राष्ट्रकुसुमाञ्जलिः
(गीतिका) (मात्रासमक जाति)
कुसुमाञ्जलिरयमुपवित-भावो
देशभक्त-चरणेषु समप्य ।
करुणा मुदिता हुत-वर चित्तो
देशभक्ति-शुभ भाव सनाथः ॥ कुसुमा०॥
निज-सुख-लाभ-दुःख-परिहीणैः
माया-ममता-मोह विहीनैः ।
मातृभूमि-गुण-गरिमाऽऽकृष्टैः
वीरैर्भाग्यवती वसुधेयम् ॥ कुसुमा०॥
येषां कृतिं ततिरद्य सुवासा
कोटि-कोटि जन मानस- हासा ।
शक्ति-भक्ति-मति-बोधन-कर्त्री
तेषां जनिरिह गौरव धर्त्री ॥ कुसुमा०॥
पाप-ताप-भय-शोषण-क्षुब्धा
राग-रोप-जनद्वेष विमुग्धा ।
देशद्रोहिभिरतिशय-क्लिष्टा
भारत-भूबलिवीरैस्नाता ॥ कुसुमा०॥
देश-दुःख-परिशोषित-गात्राः,
भारत-दैन्य-कष्ट-सक्षुब्धा ।
स्वातन्त्र्यार्थ-समर्पित-देहाः,
धन्यास्ते बलि-वीर-वदान्याः ॥ कुसुमा०॥
ताप-शोक-भय चिन्ता-मुक्ताः,
भारत-जननी-ताप-प्रतप्ता ।
देशार्पित-निज-जीवन वित्ता
धन्याः क्रान्ति-सुधा-रस-स्फीता ॥ कुसुमा०॥
येषां कृतिरिहि जीवन-दात्री
गौरव-गाथा सुख-तति धात्री ।
स्वार्थ-नाशिकोद्बोधन-कर्त्री
संशय-क्लेश-भ्रान्ति भय हर्त्री ॥ कुसुमा ॥
येषां कीर्तिः अविचल हृद्या
देशवासिभि परमभिनन्द्या ।
शक्ति प्रेरणा स्रोतोरूपा
जन-जन-मानस-मोहनरूपा ॥ कुसुमा०॥
क्रान्तिकारिभिर्जीवनदानैः
शान्तिपरैः सर्वस्वप्रदानैः ।
वीरैः शौर्य-धैर्य-परिपुष्टा,
भारत-जननी गुण-गण-तुष्टा ॥ कुसुमा०॥
भारतमातुर्गौरव-भूता,
देशभक्ति-गुण-पावित चित्ता ।
तेषां चरण-युग्ममभिनन्द्यं
तेषां चरितं सततं वन्द्यम् ॥ कुसुमा०॥
Proofread by Mandar Mali