कृषकः
(गीतिका) (मात्रासमकजाति)
जयतु कर्षको भारत-त्राता,
अन्न-धान्य-धन जीवन-दाता ।
शान्त-साधकः प्रतिपल योद्धा
कृति-तति-रक्त-दोष-संशुद्धा ॥ जयतु०॥
शीत-ग्रीष्म-भय-संशय-मुक्तः,
शक्तिशालि-वृषभ-द्वय-युक्तः ।
आत्मत्यागरतिरन्न-प्रदाता,
भारत-भू-हित-जीवन-दाता ॥ जयतु०॥
कर्मरतः कृषि-कर्म-प्रवीणो
दैन्य शोक-संशोषण-क्षीणः ।
लोक-रक्षको लोक शोषितः
पौर-रक्षकः पौर-भक्षितः ॥ जयतु०॥
मान-लोभ-मद-दोष-वर्जितः,
शिक्षित-शासक-वर्ग-तजितः ।
सकल-लोक-सस्यान्न-प्रदाता
सततमभाव-दैन्य-सन्धाता ॥ जयतु०॥
क्लान्ति श्रान्ति-भय-क्षोभ-विमुक्तः,
पौर शान्ति-सुख-वैभव रिक्तः ।
अज्ञानान्ध-प्रसारण-युक्तः,
ज्ञान-दीधितेर्गौरव मुक्तः ॥ जयतु०॥
त्याग-तपस्या-संयम-मूर्तिः
दुःख-द्वन्द्व-सहनाऽश्रित-शक्तिः ।
ताप-शीत-वर्षा-भय-मुक्तः,
निज-कृषि-कर्मणि प्रतिपल-युक्तः ॥ जयतु०॥
भारत-भूमि कृषक-निर्भरा,
कृषक-पोषिता, कृषकैर्गुप्ता ।
कृषक-पोपणे भारत-पुष्टिः
कृषक-पीडने- भारत-पीडा ॥ जयतु०॥
बीज-खाद्य-सुविधा तु समस्ता
भारत-ग्रामे प्रतिपदमिष्टा ।
धान्यवृद्धिरिह देश-समृद्धिः
सस्यवृद्धिरिह गौरव-वृद्धिः ॥ जयतु०॥
ग्राम शोषणं दीन-शोषणं,
कृपक-शोषणं भारत-दुःखम् ।
कृषेरुन्न्तिः भारत-वृद्धिः,
कृषेर्विकासो जनता- हासः ॥ जयतु०॥
कृषक-गौरवं प्रतिपद रम्यं
कृषक-समृद्धिः भारत-वृद्धिः ।
कृषक-सुरक्षा भारत-रक्षा
कृषक-विभूतिः भारत-भूति ॥ जयतु०॥
Proofread by Mandar Mali