रसकुल्या निर्क्षरिणी

रसकुल्या निर्क्षरिणी

लेखकः - नन्दप्रदीप्तकुमारः रसकुल्या उत्कलीयवृत्तम् न चतुष्पदी । अत्र षट्पादैः एकं पद्यम् । प्रथम-द्वितीय-तृतीयपादाः एकादशाक्षरविशिष्टाः । चतुर्थपादो द्वादशाक्षरविशिष्टः । पञ्चमपादो नवाक्षरविशिष्टः । षष्ठपादः एकविंशत्यक्षरविशिष्टः । प्रथम-द्वितीय-तृतीयपादानां षष्ठ-शेषाक्षरे यतिपातः क्रियते । चतुर्थपादस्य षष्ठ-एकादश-शेषाक्षरेषु यतिः । पञ्चमपादस्य षष्ठ-अष्टम-शेषाक्षरेषु यतिः । षष्ठपादस्य षष्ठ-अष्टादश-विंश-शेषाक्षरेषु च यतिपातो भवति । अनेन रसकुल्यामाध्यमेन कविप्रशस्तिं किंचित् वितनोमि । ये महनीयाः महाकवयो बहुसम्मानेन विमण्डिताः तेषु केचन दिवंगताः केचन सक्रियाः तेभ्यः सर्वेभ्यः महाकविभ्यः पद्मश्री प्रा. रमाकान्त शुक्ल- प्रा. इच्छाराम द्विवेदि- प्रा. सत्यव्रत मिश्र- प्रा. वागीशशास्त्रि- प्रा. बलदेवानन्द सागर- प्रा. महेशझा- प्रा. प्रशस्य मिश्र शास्त्रि- प्रा. रेवा प्रसाद- प्रा. मिथिला प्रसाद- प्रा. राधावल्लभत्रिपाठि- प्रा. अभिराजराजेन्द्र मिश्र- प्रा. रसराजराजेन्द्र त्रिपाठि- प्रा. हर्षदेवमाधवप्रभृतिभ्यः संस्कृतमन्दाकिनीधारप्रवाहकेभ्यः नमोवाकं प्रशास्महे रसकुल्या छन्दसा- रमाकान्तशुक्ल-राधावल्लभ- रसराज-इच्छाराम-दुर्ल्लभ हर्षदेव-अभिराजराजेन्द्र- सत्यव्रत-बलदेव-कवीन्द्र हे प्रशस्य-प्रकाशमानाः हे २ श्रीरेवाप्रसाद-मिथिलाप्रसाद- वागीश-उदीयमानाः हे ॥ १॥ अन्ये कृपाराम त्रिपाठि-कमलाकान्त मिश्र-लक्ष्मीनारायण पाण्डेय-निरञ्जन मिश्र-उमाकान्त मिश्रादयो धन्याः भावगम्भीरास्तेभ्यो नमो वाचं रसकुल्यया- कृपारामपदपंकजे रतिः कमलाकान्ताय प्रणतिततिः महेशझा-सुप्रभात-सम्भारः लक्ष्मीनारायण-भावगम्भीर हो निरञ्जन-यतिधरा हे २ उमाकान्तमिश्रादयो महनीया ललितरसनिर्झरा हे ॥ २॥ महामहोपाध्यायाः पण्डित गोविन्द चन्द्र मिश्र- पण्डित प्रबोध कुमार मिश्र-पण्डित कालीप्रसन्न शतपथि- प्रा. केशव चन्द्र दाश- प्रो हरेकृष्ण शतपथि- प्रा. प्रमोद कुमार मिश्र- प्रो प्रफुल्ल कुमार मिश्र- प्रा. वनमाली विश्वाल - प्रा. सुज्ञान कुमार माहान्ति-पण्डित व्रजकिशोर त्रिपाठि- प्रा. बुद्धेश्वर षडंगि- प्रो सोमनाथ दाश- प्रा. प्रियव्रत मिश्र- प्रा. भारत भूषण रथ- प्रा. हरेकृष्ण मेहेर- प्रा. हरेकृष्ण पट्टयोशि- प्रा. सुरेन्द्र मोहन मिश्र-प्रमुखा उत्कलीया वरेण्याः वदान्या रसनिर्झरिणीं प्रवाहमानाः धुरन्धराः गीतिकाराः विरलाः विद्यमानाः नमस्याः । तेभ्यः स्वागतकुसुमाञ्जलिं रसकुल्या छन्दसा- गोविन्द-प्रमोद-प्रबोधमिश्राः केशवदाशानां हि काव्यवर्षाः बुद्धेश्वर-कवि- व्रजकिशोरः वनमाली साहित्यिकप्रवरः हे सुज्ञान माहान्ति कविः हे २ प्रफुल्ल मिश्राः ये कलिंगरसिकाः मोमुद्यन्ते इह भवे हे ॥ ३॥ सोमनाथदाश-कालीप्रसन्नः हरेकृष्ण शतपथि -प्रसन्नः मेहेर- पट्टयोशि-बन्धुजनः प्रियव्रतमिश्र जनरंजनः हे भारतभूषणः भुवि ये २ सुरेन्द्रमोहन-कवयः कविताः ललिताः शोभन्ते शुभाः हे ॥ ४॥ प्रो०सुशान्तकुमारराज-प्रो० भागीरथीनन्द-प्रो०राजधरमिश्र-प्रो०शिवजी उपाध्याय-शास्त्रकवि-प्रो०प्रमोदकुमार शर्म-प्रो० संपदानन्दमिश्र-श्रीजीतरामभट्ट- प्रो०ताराशंकरशर्मपाण्डेय- प्रो०नलिनीकान्तमंणित्रिपाठि-प्रो०महावीरप्रसादसारस्वत-प्रो०सुधाकरमिश्र-प्रो०नरेशवक्त्रादयो महनीयाः पूजनीया मान्यगण्याः सर्वतन्त्रस्वतन्त्राः महाकवयः विराजन्ते तराम् । तेभ्यो भूयांसि नमांसि रसकुल्या वन्दनेन - भागीरथीनन्द-सुशान्तराज- राजधरमिश्र-शिवजीराज- जीतरामभट्ट-ताराशंकर- नलिनीकान्तमणिकविवर हो प्रमोद-संपदानन्दाः हे, २ महावीर-सुधाकरमिश्रादयः श्रीनरेशमहानन्दाः हे ॥ ५॥ युवकवय अर्वाचीनाः रससिद्धाः सर्वालंकार विमण्डिताः बहुसम्मानेन सम्मानिताः सर्वश्री प्रो अरविन्द तिवारि- प्रा. बलराम शुक्ल- प्रा. परमानन्दझा- प्रा. संजय कुमार चौवे- प्रा. शशिकान्त तिवारि- प्रा. सतीश कपूर- प्रा. रामकृष्ण पेजताय- श्रीजगदानन्दझा-प्रो०मदनमोहनझा- प्रा. धर्मदत्त चतुर्वेदि- प्रा. शैलेश कुमार तिवारि-प्रमुखाः संस्कृतसेविनः संस्कृतकार्य्यतत्पराः धन्यवादार्हाः सम्माननीयाः शोभन्ते । तेभ्यो नमोवाकं रसकुल्यया- युवकसुलभगुणगरिष्ठ अरविन्दसर्वगुणबलिष्ठः बलरामशुक्लपद्यसुगन्धः तरलीकरोति परमानन्दः सः संजय-गजलकार हे २ शशिकान्तगीतिकारसुललितः सतीश रसनिर्झरः हे ॥ ६॥ रामकृष्णपेजतायसुन्दरः धर्मदत्त चतुर्वेदि-सुन्दरः जगदानन्दझा-बन्धुप्रसन्नः संस्कृतप्रचारक्षेत्रसुमग्नः हो मदनमोहनकवे हे २ शैलेश तिवारि प्रमुखाः कीर्त्तयः विराजते इह भवे हे ॥ ७॥ अन्ये उत्कलीयाः सहृदयाः बन्धवः महामान्या संस्कृतप्रचारक्षेत्रे अतीव दक्षाः विश्वविख्याताः डः सदानन्द दीक्षित-पण्डित कुमार चन्द्र मिश्र-वाणीकंठ संस्कृतवरपुत्र गदाधर दाश- प्रा. सत्यनारायण आचार्य- प्रा. रुरु कुमार महापात्र-प्रमुखाः राराजन्ते । तेभ्यः रसकुल्यापुष्पाञ्जलिं विनिवेदयामि- सदानन्द दीक्षित बन्धुवरः पण्डित कुमार मिश्र प्रवरः गदाधर दाश वाणीविलासः सत्यनारायण भुवि एक्सप्रेस हो गायति रुरु कुमारः हे २ किशोर करस्य ललिता कविता सकल उपमा सारा हे ॥ ८॥ पुल्लवत् कोमला सकलरसचञ्चरीकाः युवा कवयः दयाराम गौतम-दीपकमिश्र- हर्षित मिश्र- व्रजेशपण्डित- युवराज भट्टराय प्रमुखाः महाचार्य्य मनस्तोष भट्टाचार्य-चिन्तामणि योशिप्रवराः कविमूर्द्धन्याः चलचञ्चलाः मुखपुस्तके । तेभ्यः रसकुल्यावाक्यपुष्पोपहारं विनिवेदयामि- भट्टराय- दयारामगौतमः कविमनस्तोष-काव्यसक्षमः वाग्विलासपति-दीपकमिश्रः चिन्तामणि योशि हर्षित मिश्राः ये सर्वे रसलुब्धाः भुवि हे २ व्रजेश पण्डित विरहकविता शोभते भावगम्भीरा हे ॥ ९॥ --- लेखकः - नन्दप्रदीप्तकुमारः श्रीजगन्नाथसंस्कृतविश्वविद्यालयः श्रीविहारः,पुरी Composed by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com
% Text title            : Rasakulya Nirksharini
% File name             : rasakulyAnirkShariNI.itx
% itxtitle              : rasakulyAnirkShariNI (lekhaH)
% engtitle              : rasakulyAnirkShariNI
% Category              : misc, article, pradIptakumArananda
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/religion
% Transliterated by     : Pradipta Kumar Nanda pknanda65 at gmail.com
% Proofread by          : Pradipta Kumar Nanda
% Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda
% Latest update         : August 12, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org