हिमगिरेः शृङ्गम्
हिमगिरेः शृङ्गम्, देवनदीं गङ्गां
मनसि निधाय हि अनुभवामः
अनुपममुत्तुङ्गं भावम्, अनुपममुत्तुङ्गम् ॥
दिव्य-सनातन-संस्कृतिः
यतो हि वेदपुराणानि ।
हिन्दोरुन्नत्यवनत्योः
सदृशानिऽ गिरिशिखराणि ।
भीरुमनस्स्वपि धीरस्वभावं
जनयेयुर्हिमभवनानि ॥ १॥
तं सुरलोकमतिक्रम्य
अवतीर्णा या भागीरथी ।
भारतमातुः सङ्गेन
पुण्या जाता भाग्यवती ।
हिन्दूदेशे प्रतिजनमनसः
पावनकारिणी पुण्यवती ॥ २॥
पराजयोऽपि सोपानं
धैर्यं विजयस्य निदानं
गच्छतु दुःखित-बन्धुभ्यो
वक्तुं धैर्य-समाधानम् ।
मातुः गौरवपरिरक्षायै
निष्ठं तनुहृद्धनप्राणम् ॥ ३॥
- नारायणभट्टः
Encoded and proofread by Shubha shubhazero at gmail.com