मातृभूमिवन्दना
मातृभूमे नमो मातृभूमे नमो ।
मातृभूमे नमो मातृभूमे नमः ॥
अग्रतस्ते नमः पृष्ठतस्ते नमः,
ऊर्ध्वतस्ते नमश्चाऽप्यधस्ते नमः,
वामतस्ते नमो दक्षिणे ते नमो ।
मातृभूमे नमो मातृभूमे नमः ॥
ते गिरिभ्यो नमस्ते नदीभ्यो नमः,
ते वनेभ्यो नमो जनपदेभ्यो नमः,
ते कणेभ्यो नमस्ते अणुभ्यो नमो ।
मातृभूमे नमो मातृभूमे नमः ॥
प्राणदे त्राणदे देवि शक्तिप्रदे,
ऋद्धिदे सिद्धिदे भुक्ति-मुक्तिप्रदे,
सर्वदे ! सर्वदा देवि ! तुभ्यं नमो ।
मातृभूमे नमो मातृभूमे नमः ।
- वासुदेव द्विवेदी शास्त्री
Proofread by Mandar Mali