जयत्वियं वसुन्धरा जयत्वियं वसुन्धरा
जयत्वियं वसुन्धरा जयत्वियं वसुन्धरा ।
रघोरियं यदोरियं कुरोरियं वसुन्धरा ॥
अनन्तलोकतोऽपि शान्तिदायिनी गरीयसी ।
पुरन्दरस्य वज्रतोऽपि पुष्कलं दृढीयसी ॥
वयं यदीयरक्षणे निरन्तरं पुरस्सराः।
तुषारशैलमाण्डिता जयत्वियं वसुन्धरा ॥ १॥
न हिन्दवो महामदा न नानकावलम्बिनः।
न शाक्तशैवतान्तिका न जैनबौद्धयोगिनः॥
परस्परं पृथङ्मता न वर्ततेऽन्यथा धरा ।
ऋतम्भरा सनातनी जयत्वियं वसुन्धरा ॥ २॥
मुखे जयध्वनिस्तथा करे त्रिवर्णकध्वजः।
पदद्वये दृढा गर्तिगले विचञ्चलस्रजः॥
वयं प्रभञ्जनोपमा अरातिरोधतत्पराः।
शकारिशौर्यरक्षिता जयत्वियं वसुन्धरा ॥ ३॥
न दुर्नयं सहामहे न दुर्नयो विचीयते ।
स्वराष्ट्रगौरवोचितं हि केवलं विद्यीयते ॥
वयं प्रयाणगत्वराः प्रतिक्षणं प्रसृत्वरा ।
सुरैरपि प्रभाविता जयत्वियं वसुन्धरा ॥ ४॥
वयं हि लोकतान्त्रिका ऋतैकपक्षपातिनः।
सुहृत्तमाः परन्तु वैरिणां कृतेऽतितापिनः॥
न भेददर्शिनोवयं न चापि वृत्तमत्सराः।
त्रिलोकतो महीयसी जयत्वियं वसुन्धरा ॥ ५॥
-अभिराज डाॅ राजेन्द्र मिश्र