कुरुध्वमद्य सज्जताम्
कुरुध्वमद्य सज्जतां रणाय भोः सशस्त्रतां
प्रयात राष्ट्रसैनिकाः प्रयात राष्ट्रसैनिकाः ॥
समिद्ध एष सङ्गरः प्रयान्ति सैनिका रणं
समेत्य कुर्महे वयं रिपूंश्च धूलिसात् क्षणम् ।
संहताश्च सञ्जाताः युध्येमहि युध्येमहि
प्रयात रेऽ, अभियात रेऽ, प्रयात राष्ट्रसैनिकाः ॥ १॥
मरुत्सुताः प्रकुर्महे स्वमुष्टिसाद् दिवाकरं
अगस्त्यवत्पिबेम छुल्लुकीकृतं च सागरम् ।
बाला ह्यभिमन्यवः क्षणाज्जयेम चान्तकं
प्रयात रेऽ, अभियात रेऽ, प्रयात राष्ट्रसैनिकाः ॥ २॥
चन्द्रगुप्तमद्य संस्मरेम भीमविक्रमं
धमनिसञ्चितं वितन्महे च शिवपराक्रमम् ।
महापरम्परामिमां च कुर्महे त्वखण्डितां
प्रयात रेऽ, अभियात रेऽ, प्रयात राष्ट्रसैनिकाः ॥ ३॥
अग्निकुण्डमत्र चण्डताण्डवं समन्ततः
निहत्य शक्तिमासुरीं विदध्महे तदाहुतिम् ।
वंश एष विख्यातो मार्ग एष नो महान्
प्रयात रेऽ, अभियात रेऽ, प्रयात राष्ट्रसैनिकाः ॥ ४॥
- डाॅ श्रीकान्त बहुलकरः, श्री वामनराव अभ्यङ्कर च
Encoded and proofread by Shubha shubhazero at gmail.com