मम माता देवता
मम माता देवता ।
मम माता देवता ॥
अतिसरला, मयि मृदुला
गृह कुशला, सा अतुला ॥ १॥
पाययति दुग्धं, भोजयति भक्तं
लालयति नित्यं, तोषयति चित्तम् ॥ २॥
सायङ्काले नीराजयति
पाठयति च मां शुभङ्करोति
॥ श्लो ॥ शुभं कुरु त्वं कल्याणं
आरोग्यं धनसम्पदः ।
दुष्टबुद्धिविनाशाय
दीपज्योतिर्नमोऽस्तु ते ॥
पाठयति च मां शुभङ्ककरोति ॥ ३॥
रात्रौ अङ्के मां स्वापयति
मधु मधु मधुरं गीतं गायति
आ आ आ आ आ ॥ ४॥
- श्री ल.म. चक्रदेवः
Encoded and proofread by Shubha shubhazero at gmail.com