नूतनवर्षाभिनन्दनम्
हेवर्ष ! हर्षङ्कर ! नूतन ! तावकीना
सन्मङ्गलं दिशतु मे खलु सम्प्रवृत्तिः ।
हृत्तापमापदुदितं निखिलं वलेन
प्रोन्मूल्य कल्यमनसं कुरु सत्वरं माम् ॥ १॥
माद्यन्मधुव्रतकुलैरुपगीयमानाः
कूजत्पिकव्रज-कुहू-रव-रञ्जिताशाः ।
एते रसालतरवः परवश्यकल्पा-
स्त्वत्सङ्गजां श्रियमवाप्य समुल्लसन्ति ॥ २॥
त्वत्सङ्गमेन किल चेतन एव लोके
नो केवलं कलितकामकलश्चकास्ति ।
किन्तूल्लसन्ति नितरां चितरम्यभावा-
स्ताश्चेतनाविरहिता अपि वृक्षलक्ष्म्यः ॥ ३॥
येषां मनो न विकृतिं लभते विलोक्य
त्वां हायनप्रवर ! सर्वगुणाभिरामम् ।
तेऽसंशयं कठिनशैल-समानचित्ताः
कुड्योपमा जगति जाग्रति जीवशून्याः ॥ ४॥
मन्मङ्गलं कुरु, वरं वितराशु माह्यम्,
मां रक्ष रक्ष, सततं वरवर्ष ! हर्षात् ।
त्वामादरेण मनसा शिरसा च भूयो-
भूयो नमामि भवताद् भुवि भोगलक्ष्मीः ॥ ५॥
रचना - श्रीदेवीप्रसाद शर्मा, शुक्लः, कविचक्रवर्ती
Encoded and proofread by Varun P.