जय जननि
जय जननि भरत - वसुधे विबुध - सेविते
वीरात्म - सन्तान - वृन्दाभिवन्दिते ।
शिवकलित - कैलासमणि - मुकुट - मण्डिते
गङ्गा तरङ्ग - तरलकाऽलङ्कृते
मलयजसमीर - मृदुपरिरम्भ - पुलकिते
रत्नाकरावद्ध - नवरत्न - मालिके
उपनिषदुदीर्ण - चिन्मन्त्र - परिपाविते
दिव्यर्षिवय्यैर्निजसुतैर्भाविते
विसृमर - प्रेमरस - नर्तित - चराचरे
गोविन्दगीतामृते रते शर्म्मदे
कबिवरसहस्र - कृत - भवमन्यनान्तरे
जात - सारस्वतसार - सान्द्रान्तरे
परतन्त्रता - तिमिरमुद्भिद्य भासते
स्वातन्त्र्यभानुमान् भूयो नभसि ते
जय जननि सादरं त्वामेव मातरं
बन्दामहे शिवं देवि ! विन्दामहे ।
-एन० गोपाल पिल्लै महोदयानां
(केरलीय त्रिवेन्द्र नगरस्थ - संस्कृतकलाशालाध्यक्षाणाम्)
Proofread by Mandar Mali