ओतो ओतो मोहन केतो
ओतो ओतो मोहन केतो क्वनु खलु यातोऽसि
आहूतोसि नासिकुतोसि आखं गृह्णासि आ.अ.अ.अ
कोष्ण क्षीरं तवोपनीतं आगच्छागच्छ
आगन्तुं ते नेच्छति चित्तं वाञ्छसि किं ब्रूहि आऽऽऽ
गेहे गेहे दधिनवनीते खादसि चौर्येण
पायं पायं पयसः पूरं पूरितमुदरं ते आऽऽऽ