परमार्थश्लोकद्वयम्
श्रीवात्स्यवरदगुरुभिरनुगृहीतं
श्रीरस्तु ।
श्रीमते हयग्रीवाय नमः ।
श्रीमते रामानुजाय नमः ॥
वन्देऽहं वरदार्यं तं वत्साभिजनभूषणम् ।
भाष्यामृतप्रदानाद्यः सञ्जीवयति मामपि ॥
सत्सङ्गाद्भवनिःस्पृहो गुरुमुखाच्छ्रीशं प्रपद्यात्मवान्
प्रारब्धं परिभुज्य कर्मशकलं प्रक्षीणकर्मान्तरः ।
न्यासादेव निरङ्कुशेश्वरदयानिर्लूनमायान्वयः
हार्दानुग्रहलब्धमध्यधमनिद्वारा बहिर्निर्गतः ॥ १॥
मुक्तोऽर्चिर्दिनपूर्वपक्षषडुदङ्मासाब्दवातांशुम-
द्ग्लौविद्युद्वरुणेन्द्रधातृमहितस्सीमान्तसिन्ध्वाप्लुतः ।
श्रीवैकुण्ठमुपेत्य नित्यमजडं तस्मिन् परब्रह्मणः
सायुज्यं समवाप्य नन्दति समं तेनैव धन्यः पुमान् ॥ २॥
प्रातर्नित्यानुसन्धेयं परमार्थं मुमुक्षुभिः ।
श्लोकद्वयेन संक्षिप्तं सुव्यक्तं वरदोऽब्रवीत् ॥ ३॥
इति परमार्थश्लोकद्वयं समाप्तम् ।
Proofread by Aruna Narayanan narayanan.aruna at gmail.com