मथुरा-माधुरी
जयति सा परमाद्भुतराधिका-
रमणवृत्तपवित्रतरीकृता ।
कुसुमितद्रुमराजिविराजिता
व्रततिकाततिकापरिवेष्टिता ॥ १॥
सरसरासविहाररतस्वभू-
चरणपङ्कजलाञ्छितभूतला ।
वनगुहान्तरवासकसज्जिका-
नवरता वरतामरसोदका ॥ २॥
अभिनवस्फुटशाखिशिखास्खल-
त्कुसुमसंहतिसङ्कुलसञ्चरा ।
नददुदारखगावलिरुच्चकै-
रुपवना पवनाधुतपल्लवा। ॥ ३॥
रुचिरकुञ्जगृहान्तरसञ्चर-
द्भुजगभोजिविकासितताण्डवा ।
विपुलसूरसुतापुलिनान्तरे
सुनयनानयनादरजृम्भिता। ॥ ४॥
विकिरकेलिविमर्दसमुच्चर-
त्कुसुमसौरभसान्द्रदिगन्तरा ।
किमपि चेतसि नर्म वितन्वती
मुरजितोऽरजितोद्धतसम्पदः ॥ ५॥
स्फुरितनैकविधच्छवितूलिका -
लिखितवर्णचयैर्हरिनामभिः ।
मधुरचित्रभृतासु कनत्प्रजा-
सुखचिता खचिताऽऽलयभित्तिषु ॥ ६॥
निविडभावसमेधितभास्वर -
स्वरजुषां रजसां तमसामपि ।
क्षतिकृतां महतां हरिकीर्तन -
ध्वनिरमा निरमानितकल्मषा ॥ ७॥
विबुधसद्मसु पल्लवितोल्लस-
ल्ललितभागवतामृतसेविभिः ।
विविधभक्तजनैश्च समन्ततो
वलयिता लयितालविघूर्णिता ॥ ८॥
अयोध्यादिपुरीश्लेषेण मथुरा-
महितरामचरित्रपवित्रिता
ललितसारवनीरतरङ्गिता ।
दशरथस्य पुरीव हरीक्षिता (अयोध्या)
शुभरता भरताशयसंस्कृता ॥ ९॥
सततसङ्गतसाधुमहोदया-
ऽधिमणिकर्णिकविष्णुपदाञ्चिता । (काशी)
स्मरजितो नगरीव शिवोज्ज्वला
सुरुचिरा रुचिराजितनागरा ॥ १०॥
गहनसालसमाकलितावने
प्रतिदिनं विकसन्मधुसूदना ।
यदुपुरीव च सागरसंश्रिता (द्वारावती-द्वारका)
मधुरसाधुरसा स्फुरदुद्धवा ॥ ११॥
प्रथितविक्रमरम्यरसाश्रया
सरितमादधती खलु भास्वतीम् ।
स्फुरितधाममहेशमवन्तिका (अवन्तिका, उज्जैन)
कविकलाविकलाकलनालया ॥ १२॥
अधिगताऽधिकदक्षिणमण्डलं
सदनुकम्पकृतिस्थितिशालिनी ।
मुदितमुक्तिसतीवरकाञ्चिका (काञ्चिपुरम्)
सुरचितारचिताघविनाशना ॥ १३॥
स्फुरदुदग्रसुपर्वतरङ्गिणी
विबुधदक्षनिरूपितसत्क्रिया ।
व्रजवती महतां बहुमायका- (मायापुरी-हरिद्वार)
गमहिता महिता श्रुतशासनैः ॥ १४॥
अमरराजपुरीव सुवज्रिका
भुजगराजपुरीव सुभोगिका ।
मधुपुरीप्रतिसद्ममनोहर- (मथुरा)
न्नवसुधा वसुधामलभूषणा ॥ १५॥
॥ इति मथुरा-माधुरी समाप्ता ॥
First 7 verses are for Mathura and the last 7 are for places
mokShadAyikA ayodhyA, mathurA, mAyA(puri), kAshI, kAnchI,
avantikA, (jagannatha)purI, dvArAvatI
Encoded by Kamini Vishwanathan
Proofread by Kamini Vishwanathan, Lalitha Mallikarjunan