संस्कृता सुरभारती
सर्वमङ्गलदायिनीयं दिव्यमानवसंस्कृतिः ।
वसतु मामकहृदयकमले लसतुभारतभूतले ॥ १॥ (सर्वमङ्गल )
पावनेऽस्मिन् भरतदेशे ऋषिवराणां जन्मगेहे ।
तुङ्गहिमनगराजितेऽस्मिन् संस्कृताश्रितसंस्कृतिः ॥ २॥ (सर्वमङ्गल )
पूर्वजानां गहनतपसा फुल्लसंस्कृतभव्यकमलम् ।
अनवरतमिदममृतमतुलं पूरयतु नवसौरभम् ॥ ३॥ (सर्वमङ्गल )
वहतु पुनरियमार्यभुवने कविभिरनिशं सेविता ।
मुनिभिरार्जितमन्त्रनिनदैः संस्कृता सुरभारती ॥ ४॥ (सर्वमङ्गल )
Encoded and proofread by Ganesh Kandu kanduganesh at gmail.com