प्रसरतु लोके संस्कृतभाषा
मनोभिलाषः -
प्रसरतु लोके संस्कृत-भाषा ।
देवतुल्या यस्या वै दासाः ॥ ध्रुवपद॥
संस्कृति-सम्पोषकाः सुशीलाः, संस्कृतज्ञा दीनाः ।
शिवाश्रये तिष्ठन्ति स्वदेशे, यथा निर्जले मीनाः ॥
सम्बलं सत्यं केवलमाशा । प्रसरतु लोके संस्कृत-भाषा ॥ १॥
यस्या भाग्यशालिनो भक्ताः परमदुःखिनो जाताः ।
कुत्र जवाहरो लालस्तेषां सन्ति सुरा अवदाताः ॥
देवगीर्येषां स्वयं प्रकाशा । प्रसरतु लोके संस्कृत-भाषा ॥ २॥
यावत्प्रसरति नैव प्रतिगृहं पूता संस्कृतवाणी ।
नैव मिलिष्यति शान्तिरतो विज्ञेया जनकल्याणी ॥
दुःखदाऽस्ति पिशाचिनी पिपासा । प्रसरतु लोके संस्कृत-भापा ॥ ३॥
अमरभारतीजुषां समाजे भूयादतिसम्मानम् ।
विभो ! विस्मृतं किं देवानां त्वया साम्प्रतं ध्यानम् ॥
एतादृशी क्व मृदुला भाषा ? भोजकालीना कुतो विभा सा ? ॥ ४॥
(श्री रामस्वरूपशास्त्री ``अमरः'' तालबेहटस्थः विरचितः)
Encoded and proofread by Shri Abirami Jayaraman