जनहितकरणी भवनिधितरणी संस्कृतिपरम्परा
जनहितकरणी भवनिधितरणी संस्कृतिपरम्परा
त्रिभुवनकमनी जगति विजयते भारत-वसुन्धरा ॥
भवकल्याणी परमपुराणी श्रुतिवाणी महिता ।
भुविविख्याता जगदवदाता दिव्यकला सहिता ॥
दिशिदिशि सुजला प्रतिकणममलाश्यामलसस्यधरा ।
त्रिभुवनकमनी जगति विजयते भारत-वसुन्धरा ॥ १॥
धवलहिमालय मुकुटाभरणं शिरसा धृतं यया ।
जलनिधिनूपुरशिञ्चितचरणौ ध्रियते सदा तया ॥
हृदिशुचिसरला मनसि च तरला मानवता मुखरा ।
त्रिभुवनकमनी सदा विजयते भारत-वसुन्धरा ॥ २॥
नवविज्ञानं गतमज्ञानं प्रतिदिनमत्र धृतम् ।
गुणसंज्ञानं द्वितसन्धानं सततमिहैव कृतम् ॥
शुभगतिवरणी हितरतिधरणी शुभकर्मसु चतुरा ।
त्रिभुवनकमनी जगति विजयते भारत-वसुन्धरा ॥ ३॥
प्रकृतिपेशला शुचि सुकोमला मे स्वदेशधरणी ।
भुवनवन्दिता लोकनन्दिनी विश्वरागकरणी ॥
निजसुतजनपरिपालनचतुरा रिपुकुलजीवहरा ।
त्रिभुवनकमनी जगति विनयते भारत-वसुन्धरा ॥ ४॥
भुवि निजजननीरक्षाकरणे वयं बद्धकक्षाः।
उद्धतरिपुदल शिरः कर्तने वयं सदा दक्षाः॥
नवलसहस्राब्दिं प्रविशते मे जननीगुणमधुरा ।
त्रिभुवनकमनी जगति विजयते भारत-वसुन्धरा ॥ ५॥
- डाॅ इच्छाराम द्विवेदी ``प्रणव''