राष्ट्रसन्देशः
(गीतिका) (प्रमाणिका वृत्तम्)
विकासतां प्रकाशतां
स्वदेश एष राजताम् ।
ज्वलत्प्रताप-रोचिषां
दिगन्त-व्याप्त-कीर्तिभाक् ॥ विकासता०॥
स्फुरद्-दहत् त्विषा दहेद्,
अराति-वृन्द-वाहिनीम् ।
स्वतन्त्र देश-भारतो
विभा-रतो विभासताम् ॥ विकासता०॥
धरा प्रपीडिता रुपा,
समस्त-आइग्ल शासकैः ।
हृता मृतेव चोज्झिता
न सान्त्वना-ध्वनि श्रुतः ॥ विकासता०॥
विदेश-चोर-लुण्ठकैः,
चिराय तापिता मही ।
स्वदेश-वीरमात्मजः
स्व-रक्षणं प्रयाचते ॥ विकासता०॥
नहीदृशः क्वचित् सुखं
यथा स्वमातृ-तर्पणम् ।
स्वमातृभूमि रक्षणं
स्वदेश शक्तिपोषणम् ॥ विकासता०॥
स्वदेश-बन्धु पोषणं
स्व-राष्ट्र-शत्रु-शोषणम् ।
स्वमातृभूमि-तोषणं
सदा सुखं मुदावहम् ॥ विकसता०॥
यदीष्टमात्म गौरवं
स्वदेश-मान-रक्षणम् ।
स्वदेश-केतु-सारणं
तदा भजस्व मातरम् ॥ विकासता०॥
उपास्य क्रान्ति-पद्धतिं
अपास्य दोष-संहतिम् ।
निरस्य दैन्य-दानवीं
सृतिं श्रयस्व मानवीम् ॥ विकासता०॥
श्रमाश्रया सृति शुभा
गुणावहा मति शुभा ।
गति शुभा सुखावहा
कृति शुभा मुदावहा ॥ विकासता०॥
स्व-जीवनं समर्प्यतां
स्वमातरं च रक्ष्यताम् ।
स्व-भारतं प्रपोष्यतां
हुतात्मनश्च तोष्यताम् ॥ विकासता०॥
Proofread by Mandar Mali