परिवर्तनम्
गुणानुरागी राजा भोजः मालवादेशे राज्यं करोति स्म । तस्य राज्यव्यवस्था तथा आसीत् यथा कोऽपि तत्र चौर्यं कर्तु न उत्सहते स्म ।
तस्मिन् राज्ये आसीत् कश्चित् नराधम। दुर्मुखः नाम । उज्जयिनीनगरे स चौर्यं कर्तु बहु अयतत किन्तु सर्वदा असफलः अभवत् । अन्ते खिन्नः सः राज्यं त्यक्त्वा वनं गतः । वने कश्चित् आश्रमः आसीत् । तत्र स साधुमहाराजं वासस्थानं अयाचत । साधुः तस्मै न केवलं वासस्थानं अददात्, तस्य आतिथ्यमपि अकरोत् । अतिचकितः चोरः तत्रैव रात्रिं अयापयत् । परदिने सः साधु स्वकीयगुरुं कर्तुं इच्छन् तस्य सकाशं गत्वा शिक्षां प्राप्तुं इच्छां प्राकटयत् ।
साधुः अवदत् - वरं ! उपदेशं ददामि किन्तु त्वया मम वचनद्वयं स्वीकरणीयं आचरणीयं च । प्रथमम्, कदापि असत्यं न वद । द्वितीयम्, यस्मिन् गृहे खादसि तत्र चौर्यं मा कुरु । अन्यान् दुर्गुणान् त्यजेः न वा किन्तु एतत् वचनद्वयं त्वया आचरणीयम् ।
सः गुरोः वचनं स्व्यकरोत् । परन्तु स्वभावः दुरतिक्रमः ।
एकदा दुर्मुखः सामन्तस्य वेशं धारयित्वा भोजराजस्य प्रासादे चौर्यं कर्तुं गतः । द्वारपालः तं अपृच्छत् कस्त्वं ? अहं चोरः इति दुर्मुखः उदतरत् ।
द्वारपालः चकितः । कोऽपि चोरः आत्मानं चोरं न घोषयति । एष कदापि चोरः भवितुं न
शक्नोति । निश्चितं एष सामन्तः एव । एवं विचार्य द्वारपाल तस्मै निर्विघ्नं प्रवेशं दत्तवान् ।
दुर्मुखः मनसि गुरोः प्रतापं प्रशंसन् अभ्यन्तरं गत्वा कस्मिंश्चित् कोणे गुप्तं अतिष्ठत् । किञ्चित्कालात् परं राजा बहिर्निर्गतः । चोरः अवसरं प्राप्य मणिमुक्तादीनां पोटलीं कृत्वा यदा प्रस्थातुं उद्यतः तदा तस्य दृष्टिः चतुःषष्टिमिष्टान्नैः सज्जितायां भोजनस्थाल्यां अपतत् । परन्तु यदा सः खादितुं अगच्छत् तदा तस्य मनसि गुरोः द्वितीयशिक्षायाः स्मृतिः जागरिता ``यस्मिन् गृहे खादसि तत्र चौर्यं मा कुरु'' इति । स्थालीं त्यक्त्वा पोटलीं च विहाय गुप्तमार्गेण सः प्रासादात् बहिर्निर्गतः ।
राजा प्रत्यागत्य अद्भुतं चोरकार्यं दृष्ट्वा चकितः । परदिने सः द्वारपालं चोरस्य अन्वेषणाय प्रेषितवान् । बहुकालं अन्वेषणात् परं सः दुर्मुखः राज्ञः समक्षं आनीतः ।
दुर्मुखः राजानं यथायथं सत्यं अवदत् । राजा तस्मै विपुलं धनं दत्त्वा तं अमोचयत् ।
चोरः अचिन्तयत् - ``मम गुरुः अतीव प्रतापी । धन्योऽधुनाहम् । पुरस्कारधनमिदं गुरुचरणे निवेद्य आश्रमे निवस्तुं निवेदयिष्यामि । गुरोः वचनस्य आचरणेन मया समाजे सम्मानः प्राप्तः, राजमानं धनं च लब्धम् । ''
शनैः शनैः दुर्मुखस्य सर्वे दुर्गुणाः दूरीभूताः । सः दुर्मुखतां परित्यज्य सुमुखः नाम महात्मा अभवत् । - सुमेधाः
Encoded and proofread by Swaroop Bhagwat