रचयन्ति काञ्चन-शकुन्तास्स्वं

रचयन्ति काञ्चन-शकुन्तास्स्वं

(``जहाँ डाल डाल पर'' हिन्दी चित्रपटगीतस्य संस्कृतानुवादः) रचयन्ति काञ्चन-शकुन्तास्स्वं प्रतिशाखं यत्र कुलायम्, मम भारत-देशः सोऽयम्, मम भारत-देशः सोऽयम् । अपि सत्यमहिंसा धर्म आस्पदं दधते प्रतिपद-मेयम् । मम भारत-देशः सोऽयम्, मम भारत-देशः सोऽयम् ॥ (जय भारति ! जय भारति ! जय भारति ! जय भारति !) ॥ ध्रुवपदम्॥ इयमवनी सा ऋषि-मुनि-व्रजो मालां जपतीश्वर-नाम्नः, (हरि ॐ, हरि ॐ, हरि ॐ, हरि ॐ) । बालोऽस्ति मोहनः प्रत्येकम्, बाला राधा यद्-धाम्नः । बाला राधा यद्-धाम्नः । सर्वादौ कुरुते रविरावर्त्तम्, यत्रागतः स्वकीयम् । मम भारत-देशः सोऽयम्, मम भारत-देशः सोऽयम् ॥ १॥ गङ्गा यमुना प्रवहन्ति यत्र वै कृष्णा-सह-कावेरी, या उत्तर-दक्षिण-पूर्व-पश्चिमान् पाययन्ति सुधा-वारि । पाययन्ति सुधा-वारि । फल-पुष्पाणीदं क्वचित् प्रसूते, तनुते केसर-कायम् । मम भारत-देशः सोऽयम्, मम भारत-देशः सोऽयम् ॥ २॥ वैचित्र्यमयी-धरणेरस्याः पर्वाण्यपि विचित्र-भासः, क्वचित् प्रदीप्ति-र्दीपावल्याः होली-वर्ण-विलासः । होली-वर्ण-विलासः । इह राग-रङ्गयो-र्हास्य-मुदानां चतुर्दिशं प्राचुर्यम् । मम भारत-देशः सोऽयम्, मम भारत-देशः सोऽयम् ॥ ३॥ यस्मिन् शिवालया मन्दिर-माला गगनं सम्भाषन्ते, पुनः क्वचिद् वा नगरे द्वारे तालं कोऽपि न दत्ते । तालं कोऽपि न दत्ते । आयातः प्रेम्णो निनाद्य वेणुम्, उभे प्रभातं सायम् । मम भारत-देशः सोऽयम्, मम भारत-देशः सोऽयम् ॥ ४॥ रचयन्ति काञ्चन-शकुन्तास्स्वं प्रतिशाखं यत्र कुलायम्, मम भारत-देशः सोऽयम्, मम भारत-देशः सोऽयम् ॥ (जय भारति ! जय भारति ! जय भारति ! जय भारति !) मूल-हिन्दी-गीतम् - जहाँ डाल-डाल पर सोने की चिड़ियाँ करती हैं बसेरा चलचित्रम् - सिकंदर-ए-आज़म (१९६५) गीतकारः - राजेन्द्र-कृष्णः सङ्गीतकारः - हंसराज-बहलः गायकः - मोहम्मद-रफी मूलस्वरानुकूल-संस्कृतानुवादकः - डाॅ हरेकृष्ण-मेहेरः Copyright Dr.Harekrishna Meher
% Text title            : Mama BharatadeshaH so.ayam
% File name             : mamabhAratadeshaHsoayam.itx
% itxtitle              : rachayanti kAnchana\-shakuntAssvaM mamabhAratadeshaHso.ayam (harekRiShNameheravirachitam)
% engtitle              : rachayanti kAnchana-shakuntAssvaM mamabhAratadeshaHso.ayam
% Category              : misc, sanskritgeet, hkmeher
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Harekrishna Meher meher.hk at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Harekrishna Meher
% Proofread by          : Harekrishna Meher
% Description/comments  : Original Hindi Song : 'Jahaan Daal Daal Par' Film 'Sikandar-E-Azam (1965)'
% Indexextra            : (Text and translation, Videos 1, 2, chalachitra, Collection)
% Acknowledge-Permission: Dr. Harekrishna Meher
% Latest update         : February 1, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org