रत्नगर्भा धरा सुस्मिता श्यामला
रत्नगर्भा धरा सुस्मिता श्यामला
दिव्यतीर्थास्तटाः पर्वताः सिन्धवः ।
निर्झराः वाटिकाश्चात्र देवालयाः
भव्यमेतत्प्रियं भारतं भूतले ॥ १॥
वेदशास्त्राणि साहित्यकाव्यानि वा
यत्र यच्छन्ति लोकाय सत्प्रेरणम् ।
रम्यरामायणं श्रीमहाभारतं
राष्ट्रमेतद्वरं भारतं भूतले ॥ २॥
यत्र देवी सती शारदा जानकी
चानुसूया शिवा द्रौपदी पद्मिनी ।
सन्ति सर्वा इमाः वत्सलाः मातरः
शक्तियुक्तं शिव भारतं भूतले ॥ ३॥
रामकृष्णौ हरी वर्धमानो जिनो
गौतमः शङ्करः पाणिनिर्नानकः ।
श्री दयानन्द साधुश्च देशे-भवन
देशिकानामिदं भारतं भूतले ॥ ४॥
भारतीयाः स्वभावेन शान्तिप्रियाः
ज्ञानविज्ञानसेवारताः कर्मठाः ।
मानवी भावना भासते संस्कृतौ
सत्यसंशोधकं भारतं भूतले ॥ ५॥
-आचार्य राधाकृष्ण मनोडी