रक्षणं-रक्षणं राष्ट्ररक्षणम्
रक्षणं-रक्षणं राष्ट्ररक्षणम् ।
रक्षणं-रक्षणं देशरक्षणम् ॥
रक्षणम् राष्ट्ररक्षणम्-२
गणतन्त्रमस्माकमेतद् भारतं प्रचक्षते,
देवतात्मास्वरूपं महद् रूपे दृश्यते ।
युक्त आर्यमर्यादया देशेषु यः पूज्यते,
नौमि भारतभू धरां वसुन्धरा विराजते । १॥
वन्दनीयः पूजनीयो जगत्यस्मिन् सर्वदा,
अस्ति-अस्य भूमिर्वसुप्रदायिनी सदा ।
सभ्यतायाः सूर्योदयः नासीत् संसारे, यदा,
विश्वगुरुगौरवेण यो ज्ञायते तदा ॥ २॥
यत्र हरिणा कृष्णेन गीताज्ञानामृतं दत्तम्,
रामचन्द्रप्रभुणा लोकधर्म तत्र स्थापितम् ।
पूजायोग्या नियमाः सन्ति अस्याः संस्कृते,
धारणीयो माननीयो धर्मंः तत्र वर्तते ॥ ३॥
ज्ञानस्य प्रकाशो भवेत् तमो अपसरः,
वर्धतां वैभवमस्य कीर्तिः सुकीतिश्च ।
भवगुरु स्वर्णविहङ्गः अयं भवेत् पुनः,
एहि-एहि अस्य पुनस्सङ्गठनं कुर्मः। ४॥
रक्षणम् राष्ट्ररक्षणं
रक्षणम् देशरक्षणं
- नरपत कविया, संस्कृताचार्य