नौमि पुण्यभारतम्
नौमि धर्मपालितं पुण्यभूमि-भारतं
जन्मभूमिमानधातृ-नेतृवृन्दसेवितम् ॥ ध्रुवम्॥
त्यागभावभाषितं पुण्यधामराजितं
सत्यमन्त्रमन्त्रितं सभ्यतात्मजीवितम् ।
दैवसम्पदन्वितं तीर्थराजराजितं
जातिधर्मसंप्रदायभेदभावर्जितम् ॥ १॥
सर्वधर्मराजितं गङ्गागोदामण्डितं
सभ्यभाववर्धितं शान्तिकान्तिशोभितम् ।
ज्ञानसूर्यदीपितं भातु पुण्यभारतं
व्यास-भास-कालिदास-जयदेववन्दितम् ॥ २॥
-पण्डितः भूपतिभूषणमिश्रः