राष्ट्रभारती भवतु संस्कृतम्

राष्ट्रभारती भवतु संस्कृतम्

राष्ट्रभारती भवतु संस्कृतं लोकभारती भवतु संस्कृतम् ॥ ध्रुवम् ॥ राष्ट्रभारती भवतु संस्कृतं सर्वासां वाचां जनयित्री भारतीयभावनासवित्री लोकमङ्गलं दिशतु संस्कृतं राष्ट्रभारती भवतु संस्कृतम् ॥ १॥ वेदपुराणोपनिषल्लीनं कालिदासकवितारसपीनं निखिलभारतं पठतु संस्कृतं राष्ट्रभारती भवतु संस्कृतम् ॥ २॥ राष्ट्रिय पशुः केसरी घुष्टः गृहे गृहे तत् किमसो दृष्टः महिमानं घोषयतु संस्कृतं राष्ट्रभारती भवतु संस्कृतम् ॥ ३॥ संस्कृतमखिलभारतीमूलं अपनेष्यति नूनं हृच्छ्रलं हृन्दि हृदा बध्नातु संस्कृतं राष्ट्रभारती भवतु संस्कृतम् ॥ ४॥ भवतु संस्कृतं राष्ट्रियभाषा नूनमुदेष्यति सहगमनाशा नवराष्ट्रं विदधातु संस्कृतं राष्ट्रभारती भवतु संस्कृतम् ॥ ५॥ रचना - मिश्रोऽभिराजराजेन्द्रः (हृन्दि - हृदयानि । हृदा - हृदयेन ।) अभिराजराजेन्द्रमहोदयेन तथ्यमेव प्रकाशितं अस्यां सुन्दरकवितायाम् । ``हिन्दीभाषा हिन्दीभाषिप्रदेशस्य अर्थे एव साधुः, न तु समग्रभारतस्य अर्थे । संस्कृतमेव भारतीयानां अर्थे श्रेयस्करम् ।'' भारतस्य ऐक्यसंरक्षणे भाषासमस्यायाः समाधाने च संस्कृतमेव अनन्यसाधनम् । कविवरेण श्रीमातुः संस्कृत विषयकाः अभिप्रायाः अत्र सुष्ठु अभिव्यञ्जिताः । अभिनन्दामः तं वयम् । - सम्पादकः लोकसंस्कृतम्, १९९१ ॥ Encoded and proodread by Swaroop Bhagwat
% Text title            : Rashtrabharati Bhavatu Samskritam
% File name             : rAShTrabhAratIbhavatusaMskRRitam.itx
% itxtitle              : rAShTrabhAratI bhavatu saMskRitam
% engtitle              : rAShTrabhAratI bhavatu saMskRitam
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Swaroop Bhagwat
% Proofread by          : Swaroop Bhagwat
% Description/comments  : From Loka Sanskritam magazine May 1991
% Indexextra            : (Scan)
% Latest update         : March 19, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org