जननीपदवन्दना
(उत्कलीय - चक्रकेलि - वृत्तेन गातव्यम्)
एषा मम स्नेहमयी जननी ।
सदा सुखे दुःखे सुधाहासिनी ॥ १॥
वाणी कण्ठे तस्या अतिमधुरा ।
कदापि न सा भवति निष्ठुरा ॥ २॥
तस्या हृदये अमिता करुणा ।
मम पालने सा अतिनिपुणा ॥ ३॥
मम दुःखे सा भवति दुःखिनी ।
मम सुखे सा भवति सुखिनी ॥ ४॥
पादतले तस्या मम प्रणतिः ।
तस्या निकटे मम नास्ति भीतिः ॥ ५॥
-पण्डितहरेकृष्णधूपालशर्मा
Encoded and proofread by Mohan Chettoor