जय भारती, वन्दे भारतीम्
जय भारती, वन्दे भारतीम् ॥ ध्रुवपदम्॥
मस्तं तुषारगिरि-च्छत्रितम्,
चरणे वै सरितां सम्मेलनम् ।
वेदानां पत्रं हस्ते धृतम्,
नापरत्र राष्ट्रं ह्येतादृशम् ।
जय भारती, वन्दे भारतीम् ॥ १॥
आकाशं पूतं धूमैरिदम्,
प्रतिवासं यत्र होम-पूजनम् ।
पुलकैर्न: सर्वरोम पूरितम्,
आदिरनादिश्शब्द: ओम् पदम् ।
जय भारती, वन्दे भारतीम् ।
वन्दे मातरम्, वन्दे मातरम् ॥ २॥
भुवने रामो यत्र जनिं नीतवान्,
श्यामो हि गीतां श्रावितवान् ।
धाम-चतुष्टयेनेदं पावनम्,
लज्जते हि स्वर्गोऽपि यत्सम्मुखम् ।
वन्दे मातरम्, वन्दे मातरम् ॥ ३॥
मूल-हिन्दी-गीतम् - जय भारती, सर पे हिमालय का छत्र है
चलचित्रम् - जगद्गुरु शंकराचार्य (१९५५)
गीतकारः - भरत-व्यासः
सङ्गीतकारः - अविनाश-व्यासः
गायिका-गायकः - लता मंगेशकर , मन्ना डे
मूलस्वरानुकूल-संस्कृतानुवादकः - डाॅ हरेकृष्ण-मेहेरः
Original Song : Jay Bharati, Sar Pe Himalaya Ka Chhatra Hai
Film : Jagatguru Shankaracharya (1955)
Lyrics : Bharat Vyas
Music : Avinash Vyas
Singer : Lata Mangeshkar / Manna Dey
Sanskrit translation : (Copyright) Dr.Harekrishna Meher