प्रबुद्धात्मन् गाय गीतम्
प्रबुद्धात्मन् गाय गीतं राष्ट्रभक्तिनिबोधकं
श्रावयन् जागरय लोकं निश्चलं जडतावृतं
राष्ट्रमेतद् राजतां, संवर्धतामभिवर्धतां
विश्वगुरुरिति मानितं सत् जगति सकले शोभताम् ॥
धवलचरितं स्फटिकविमलं राष्ट्रमिदमतिविश्रुतं
इतश्चोत्था तत्त्वगङ्गा जगदपावयदनुदिनं
यो हि विज्ञानादिविविधज्ञानदक्षो गुरुरभूत्
देश एष स्तूयतां, निध्यायतां पुनरर्च्यताम् ॥
मोहमायाजालतन्तून् छिन्धि सुज्ञानासिना
क्रोधकामान् मत्सरादीन् मर्दय त्वं निर्दयं
आत्मबलमासाद्य दृढतामेत्य याहि निरन्तरं
मातृभूस्समुपास्यतां, सा संस्कृता गीस्सेव्यताम् ॥
सर्वलोकहितैषिता समचित्तता भवतो भवेत्
अन्तरायान् ध्वंसयन् त्वं दोर्बलं सञ्चिनु महत्
धर्मनिष्ठः कर्मनिरतो जनहितं कुरु सन्ततं
परहितं सञ्चिन्त्यतां, ननु दीनजनता सेव्यताम् ॥
- जनार्दन हेगडे
Encoded and proofread by Shubha shubhazero at gmail.com