महाकविः सारलादासः
लेखकः - नन्दप्रदीप्तकुमारः
सारलादास उत्कलभूमौ शूद्रमुनिनाम्ना परिचितः । उत्कलव्यास इति तं केचन उद्घोषयन्ति । अस्य महात्मनः कृतिषु हि अस्य वंश-परंपरा-विषये किमपि लिखितमस्ति । तथ्यदृष्ट्या सारलादासः पञ्चदश-शताब्दीय इति तत्कृत-महाभारत परिशीलनेन परिज्ञायते । कपिलेन्द्रदेवस्य राजनि सारलादास आसीदिति तेन भणितम् । तथाहि-
``जमेश्वर लिंग तहिं महोदधि तटे । नीलसुन्दर पर्वत श्रीकलप बटे ॥
विजये रामकृष्ण सुभद्रा महा ब्रह्म । चारिलक्ष वतिश सस्राब्द महातम ॥
कलिकाल ध्वंसन कु भोगगोटि पूजा । प्रणमिते खटै कपिलेश्वर राजा ॥ '' इत्यत्र कपिलेन्द्रदेवस्य अस्तित्वं स्पष्टतया स्थिरीक्रियते ।
सिद्धेश्वर अस्य पूर्वनाम आसीत् । परिडा अस्य कौलिक उपाधिः । अस्य पितुर्नाम यशोवन्तस्तथा भाता पर्शुराम आस्ताम् । पितृमातृहीनः सिद्धेश्वरः भ्रात्रा पर्शुरामेण परिपालितः । यच्चोक्तं द्रोणपर्वणि-
``आहे प्रभु मोते कर आपणंक भृत्य । यशोवन्त नन्दन मुं मूरुख अत्यन्त ॥ '' अपि चात्र-
``जन्मे जन्मे मूर्ख मुं नारायणंक भृत्यर भृत्य । वाक्य देवी भण्डार मुं कलै भकत ॥ यशोवन्तीर नन्दन श्री वासुदेव मम हृदे । शूद्रमुनि सारोला दास लीन हो श्रीकृष्ण पादे ॥ '' अत्र यशोवन्ती नन्दन शब्देन स आत्मानं श्रीकृष्णदास अर्थेन कथित इति केचन समर्थयन्ति । जात्या शूद्रोऽयं महापुरुषः प्रकृतपक्षे प्रसिद्धः शाक्तः बभूव । उत्कलीय शक्तिपीठेषु अन्यतमः सारलापीठः झंकडः ग्रामः सिद्धेश्वरस्य जन्मस्थान रूपेण स्थिरीकृतः । असौ ``झंकड'' ग्रामः कदाचित् कनकपुरः वा कनकावती पाटणा कदाचिद्वा जंखेरपुर कदा अनुज(सान) सारोला नाम्ना च परिष्कृतः । यच्चोक्तम् महाभारते आदिपर्वणि-
``नीलसुन्दर गिरि उत्तर दिग कोणे । सारस्वत भूमि भ्रतखण्ड ऐशान्ये ।
चन्द्रभागा बोलि करि नदी एक गोटि । वृद्धमाताङ्क पारुशे महोदधि भेटि ॥
से नदी तीररे पर्शुराम ये घाटै । कनकावती नामे पाटणा प्रकाशै ॥
ता उत्तरे अनुज सरल बोलि ग्रामे । विजये माहेश्वरी सारला चण्डी नामे ॥ '' अन्यत्र- ``कनकपुर पाटणा घर पर्शुराम । मुंहि तार अनुज शारलादास नाम ॥ '' यद्वा-
``झंकडपुर वासिनी ये सारला देवी । ताहांकर कुमर मुं श्रीसारला कवि ॥ '' इति । कनकावती-पट्टण-निवासी तद्भ्राता पर्शुरामो नौकावाहक-रूपेण परिचितः आसीत् । झंकडपीठाधीश्वरी अलौकीक शक्ति संपन्ना माता वाग्देवी सारला सिद्धेश्वरं प्रति अतीव प्रसन्ना आसीत् । सारलादेवीद्वारा सः सारलादास इत्युपाधिना विभूषितः । सारलाकृपया हि महाभारतो विरचितः । तथाहि मध्यपर्वणि-
``जन्मे जन्मे मुंहि शाहास्रवादी । पण्डित जन मध्ये मुं न पशिलि प्रसिद्धि ॥ '' आदि पर्वणि- ``से सिद्धदेवी मोते प्रसन्न होइला । अकलन्ता महाभारत मोते आज्ञा देला ॥ जंखेरपुर वासिनी कृपाजल नन्दिनी । ताहार आज्ञा प्रमाणे मुं होइलि शूद्रमुनि ॥ से सिद्धदेवी चरणे मोर सेवा । शूद्रमुनि सारोल दासकु गति मुक्ति देवा ॥ '' अपि च मध्यपर्वणि- ``न पढि पण्डित मुं कलाइं अभ्यास । वदन्ति शूद्रमुनि ग्रन्थिक श्री सारोला दास ॥ '' द्रोणपर्वणि- ``मूर्ख अपण्डित मुं न जाणै किछि । किञ्चिते सुदया मोते कलेक पिङ्गलाक्षी ॥ '' तत्र मध्यपर्वणि- ``कुस्थाने वसिलि न वसिलि विप्रगोष्ठी । शिशुबुद्धि मोहर वयस अलपटि ॥ '' वनपर्वणि- ``गिरिजा नन्दिनी ये सारोला चण्डी नाम । ताहांकर सदये किछि कहिलि पुराण ॥ रात्र याहा कहै ताहा दिवसे लिखै । एणु करि सदये मोते होइले महामायी ॥ '' इति सारलादासस्य व्यक्तित्व-वैशिष्ट्यं च विषये सयौक्तिकं प्रमाणं वरीवर्ति । सारला महाभारत पर्यालोचनायाः कवेः सारस्वतप्रतिभा अनुमीयते । विलंकारामायणेऽपि तस्य महानुभावस्य कारुण्यं सिद्धेश्वर नाम्ना प्रतिफलितः । यदुक्तम्- ``रामायण वृत्तान्त कु निरन्तरे घोष । श्रीराम चरणे भजे सिद्धेश्वर दास ॥ '' तत्र आश्रमिक पर्वणि- ``जगन्माता जहुं प्रसन्न मोते हेले । शूद्रमुनि सारला दास नाम देले ॥ '' इत्यत्र यदि वा सारलादासो वैष्णवत्वेन निरूपितस्तथापि आपाततः शूद्रमुनिः शाक्त आसीदिति मया पूर्वमुक्तम् । देवी सारलां प्रति तस्य आन्तरिकभक्तिः इत्थं प्रमाणयति महाभारते- ``अदृष्टिकि दृष्टि मुंहि कराइलि आणि । कृपा करिवारु सारला ठाकुराणी । ए पद रचने मुं न करे प्रतिज्ञा । लेखे सारला दिअन्ति मोते याहा आज्ञा ॥ जन्महुं मूर्ख मुं पढिनांहि विद्या । न जाणै जप मन्त्र नुंहै प्रसिद्ध ॥ से माता प्रसादे याहा मने मोर स्फुरे । लेखै ये वसि नील कल्पवट मूले ॥ '' इति तं प्रति सारलायाः अनुकम्पा तेन स्वमुखेन प्रदर्शिता ।
महाकविः सारलादासः उद्दीप्त साधको विशिष्टो विद्वान् संस्कृतज्ञश्च आसीत् । साधनायाः चरमे क्षेत्रे स प्रविष्टः सम्मानितश्च । पूर्वजन्मेऽयं कालिदासो बभूव । जातिस्मरतां प्रमाणीकृत्व त्रिकालदर्शि-मुनिपदवीं प्राप्तवान् । तत्पूर्वजन्मविषयेऽपि तेन भणितम्-
``प्रथम जन्मरे मुंहि हेलि कालिदास । द्वितीय जन्मरे मुंहि महाकाल ध्वंस ॥ तृतीय जन्मरे मुं सार सारलादास कवि । आउ जन्मे मुंहि मर्त्त्यमण्डले जन्मिवि ॥ प्रतिजन्मे मुंहि पन्दरलक्ष कथा भावि । चारिजन्मे षाठिए लक्ष कथा कहिवि ॥ उक्त कथा कहिसारि ए मर्त्त्यमण्डल । तेवे जाइं होइवि मुं शिव द्वारपाल ॥ '' इति । कार्यान्ते पञ्चमे जन्मनि शिवद्वारपालो भविष्यामीति तस्य प्रतिज्ञापि प्रतिफलिता । स्वकीय कविकर्मविषये तेनोक्तम् चण्डिपुराणे- ``प्रथमे श्री रामायण द्वितीये भारत । तृतीये लिखन मुं कलि शिरी भागवत ॥ '' विलंका रामायणं(दाण्डी रामायण),महाभारतं चण्डीपुराणानि च अस्य समुज्ज्वल ग्रन्थरत्नानि सन्ति । विलंका रामायणमस्य प्रार्थमिकी रचना । शैली दाण्डिवृत्तम् । निर्दिष्टाक्षर संख्या नास्ति । युद्धवर्णनं चात्र - ``विजिघोष दाउण्डि टमक निसाण । वीरवाजा वाद्य बाजै घन घन ॥ राउत माहुन्त पाइक पण्डिकार । सेनापतिमाने होइले बाहार ॥ सातलक्ष पदाति पाञ्चलक्ष रथ । येगार सहस्र मत्तहस्ती उदण्ड ए क्षेत्र ॥ '' चान्ते-'' रामायण रचनाकु निरन्तरे घोष । श्रीराम चरणे भजे सिद्धेश्वर दास ॥ '' विलंका-रामायणमस्य कवेः न कृतिरिति ये कथयन्ति तेषां कृते उपर्युक्तं प्रमाणं ग्रहणीयम् । ननु सिद्धेश्वरः सारलादातात् भिन्नश्चेन्न । यतो हि विलंका रामायणे- ``सारला दास शरण पशे से चरणे । मूर्ख मुंहि अपण्डित शास्त्र हिं न जाणे ॥ बुद्धि ध्यान ज्ञान योग लय किछि नांहि । ग्रन्थ भेदिवाकु शक्ति मोर अवा कांहि ॥ श्री सारला चण्डीङ्कर सदा अटे दास । आज्ञारे मुं शास्त्र किछि करिछि अभ्यास ॥ से याहा करन्ति आज्ञा मुं ताहा लेखै । अपण्डित मूर्ख मोर शास्त्र ज्ञान नांहि ॥ '' इति । अपि चात्र- ``जय जय अपर्णा गो तो पादे शरण । सारला दासकु मात कर परित्राण ॥ आहे साधु सुज्ञजने मोर निवेदन । दोषा दोष थिले क्षमा करिव आपण । झंकड वासिनी मात अभया कृपारे । जनहिते ए ग्रन्थकु कलि मुं भाषारे ॥ '' इति ग्रन्थकृत्विवक्षा स्फ्ष्टा ।
चण्डीपुराणं देवीभागवतनाम्ना ख्यातम् किन्तु न देवीभागवतस्यानुवादरूपम् । माहेश्वर्याः दुर्गायाः अवतार प्रसंगोऽत्र वर्णितः स्वतन्त्ररीत्या । अनुपम चरित्राणां वर्णनमपि अत्र काल्पनिकम् । वर्णनाविलासोऽत्र चमत्कारः । रूपवर्णन- युद्धवर्णन-प्रसंगे च कवेः सामर्थ्यम् उल्लेखनीयम् । तथाहि महिषासुरस्य अभियान प्रसंगे- ``येतेबेले दुरान्तक माडि याउअछि । जन मनुष्य सहिते न रहन्ति किछि ॥ येसनेक वनस्त भांगन्ति वात घाते । सेहिपरि हुअन्ति दैतर पाद घाते ॥ देवे अपसरन्ति येवण बल देखि । मानव मात्रकु छार किस ताहा लेखि ॥ गान्धार देश पारिजातेक देश नेपालि देश वारस्वती । सकल देशमान होउंछन्ति सन्धन्ति ॥ नाट चोट कर्णाट तिहुडि चुन्देरी । भांगिण नग्रन्त भण्डार दूर करि ॥ '' इति । रूपवर्णनायां कवेः कौशलमत्यन्तम् उपभोग्यम् । चण्डमुण्डमुखाभ्यां दुर्गारूपवर्णनमत्र मनोरमम्- ``स्वामि नवसृष्टि रचन्ता छाडिण प्रजापति । केतेकाल गढिला अमूल्य रत्नकान्ति ॥ अत्यन्त समत नोहै वक्ष स्थल । तथि उपरे भारा ताहार कुच मण्डल ॥ एते बड भारा अटै क्षीण मझि । उच्चुर्ग नोहै सूक्ष्म अटै सुभागि ॥ अनेक युगे घटणा कला स्तिरी रत्नकान्ति । भांगि केतेबेले से गढिव प्रजापति ॥ '' इति ।
सारलापूर्वं ``महाभारत'' मिति विशालो ग्रन्थ ओडिआ साहित्ये प्रागेव नासीत् । असाधारण संस्कृतविद्वान् सारलादासः उत्कलभाषया सर्वादौ महाभारतस्य आयोजनं चकार । स्वतन्त्र शैल्या तेन महाभारतस्य विषयवस्तु आदिशक्तिकटाक्षेण उपस्थापितम् । तथाहि महाभारते- अगाध सागर एहु श्रीमहाभारत । सबु सञ्चपि कहिले हेब अप्रमित ॥ एसन बिचारि ठिके ठिके ये कहिबि । मो हृदे माला परम माहेश्वरी देवी ॥ इति । लक्षश्लोकयुक्तं अष्टादशपर्व विशिष्टं महाभारतं व्यासकृतं तावत् १आदिपर्व २-सभापर्व ३-वनपर्व ४-विराट पर्व ५-उद्योग पर्व ६-भीष्म पर्व ७-द्रोण पर्व ८-कर्णपर्व ९-शल्यपर्व १०-सौप्तिक पर्व ११-स्री पर्व १२-शान्तिपर्व १३-अनुशासन पर्व १४-अश्वमेध पर्व १५-आश्रमिक पर्व १६-मौषक पर्व १७-महाप्रस्थानिक पर्व १८-स्वर्गारोहण पर्व प्रमुखानि अष्टादशानि प्रसिद्धानि । सारला महाभारते तु १-आदि पर्व २-मध्य पर्व ३-सभापर्व ४-वन पर्व ५-विराट पर्व ६-उद्योग पर्व ७-भीष्म पर्व ८-द्रोण पर्व ९-कर्ण पर्व १०-शल्य पर्व ११-गदा पर्व १२-कांइशिका पर्व १३- नारी पर्व १४-शान्ति पर्व १५-आश्रमिक पर्व १६-अश्वमेध पर्व १७-मूषली पर्व १८-स्वर्गारोहण पर्व भेदेन भिद्यन्ते । मूल संस्कृत व्यासकृत महाभारतं कदाचित्तेन प्रत्याख्यातम् । कदाचित् स्वतन्त्रमतमुपस्थापितम् । महाभारतस्य अन्तिम युद्ध समये दुर्योधनस्य रक्तनदी सन्तरण प्रसंगं सारलादासस्य वर्णन अतीव भयानकम् । रण क्षेत्रे रक्तनदी गभीरा प्रवहति तीक्ष्णा स्त्रोतस्विनी । मृतशवा भासमाना । एकपार्श्वादपरपार्श्वं यातुं यदा सः एकैकान् शवान् गृह्णाति तदा ते रक्तनद्यां निमज्जन्ति । कियत्कालमपि तं धारयितुं समर्था न भवन्ति । किं करिष्यामीति चिन्ता दुर्योधन मनसि जर्जरिता अकस्मात्सः अपर शवं गृह्णाति । सः हृष्टपृष्ट आसीत्, बलिष्ठ च आसीत् । तपृष्ठमादाय सुखेन नदी पारितः । उक्तं च- ``केहि रकत नदीरु न कलेक पारि । केवण महात्मा मोर एडे उपकारी ॥ '' इति कस्त्वम् महात्मा मम परम सहायक इति मनसि निधाय यदा शवं सम्मुखीकृतः भो भो इति स्वरेण क्रन्दयामास । लक्ष्मणकुमारोऽसौ महात्मा दुर्योधनस्य पुत्र आसीत् । क्रन्दनरतो दुर्योधनः भणति- ए सोम वंशरे तुहि एका पुत्र गोटि । वंश वुडाइला मोर काटि देला तोटि ॥ जन्म ठारु आजि याए चाहि तोर मुख । वञ्चुथिलि एवे मुंहि होइलि निरेख ॥ नेत पाट पतनी ये नाना पुष्पगभा । रकते कर्दम एवे होइलारे वावा ॥ अमरावतीर प्राये तो भुवन गोटि । ताहा तु उपेक्षा करि रक्तमांसे लोटि ॥ मृगनाभ कस्तूरी मुं तो देहे लेपै । एवे पोति याउ अछि माटिरे मिशाइ ॥ अति सुकुमार तुरे कुमार लक्ष्मण । वर्षे वाहुनिले तोर न सरिव गुण ॥ वावु नव सृष्टि चिन्ता छाडि प्रजापति । केतेकाल वसि यत्ने गढिला तो मूर्त्ति ॥ मोहर पराए पिता तोर आउ नोहु । तोहर पराए पुत्र जन्मे जन्मे हेउ ॥ `` इत्यत्र दुर्योधनस्य मनोदशा सारला साहित्ये स्वतन्त्रा प्रतीयते । स्थान काल पात्रभेदेन बहुषु क्षेत्रेषु सारला महाभारतस्य स्वतन्त्रता प्रत्यक्षीक्रियते । पर्वभेदेन सारला महाभारते विशेषता प्राप्यते । ``या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जागर्ति भूतानि सा निशा पश्यतो मुनेः ॥ '' इति भगवद्गीतावाक्यं तेन सरल भाषया भीष्म पर्वणि व्याख्यातम् । तथाहि- ``प्राणिंकि ये ब्रह्मज्ञान विभावरी परि । तंहिरे योगी जन हुअन्ति उजागरी ॥ एइ येंउ जाण प्राणींक दिवस । योगीजन मानंकु से अन्धार सदृश ॥ इति अन्यत्रापि ``वासांसि जीर्णानि यथा विहाय'' इत्यस्य व्याख्यानावसरे महाभारते उक्तम्- चीरा लुगा छाडि नूआ पिन्धिला पराए । आत्मा याइ करि पुणि नूआ देह पाए ॥ आत्माकु टि शस्त्र केवे न पारै काटि । अग्नि पोडि न पारन्ति आत्माकु किरीटि ॥ सढाइ न पारे पुणि ताहाकु ये जल । सुखाइ न पारे ताकु अणुए अनिल ॥ इति गीतायाः गूढतत्त्वं तेन स्वमुखेन प्रकम्पितम् । महाकवि सारलादास उत्कलस्य वरपुत्रः । ओडिआ साहित्यक्षेत्रे तस्य अवदानमवर्णनीयम् । अनुपमा तस्य महिमा । तस्मै भारती वरपुत्राय नमो नमः ।
सहायक ग्रन्थाः
१. शारला चरित- मृत्युञ्जय रथः
२. सारला स्मरणिका-प्रजातन्त्र प्रचार समित्तिः
३. सारला दास- पठाणि पट्टनायकः
४. ओडिआ साहित्यर इतिहास सम्पर्करे-१म भाग अध्यापक हेमन्त कुमार दासः अध्यापकः निशामणि मिश्रः
५. प्रफेसर कृष्णचन्द्र साहु रचना सम्भार-५म भाग
६. ओडिआ साहित्य इतिहासर समालोचना-विनायक मिश्रः
७. ओडिसार इतिहास-प्यारीमोहन आच्यार्यः
८. ओडिशार नूतन इतिहास, १म भाग विनायक मिश्रः
९. सन्थ भक्ति साहित्य, ओडिआ साहित्य एकाडेमी
१०. सारला महाभारत -आदिपर्व१म ख-संग्राहक -आर्त्तवल्लभ महान्तिः
११. सारला महाभारत -आदिपर्व२य ख-संग्राहक -आर्त्तवल्लभ महान्तिः
१२. सारला महाभारत -मध्यपर्व१म ख-संग्राहक -आर्त्तवल्लभ महान्तिः
१३. सारला महाभारत -मध्यपर्व२य ख-संग्राहक -आर्त्तवल्लभ महान्तिः
१४. ओडिआ साहित्यर इतिहास संपर्करे-१म अध्यापक हेमन्त कुमार दासः, निशामणि मिश्रः
--- लेखकः - नन्दप्रदीप्तकुमारः
Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com