सागरं सागरीयं नमामोवयम्
सागरं सागरीयं नमामोवयम् ।
काननं काननीयं नमामोवयम् ।
पावनं पावनीयं नमामोवयम् ।
भारतं भारतीयं नमामोवयम् ॥
पर्वते सागरे वासमे भूतले ।
प्रस्थवे वागते पावनं सङ्गमे ।
भव्य भूते कृतं संस्मरामोवयम् ।
भारतं भारतीयं नमामोवयम् ॥ १॥
वीरता यत्र जन्माश्रिता सङ्गता ।
संस्कृतिर्मानवीयां कृतां वागता ।
देव सम्मानितं पावनं सम्पदम् ।
भारतं भारतीयं नमामोवयम् ॥ २॥
कोकिला काकली माधवा माधवी ।
पुष्पसम्मान्यता यौवना वल्लवी ।
षट्पदा नावनिर्मोदकं गुञ्जनम् ।
भारतं भारतीयं नमामोवयम् ॥ ३॥
पूर्णिमा चन्द्रिका चित्तसम्बोधिका ।
भावसंवर्धिका चास्ति रागात्मिका ।
चञ्चला चुम्बितं पावनं प्राङ्गणम् ।
भारतं भारतीयं नमामोवयम् ॥ ४॥
सागरं सागरीयं नमामोवयम् ।
दाननं दाननियं नमामोवयम् ।
पावनं पावनियं नमामोवयम् ।
भारतं भारतीयं नमामोवयम् ॥
Saraswati Vidya Mandir, Rajgadh (Byavara), M.P.
Vidya Bharati, Akhil Bharatiya Shiksha Sansthan
NA