निष्ठुरा कोरोना
लेखकः - नन्दप्रदीप्तकुमारः
बन्धो ! सत्यं शृणु
आगता राक्षसी महामारी
भयानकी विभीषिकामयी
विषाणुस्फुरन्ती महाभौतिकी
मुण्डप्रिया श्मशानाकर्षिणी
अतीव चञ्चला
निष्ठुरा कोरोना
असह्या दुर्भेद्या दुसाध्या कदाचित् ।
---पिशाचिनीव ग्रासयति
---शिवज्वरवत्त्रासयति
न पितरं न मातरं न सुतं न कन्यां
न जायां न बान्धवान्
कानपि न त्यजति सा
न पश्यति प्रियाप्रियं
सर्वान् क्लिश्यते
सपरिवारं गृह्णाति
अन्तकालयं प्रेषयति शीघ्रम् ।
---श्रुतवान् खलु
स्वजन-त्यक्तानां करुण-विलापम् ?
---दृष्टं वा अश्रुपूर्णनेत्राणि ?
----त्यक्तास्त्वया परिवार-सदस्याः ?
----पश्य, विधिरहित-शवदाहोस्त्र प्रचलति
----न मुखाग्निः नान्तेष्टिक्रिया वैदिकी
कस्मात् वावाञ्छीषि श्मशानम्
अनुशोचतात्तेषामदूरदर्शिनाम् ।
---मास्तु सर्वं, अनुरुन्द्धे प्रिय !
कालपाशात् बिभिहि
हुंकारं त्यज
सर्वकारवचनं बुध्यस्व
कर्णौ कुरु चिकित्सकनिर्देशम्
जन-संघाद्दूरं व्रज
झटिति पिधेहि मुख-नासिके
वारम्बारं हस्तौ प्रक्षालय
मा कुरु बहिर्गमनम्
टीकां गृहाण
स्व-तथ्यं प्रदेहि सर्वकाराय
आत्मानं रक्ष परिवारं रक्ष
स्वगेहे तिष्ठ सुखी भव सुस्थो भव
एष आदेश एष उपदेशः
एतदनुशासनम् ।
--- लेखकः - नन्दप्रदीप्तकुमारः
Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com