सादरं समीहताम्
सादरं समीहतां वन्दना विधीयतां
श्रद्धया स्वमातृभू-समर्चना विधीयताम् ॥
आपदो भवन्तु वा, विद्युतो लसन्तु वा
आयुधानि भूरिशोऽपि मस्तके पतन्तु वा
धीरता न हीयतां, वीरता विधीयतां
निर्भयेन चेतसा पदं पुरो निधीयताम् ॥ १॥
प्राणदायिनी इयं त्राणदायिनी इयं
शक्तिमुक्तिभक्तिदा सुधाप्रदायिनी इयं
एतदीयवन्दने सेवनेऽभिनन्दने
साभिमानमात्मनो जीवनं प्रदीयताम् ॥ २॥
- वासुदेव द्विवेदी शास्त्री
Encoded and proofread by Shubha shubhazero at gmail.com