जागृहि जागृहि भरतपुत्र
जागृहि जागृहि
भरतपुत्र लोकमित्र जागृहि
क्षात्रतेजसा समेत्य निर्भयं पुरः सरन्
मातृसेवनं विधातुमेहि स्वं समर्पयन् ॥
स्मर सदापि हिमगिरेस्तुङ्गतामकम्पितां
पश्य वीर वारिधेः परमगम्भीरतां
किं नु लोकधारिणी धरणिरेति खिन्नतां
द्वन्द्वभावनां विभिन्दि छिन्दि जाड्यजालिकाम् ॥
सत्कुलप्रसूत मौनमास्थितः कुतश्चिरं
दीपय ध्येयदीपमात्मनो हृदन्तरे
ध्येयसङ्गतैस्समेत्य विचिनु कार्यमार्गं
मोहबन्धनं विधूय कुरु समष्टिचिन्तनम् ॥
देशधर्मसंस्कृती रक्षयन् विवर्धयन्
पतितमुद्धरन् प्रयाहि जहिहि भेदभावनां
चरमलक्ष्यमस्तु जन्मभूमिपरमवैभवं
मातृसेवया कुरुष्व सार्थकं स्वजीवनम् ॥
- जनार्दन हेगडे
Encoded and proofread by Shubha shubhazero at gmail.com