क्षितौ राजते भारतस्वर्णभूमिः

क्षितौ राजते भारतस्वर्णभूमिः

सुपूर्ण सदैवास्ति खाद्यान्नभाण्डं नदीनां जलं यत्र पीयूषतुल्यम् । इयं स्वर्णवद् भाति शस्यैर्धरेयं क्षितौ राजते भारतस्वर्णभूमिः ॥ १॥ त्रिशूलाग्निनागैः पृथिव्यस्त्रघोरैः अणूनां महाशक्तिभिः पूरितेयम् । सदा राष्ट्ररक्षारतानां धरेयं क्षितौ राजते भारतस्वर्णभूमिः ॥ २॥ इयं वीरभोग्या तथा कर्मसेव्या जगद्वन्दनीया च भूः देवगेया । सदा पर्वणामुत्सवानां धरेयं क्षितौ राजते भारतस्वर्णभूमिः ॥ ३॥ इयं ज्ञानिनां चैव वैज्ञानिकानां विपश्चिज्जनानामियं संस्कृतानाम् । बहूनां मतानां जनानां धरेयं क्षितौ राजते भारतस्वर्णभूमिः ॥ ४॥ इयं शिल्पिनां यन्त्रविद्याधराणां भिषक्शास्त्रिणां भूः प्रबन्धे युतानाम् । नटानां नटीनां कवीनां धरेयं क्षितौ राजते भारतस्वर्णभूमिः ॥ ५॥ वने दिग्गजानां तथा केसरीणां तटीनामियं वर्तते भूधराणाम् । शिखीनां शुकानां पिकानां धरेयं क्षितौ राजतेभारतस्वर्णभूमिः ॥ ६॥
% Text title            : kShitau rAjate bhAratasvarNabhUmiH
% File name             : kShitaurAjatebhAratasvarNabhUmiH.itx
% itxtitle              : kShitau rAjate bhAratasvarNabhUmiH (supUrNa sadaivAsti)
% engtitle              : kShitau rAjate bhAratasvarNabhUmiH
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : NCERT Book
% Indexextra            : (Text, Video)
% Acknowledge-Permission: Sanskrit Promotion Foundation https://www.samskritpromotion.in
% Latest update         : September 7, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org