हुतात्मान्
(उपजातिवृत्तम्)
गायन्तु लोकाः बलिदान-गानं
गायन्तु क्रान्तेश्चरितं पवित्रम् ।
हुतात्मना कीर्ति-सुधा पवित्रा
निपीय देशव्रतमाश्रयन्तु ॥
न व्यर्थमेयाद् बलिदान-रक्तं
नाऽऽत्माहुते क्रान्तिफलं विनश्येत् ।
क्रान्ते सुवृक्षः सुषमा समृद्धः
पुष्पैः फलैः पुष्टिमियादजस्रम् ॥
हुतात्मना पावनमत्र वृत्त
सुधा-रसः जीवन- ज्योतिरेव ।
देशाभिमानं निज-देश-कीर्तिः
स्वातन्त्र्य-भावं प्रथयत्यजस्त्रम् ॥
हुतात्मना यत्र वृता सपर्या,
गुणार्चनं कीर्तनमेव नित्यम् ।
तत्रैव शान्तिः सुख-वृद्धिरिष्टा
देशोन्नतिर्गौरव-मान वृद्धिः ॥
यस्मिंस्तु देशे बलिदान-भावो
व्याप्तं समाजे युव-नेतृ-वर्गे ।
तत्रैव कीर्तिनिज-देश-वृद्धिः
आत्माभिमानं गुण-गौरवर्द्धिः ॥
हुतात्म-वृत्तं ज्वलितो दवाग्निः
हुतात्म-वृत्तं परमं च ज्योतिः ।
हुतात्म-वृत्तं जनता प्रबोधं
हुतात्म-वृत्तं निज-देश-कीर्तिः ॥
यदा यदा देश-समृद्धि नाशः
स्वातन्त्र्य-नाशो जन-शोषणं च ।
तदा तदा देश-स्वतन्त्रतार्थे
हुतात्मनामत्र शुभोऽवतारः ॥
हुतात्म-ज्योतिर्जन-शक्ति-दातृ
हुतात्म ज्योत्स्ना भय-ताप-मुक्तिः ।
हुतात्म शक्तिर्निज-देश-शक्तिः
हुतात्म-भक्तिर्निज-देश-भक्तिः ॥
ये शूरवीराः बलिदान भावा,
देशार्थ सन्त्यक्त-समस्त-वित्ता ।
ते एव देशोद्धरणे प्रवृत्ता,
मातुर्भुवः क्लेश-ततिं हरन्ति ॥
ते क्रान्ति-निष्ठाः जनताऽभिनन्द्या
देशार्पिता देश-समाज-वन्द्या ।
देशस्य स्वातन्त्र्य दवाग्नि-दग्धा
ते एव वीराः अमराः सुराश्च ॥
Proofread by Mandar Mali