राष्ट्र रक्षा
(गीतिका) (भुजङ्गप्रयातम्)
स्व-देश-व्रते जीवनं येऽर्पयन्ति
यशस्ते भवे शाश्वतं स्थापयन्ति ।
इयं भारती भू सदा देवपूज्या
सदा रक्षणीया सदा सेवनीया ॥
स्वदेशस्य रक्षा विधौ ये प्रणांशः
स्वरक्तस्य दानं श्रमस्यापि दानम् ।
चलं यच्च वित्तं क्षणध्वंसि वर्ष्म
स्वदेशार्पितं जायते शाश्वतं तत् ॥
इदं जीवनं वृक्ष सस्योपमानं
सदा जायते नाशमत्यन्तमेति ।
ध्रुवं तत् स्थिरं तत् चिरस्थायि चैव
यदद्धाऽर्पितं देश-रक्षा-प्रयत्ने ॥
यशो ह्यक्षरं शाश्वतं चामृतं च
तनुनश्वरा चञ्चला क्षीणयोगा ।
स्वदेशस्य रक्षाव्रते कीर्तिरेव
यशश्चामृतं गौरव चानवद्यम् ॥
न जाता मृता वा कियन्तः पृथिव्यां
कियन्तो न वा नाममात्रेण शिष्टाः ।
पर भूतले रोचिषा रोचमाना
स्वदेश व्रता भान्ति भास्वत्प्रकाशा ॥
न चिन्तोर्चिता देहनाशस्य जातु
सदा चिन्तनीया प्रिया मातृभूमिः ।
धरा मातृरूपा वयं पुत्रभूतां
स्वमात्रे समर्प्यं धन जीवनं च ॥
धरा याचते ते बलिं नित्यमेव
धरा याचते रक्तदानं पवित्रम् ।
अपत्यस्य शौर्येण दानेन नित्यं
यशो मातृभूमे परा कोटिमेति ॥
स्वदेश-व्रता ये स्वदेहैरजस्रं
बलिं मातृभूम्यैः ददत्यात्म-युक्ता ।
न तेषां भयं शस्त्रपातस्य शूले
स्वयं निर्भयाः निर्जरान्ते धरण्याम् ॥
भवेद् भीरवं कातरां स्वार्थलिप्ता
स्मृतिं यान्ति भूयः श्वपाकादिवत् ते ।
सुवीराः सुधीराः स्वदेशाभिमानाः
स्मृतिं वारमेकं प्रयान्तीह शूराः ॥
यशो वै नृणां श्रेष्ठमेकं सदैव
यशोऽर्थं नृणां जीवनं वित्तमेव ।
मुधा स्यं यशः किं कुरुध्वे जघन्यः
ध्रुवं नाश-योगे परं देश हेतोः ॥
Proofread by Mandar Mali