहितं मम जीवनसुखमिति, कलितवतां ननु देशोऽयं
इमामनन्तां नयाम सुहृदो, जवेन शाश्वतपरमपदम् ॥ १॥
सर्वे शान्तिमवाप्नुयुरिति नः, पूर्वजचिन्तनमतिशुभदं
स्नेहपुरस्सरजीवनमनिशं, स्यादिति तेषामभिलषितम् ।
वयमपि यत्नं विदध्महे, निजपूर्वजवाञ्छितपरिपूत्यै
तदेकमस्मज्जीवनलक्ष्यं, मन्येमहि वयमनवरतम् ॥ २॥
भवतु हि कण्टकमयमयनं नो, स्यादायतनं सुदुष्करं
भवतु समन्तात् विपदामयुतं, भवतु कदाचिन्नो मरणम् ।
तथापि न भवतु विचलनमिह नः, कदापि धाल्लक्ष्यपथात्
विना विलम्बं प्राप्स्यामो वयं, अस्मज्जीवनसाफल्यम् ॥ ३॥