नमो नमो भारताम्बे
नमो नमो भारताम्बे सारस्वतशरीरिणि ।
नमोऽस्तु जगतां वन्द्ये ब्रह्मविद्याप्रकाशिनि ॥ १॥
नमो नमो भारताम्बे हिमालयकिरीटिनि ।
गङ्गाद्याः सरितः सर्वाः स्तन्यं ते विश्वपावनि ॥ २॥
नमो नमो भारताम्बे बदरीशण्डमण्डिते ।
तीर्थीकुर्वन्ति लोकांस्ते तीर्थभूता मुनीश्वराः ॥ ३॥
नमो नमो भारताम्बे विन्ध्यतुङ्गस्तनायिते ।
समुद्रवसने देवि सह्यमालाविराजिते ॥ ४॥
नमो नमो भारताम्बे मुक्तिकेदाररूपिणि ।
ज्ञानबीजाकरे पूर्णे ऋषीन्द्रततिसेविते ॥ ५॥
नमो नमो भारताम्बे सर्वविद्याविलासिनि ।
गौडमैथिलकाम्पिल्यद्रविडादिशरीरिणि ॥ ६॥
नमो नमो भारताम्बे सर्वतीर्थस्वरूपिणि ।
काश्या हि काशसे मातस्त्वं हि सर्वप्रकाशिका ॥ ७॥
नमो नमो भारताम्बे गुरुस्त्वं जगतां परा ।
वेदवेदान्तगम्भीरे निर्वाणसुखदायिनि ॥ ८॥
यतिलोकपदन्यासपवित्रीकृतपांसवे ।
नमोऽस्तु जगतां धात्रि मोक्षमार्गैकसेतवे ॥ ९॥
-- रचैय्ता - रामचरणतीर्थ