पश्यतु विमले पक्षिगणान्
पश्यतु विमले पक्षिगणान् मृदुलसुशोभनपक्षधरान् ।
चातकसारसकाककपोतमयूरगणा इह नन्दन्ति ॥ १॥
गायति कोकिलको रुचिरं नृत्यति बर्हिणः ।
सकुतूहलमिह पश्यति सर्वं का का कुर्वन् वायसः ॥ २॥
हरि ॐ! कथयति कादम्बो ङूं ङूं विलपति दात्यूहः ।
टुं टुं शब्दं कृत्वा गच्छति दार्वाघाटो रुचिराङ्गः ॥ ३॥
गच्छति कुहरं कञ्जनः पृच्छति कुशलं खञ्जनः ।
कम्पितशीर्षशरारिर्गच्छति क्वा क्वा कुर्वन् कासारम् ॥ ४॥
ध्यानं कुरुते बकराजो मौनं भजते शुकराजः ।
गगनं प्रति गतिवेगं कुर्वन् डयते गरुडः खगराजः ॥ ५॥
सरसि सरति खलु सारसो मनसि वसति किल सारङ्गी ।
उषसि विहायसि सखिजनसहिता विविधविहङ्गा विहरन्ति ॥ ६॥
केचन मधुरं विलपन्ति ह्यन्ये नितरां विलसन्ति ।
कलपिलकलकलबहुविधनिनदैः तोषितमित्थं मम चित्तम् ॥ ७॥
- रणजित वर्मा