कृत्वा नवदृढसङ्कल्पम्
कृत्वा नवदृढसङ्कल्पं
वितरन्तो नवसन्देशं
घटयामो नव सङ्घटनं
रचयामो नवमितिहासम् ॥
नवमन्वन्तरशिल्पिनः
राष्ट्रसमुन्नतिकाङ्क्षिणः
त्यागधनाः कार्यैकरताः
कृतिनिपुणाः वयमविषण्णाः ॥ १॥
भेदभावनां निरासयन्तः
दीनदरिद्रान् समुद्धरन्तः
दुःखवितप्तान् समाश्वसन्तः
कृतसङ्कल्पान् सदा स्मरन्तः ॥ २॥
प्रगतिपथान्नहि विचलेम
परम्परां संरक्षेम
समोत्साहिनो निरुद्वेगिनो
नित्यनिरन्तरगतिशीलाः ॥ ३॥
- श्री जनार्दन हेगडे
Encoded and proofread by Shubha shubhazero at gmail.com