रेने देकार्तदर्शनम्

रेने देकार्तदर्शनम्

लेखकः - नन्दप्रदीप्तकुमारः देशः कालः परिचयश्च- पुनर्जागरणयुगस्य बुद्धिवादिनो महतो दार्शनिकस्य देकार्तमहोदयस्य १५९६ख्रीष्टाब्दे मार्चमासस्य एकत्रिंशत्तमे दिवसे प्रान्सदेशस्य तुरेन नगरस्य लाहै इत्यस्मिन् स्थाने आविर्भावो जातः । तस्य पितुर्नाम जोकिमडेकार्ट तथा मातुश्च नाम जीनीब्रोचार्ड आसीत् । जन्मनः कियद्दिनात् परं हि तस्य मातृवियोगो संजातः । स्वास्थ्यगतसमस्या तस्य चिरसहचर अभूत् । देकार्तः स्वभावेन विनयी तथा चरित्रवान् आसीत् । गणितविद्यायां तस्य पारदर्शिता आकाशचुम्बिता । देशभ्रमणाय तस्य मनसि भावना तीव्रा जाता । पश्चात्सः सैन्यविभागे योगदानं कृतवान् । कृतयः- हलाण्ड इत्यस्मिन् स्थाने निवासमये तेन Discours de la Methode (दार्शनिक पद्धतिविचारः) Meditationes de prima (प्राथमिकदर्शनमन्थनम्) एवं च Principia philosophia (दार्शनिकसिद्धान्तः) इति सुप्रसिद्धाः त्रयो ग्रन्था विलिखिताः । पश्चात्सः The passion of the soul नामकं पुस्तकं विरच्य स्टकहोम (stockhome) राज्ञ्यै प्राददात् । अन्ते तत्र निमोनिया (pneumonia) रोगाक्रान्तः सन पञ्चतामवाप । न केवलं दर्शनशास्त्रे अपितु गणितविद्यायां ज्योतिर्विज्ञाने चापि तस्य महत्वपूर्णा प्रतिभा आसीत् । दार्शनिकसिद्धान्तः- (ज्ञानमीमांसा) ज्ञानं साधयितुं बुद्धेरावश्यकता बलीयसी । एतस्मात् कारणात् ज्ञानमीमांसासु बुद्धिवादोस्न्यतमो वरीवर्ति । बुद्धि-अनुभवयोः कदाचित् ऐकत्वं समामनन्ति विद्वांसः । तौ ज्ञानस्य साधकत्वेन स्वीकृतौ । अनुभवात्ज्ञानोत्पत्तिर्दर्शनात् । अनुभवजन्यज्ञानमयथार्थमिति केचित् । ज्ञानप्राप्त्यर्थमनुपयुक्तत्वात् । तन्नये सार्वभौमिकत्वमनिर्वार्य्यत्वमिति द्विविधं यथार्थज्ञानस्य लक्षणम् । सार्वभौमिकत्वं यथार्थज्ञानस्य एको गुणः । अनिर्वार्य्यत्वमपरः । आद्य न सार्वकालिकः द्वितीयः अपवादरहितः । द्वयोः मिश्रणेन चत्वारवत् गुणद्वयस्य संयोगेन सत्यप्रतीतिः, अन्यथा व्यभिचाराशंका । ननु ज्ञानस्य जननी बुद्धिः तत्कथं कदाचित् मिथ्याज्ञानानुभवाशंका इति चेद् सत्यं कदाचित् दुष्टबुद्ध्या हि मिथ्याज्ञानानुभवदर्शनसम्भवात् । सत्यानृतयोः मिथुनीकृत्य ज्ञानमीमांसासम्भवाच्च । अत्र यथार्थज्ञानं नाम सांसारिकज्ञानाद्भिन्नम् सार्वभौमिकमनिर्वार्यकेवलम् । अत्र ज्ञानस्य विषयो न संसार अपितु शाश्वतः सत्यञ्च । बुद्ध्या यथार्थज्ञानम् । बुद्धौ बीजरूपेण तत्सत् । ज्ञानसिद्धौ बुद्धेः क्रियाशीलता अविसंवादी । इयं पद्धतिर्निगमनात्मिका । अनया सुप्तबीजस्य अंकुरोद्गमो जायते । गाणितिकं ज्ञानं सर्वोत्कृष्टतरं परमादर्शमिति देकार्तमहोदयानां विशिष्टसिद्धान्तः । गाणितं नाम बौद्धिकम् । सर्वदामवितथम् । गाणितिकचिन्तनपद्धत्या सर्वाणि अन्तर्निहितानि ज्ञानानि परिप्रकाशितानि भवन्ति अन्यथा निःसन्दिग्धसर्वमान्यसत्यस्यासम्भवात् । निश्चितज्ञानप्राप्त्यर्थं देकार्तमहोदयस्य बुद्धिवादः पुनर्जागरणयुगस्य अयमारम्भ इति न विप्रतिपत्तिः । सन्देहविधिः- तत्र आश्चर्यादेव ज्ञानसिद्धिरितिविश्वविख्यातग्रीक् दार्शनिकाः प्लेटोपादाः । विश्वासादेवेति मध्ययुगीयाः । सन्देहादिति देकार्तसिद्धान्त अत्र बलवत्तरः । संशयवह्नीमुत्तीर्य शुद्धसुवर्णवत् सत्यं प्रतिष्ठितम् । सत्यमुद्धाटयितुं संशयस्यावश्यकत्वात् । अन्यथा सत्यस्वीकरणमसम्भवम् । अत्र संशयः साधनं न साध्यम् । तत्तु निश्चयात्मकमिति । कस्मिन्नपि विषये सिद्धान्तग्रहणात्प्राक् तद्विषये पूर्वधारणायाः परिहारमवश्यमेव कर्तव्यम् । प्रत्यक्ष-परोक्षाभ्यां जन्यं ज्ञानं सन्दिग्धम् । त्रिकालबाधरहितं निःसन्दिग्धं लब्धुं तस्मिन् विषये सन्देह अवश्यमेव करणीयः । वैज्ञानिकेस्पि सन्देहः कर्तव्यः । तद्वत् इन्द्रियेण आगमेन वा प्राप्तं ज्ञानं कदाचित् असत्याश्रितमेव । रूढि पक्षपातान्धविश्वासादिभिः समन्वितत्वात् । डेकार्तमहोदयस्य इयं पद्धतिः यदिवा सन्देहाश्रिता तथापि स न सन्देहवादी आसीत् । तन्नये सत्यं स्वतःसिद्धं निश्चयात्मकञ्च । तस्य सार्वभौमत्वं सहजत्वमबाधितत्वं सर्वादौ स्वीकार्यम् । साध्यसत्यं साधयितुं सन्देहरूपस्य साधनस्यावश्यकता जायते । उभयोर्मध्ये उपेय-उपायभावस्तेन कल्पितः । यद्वा सत्यं लक्ष्यम् सन्देहश्च लक्षणम् । यदिवा देकार्तमहोदयेन सन्देहात्मकमिन्द्रियज्ञानं, सन्देहात्मकवैज्ञानिकज्ञानं स्वीकृतं तथापि तेन निःसन्दिग्धं सत्यमुत्थापयितुं सन्देहकर्त्तुरात्मनः अस्तित्वं स्पष्टतया प्रतिपादितम् । आत्मविचारप्रसंगे तेन उक्तं अहं चिन्तयामि अहमस्मि (I think therefore I exist) इत्यत्र अनयोः संयोगार्थं अतः शब्दस्य प्रयोगो युक्तियुक्तः स्यात् । सुतरां सन्देहकर्तुरस्तित्वमत्र अबाधितविषय उच्यते । तन्नये आत्मा चिन्तनशीलो मननशीलश्च । मननमेव आत्मनो धर्मः । यदि आत्मा नास्ति तर्हि केन सन्देहः क्रियते । देकार्तमहोदयस्य सिद्धान्तः पाश्चात्यदर्शनेषु स्वकीयं स्थानं भजते इत्यत्र नास्ति विसंवादः । अलमतिविस्तरेण । --- लेखकः - नन्दप्रदीप्तकुमारः श्रीजगन्नाथ संस्कृतविश्वविद्यालयः पुरी Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com
% Text title            : About Rene Descartes
% File name             : renedekArtadarshanam.itx
% itxtitle              : renedekArta adarshanam (lekhaH parichayo deshakAlashcha)
% engtitle              : renedekArtadarshanam
% Category              : misc, article, pradIptakumArananda
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/religion
% Transliterated by     : Pradipta Kumar Nanda
% Proofread by          : Pradipta Kumar Nanda
% Indexextra            : (Info)
% Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda
% Latest update         : June 27, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org