मम भारतं विजयते
मम भारतं विजयते ।
निगमागमैरुपेतं विज्ञानरत्नरम्यम् ।
वेदाङ्गपूतगात्रं मम भारतं विजयते ॥ १॥
लोकप्रबोधशीलं शोकप्रणाशशीलम् ।
चेतोविकासकुशलं मम भारतं विजयते ॥ २॥
सह्याद्रिविन्ध्य हिमवत्सप्ताद्रिकीर्तितश्री
गङ्गाजलैः पवित्रं मम भारतं विजयते ॥ ३॥
क्वापि श्रमेण सहितं क्वापि प्रमोदभरितम् ।
नानाक्रियाकलापं मम भारतं विजयते ॥ ४॥
गान्धी रवीन्द्र गौतम नेहरूप्रभृत्यनेकैः ।
जननायकैः समृद्धं मम भारतं विजयते ११॥ ५॥
कम्बन्कबीर तुलसीकविकालिदासगीतम् ।
विबुधैः सदैव चेष्टं मम भारतं विजयते ॥ ६॥
कोणार्कताजसाँचीखजुराहोसारनाथैः ।
कुतुबादिना च महितं मम भारतं विजयते ॥ ७॥
श्रुतभाखड़ान रौराकोटाभिलाइकल्पैः
संयन्त्रकैः समिद्धं मम भारतं विजयते ॥ ८॥
सिंहस्थ कुम्भसारणनवचण्डिकादिभव्यैः
मेलापकैः प्रसन्नं मम भारतं विजयते ॥ ९॥
विश्वस्य बान्धवं यत्, मोक्षस्य साधकं यत् ।
गायच्च पञ्चशीलं मम भारतं विजयते ॥ १०॥
निन्दन्तु नीतिनिपुणाः यदि वा स्तुवन्तु कामम् ।
नित्यं विकाशमानं मम भारतं विजयते ॥ ११॥
जय भारतभूमे ! (संस्कृतकाव्यम्)
रचना - डाॅ. रमाकान्त शुक्लः
Proofread by Mandar Kulkarni