राष्ट्रोद्बोधनम्
(उपजातिवृत्तम्)
प्रवर्तितं साधु प्रशासनेन
यद् योजनाऽऽयोजनमत्र हृद्यम् ।
सर्वस्य साहाय्यमपेक्षते तद्
हृदा प्रयोज्य सुख शान्ति-हेतोः ॥
राष्ट्रस्य वृद्ध्यै जनता-समृद्ध्यैः
प्रवर्तितं योजन-सूक्ष्म-जालम् ।
देशः श्रिया श्लिष्यतु येन सद्यो
दीनार्त-लोकोद्धृति-रक्षणं स्यात् ॥
उद्योगमास्थाय विकास कार्ये
औद्योगिके वा कृषि-कार्य-जाते ।
तन्नाश्रिते यत्न-समाश्रिते च
सर्वात्मना साधु प्रयत्यमेव ॥
देशस्य रक्षामधिश्रित्य सद्य
स्याज्जागरूकत्वमजस्रमेव ।
विरोधि शक्तेर्दलनेन नित्यं
स्वपौरुषस्याभिनवा विवृद्धिः ॥
बलं निधीयेत विकास-कार्ये
समाज-कल्याण-परम्परासु ।
स्यादेकता सौख्यकरी जनेषु
विभेदलेशो न भुवः स्पृशेच्च ॥
भाषाश्रितं प्रान्त-समुत्थितो वा
धर्माश्रयो जाति विवर्ग-निष्ठः ।
यः कोऽपि भेदो न स वृद्धिमेयात्
सर्वे वयं भारत-भू-सुपुत्राः ॥
राष्ट्रस्य वृद्ध्यै नितरामपेक्ष्य
श्रमं कठोरो मनुजैः समस्तैः ।
निर्माणमूला प्रहिता सुदृष्टिः
स्यात् सर्वकार्येषु मनोबलाढ्या ॥
देशे विदेशे यदि वा कुचक्रं
स्वातन्त्र्य नाशाय प्रवर्तितं स्यात् ।
ध्वस्य प्रमथ्यं च तदायसेन ।
करेण सर्वैर्दृढ निश्चयेन ॥
आचारहीनत्वमुपेक्षणं च
भ्रष्टाऽऽश्रयाऽचार परम्परा वा ।
अनैतिकत्वं परशोषणं च
सर्वं समाप्य निजराष्ट्र-वृद्ध्यैः ॥
शान्त्यैः प्रगत्यैः अवमत्य भेदान्
लोका समे सङ्घटिता भवेयुः ।
चारित्रिकी प्राप्य समुन्नतिं च
सर्वापराधापनयं क्रियेत ॥
Proofread by Mandar Mali