कालिदासः जने जने
कालिदासः जने जने
कण्ठे कण्ठे संस्कृतं
ग्रामे ग्रामे नगरे नगरे
गेहे गेहे संस्कृतम् ॥
मुनिजनवाणी कविजनवाणी
बुधजनवाणी संस्कृतम् ॥
सरला भाषा मधुरा भाषा
दिव्या भाषा संस्कृतम् ॥
मुनिजनवाञ्छा कविजनवाञ्छा
बुधजनवाञ्छा संस्कृतम् ॥
जने जने रामायणचरितं
प्रियजनभाषा संस्कृतम् ॥
स्थाने स्थाने भारतदेशे
सदने सदने संस्कृतम् ॥
Encoded and proofread by Shubha shubhazero at gmail.com