मानसं मम विकसितं कुरु
अस्माकं शरीरं रथवत् अस्ति । पञ्च अश्वाः एनं वहन्ति-चक्षुः,
श्रोत्रम्, नासिका, जिह्वा, त्वक् च । मनः एतैः संसारस्य विषयाणां
उपभोगाय मनुष्यं प्रेरयति । यदि मनुष्यः मनः संयम्य विवेकेन
कार्यं करोति तदा जीवने सुखं प्राप्नोति । यदि अविवेकेन कार्यं करोति
तदा जीवनं नश्यति । अतः मनसः विकासः अपेक्षितः । वेदेषु अपि
कथितम्-तन्मे मनः शिवसङ्कल्पमस्तु । गीतायामपि उक्तम् -
असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥
अतः कविवरः रवीन्द्रठाकुरमहाभागाः एतस्यां कवितायां
मनसः विकासार्थं ईश्वरं प्रति प्रार्थनां करोति ।
मानसं मम विकसितं कुरु मानसचर हे ।
कुरु निर्मलं उज्ज्वलं अयि चिर सुन्दर हे ।
उद्यतं अतिप्रबुद्धं अपि निर्भयं कुरु हे ।
सुशिवं अनलसं अति निःसंशयं कुरु हे ।
आन्तरं मम विकसितं कुरु आन्तरतर हे ।
योजय मां निखिलसङ्गे मुञ्च हे मम बन्धनम् ।
सञ्चारय सकलकर्मसु शान्तं तवच्छन्दः ।
चरणपद्मे चित्तं मम निष्पन्दितं कुरु हे ।
कुरु नन्दितम्, अतिनन्दितम्, अभिनन्दितं हे ।
आन्तरं मम विकसितं कुरु आन्तरतर हे ।
अन्वयः
हे मानसचर मम मानसं विकसितं कुरु ।
हे अयि चिर सुन्दर (मम मानसं) उज्ज्वलं निर्मलं कुरु ।
हे उद्यतं अतिप्रबुद्धं अपि निर्भयं कुरु ।
हे सुशिवं अनलसं अति निःसंशयं कुरु ।
हे आन्तरतर मम आन्तरं विकसितं कुरु ।
मां निखिलसङ्गे योजय, मम बन्धनं मुञ्च ।
सकलकर्मसु सञ्चारय, शान्तं तव छन्दः ।
हे मम चित्तं चरणपद्मे निष्पन्दितं करु ।
हे नन्दितम्, अतिनन्दितम्, अभिनन्दितं कुरु ।
हे आन्तरतर ! मम आन्तरं विकसितं कुरु ।
Composed by Rabindranath Tagore originally in Bengali
From CBSE textbook Sanskrit Ritika for Standard XI.