, हास्यकणिकासंग्रहः ">
हास्यकणिकासंग्रहः

हास्यकणिकासंग्रहः

संस्कृतं व्यावहारिकी भाषा भवेत्

१ हास्यकणिकासंग्रहः

महिलानाम् अद्यतनीया नवीना समस्या सर्वकारेण घोषितं `` ये जनाः ५०-वर्षीयाः तदधिकवर्षदेशीयाः वा तेभ्यः/ताभ्यः एव कोरोनावेक्सीनं पूर्वं दास्यते, अन्यैः च न्यूनातिन्यूनं एकवर्ष-पर्यन्तं प्रतीक्षारतैः भवितव्यम् एव भविष्यति'' इति (उन्हें कम से कम एक वर्ष तक प्रतीक्षा करनी ही होगी ।) बह्वयः महिलाः याः वयसि ५०-वर्षादपि वृद्धतराः सन्ति परं याभिः पुनरपि पुनः घोषितं यत् ``अहं तु पञ्चत्रिंशत् (३५)-वर्षदेशीया एव' इति ताः उभयसम्भवस्थित्यां सन्ति (=दोराहे पर हैं =इधर ज्ॐ या उधर ज्ॐ = They are on the horns of dilemma) ।'' कथम् - यदि ताः सत्यं सम्भाष्य आत्मानः वयः ५२/५५ वर्षाणि ज्ञापयन्ति तर्हि ताषां सामाजिकमूल्यं (=सोचिअल् वोर्थ्) न्यूनीभवति; यदि च ताः ३५/३६ वर्षाणि ज्ञापयन्ति तर्हि कोरोनापीडाभयः ताः पीडयति । ``किं करोमि क्व गच्छामि को माम् -'' इत्यैवंविधा स्थितिः जाता तासाम् । KSG

२ हास्यकणिकासंग्रहः

आदिकाल से महिलाओं के वाचाल होने की प्रवृति, और वाक चातुर्य की सारी दुनिया प्रशंसक रही है । ऐसा ही एक मनोहारी वर्णन इस श्लोक में किया गया है जो बडा ही आनंददायक है । भगवान् शिव और माता पार्वती का ये संवाद मन को गुदगुदाता है कस्त्वं?शूली, मृगय भिषजं, नीलकंठः प्रियेऽहं केकोमेकां वद, पशुपतिर्नेव दृष्ये विषाणे । मुग्धे स्थाणुः, स चरति कथं? जीवितेशः शिवाया गच्छाटव्यामिति हतवचा पातुवश्चन्द्रचूडः ॥ संधिविच्छेदान्कृत्वा - कः त्वं शूली मृगय भिषजं नीलकण्ठः प्रिये अहं केकाम् एकां वद, पशुपतिः न एव दृश्ये विषाणे । मुग्धे स्थाणुः, सः चरति कथं, जीवितेशः शिवायाः गच्छ अटव्याम् इति हतवचाः पातु वः चन्द्रचूडः ॥ शंकर जी ने अपने घर का द्वार खोलने हेतु आवाज दी । पार्वती जी ने पूछा - तुम कौन हो? शिव जी ने कहा - मैं शूली (त्रिशूल धारी) हूँ । पार्वती जी ने कहा - शूली (शूल रोग से पीडित) हो तो वैद्य को खोजो । शिव जी ने कहा - प्रिये! मैं नीलकंठ हूँ । पार्वती जी ने कहा (मयूर अर्थ में) - तो एक बार केका ध्वनि करो । शंकर जी ने कहा - मैं पशुपति हूँ । पार्वती जी ने कहा - पशुपति (बैल) हो? तुम्हारे सिंग तो दिखाई नहीं देते? शिव जी ने कहा - मुग्धे! मैं स्थाणु हूँ । गौरा बोलीं - स्थाणु (ठूँठ) चलता कैसे है? भोले ने कहा - मैं शिवा (पार्वती) का पति हूँ । शिवा बोलीं - शिवा (भिन्न अर्थ में लोमडी) के पति हो तो जंगल में जाओ । इस प्रकार निरुत्तर हुए शिव आप सबकी रक्षा करें ।

३ हास्यकणिकासंग्रहः

वैद्येन मे पत्न्याः जिह्वायां तापमापकः स्थापितः । ताम् उक्तञ्च किञ्चित् कालपर्यंतम् औष्ठौ पिधाय उपविशतु । पत्नीं तूष्णीं दृष्ट्वा पतिः अनुक्षणमेव वैद्यमहोदयं सानन्देन अपृच्छत् कियत् मूल्यं अस्य यन्त्रस्य भोः?? दर्शना

४ हास्यकणिकासंग्रहः

दन्तवैद्यः - किमभवत्? कथं दन्ताः नष्टाः? रोगी - ह्यः पत्न्या दत्तरोटिकाः अतिदृढाः आसन् भोक्तुमेव न योग्याः ॥ दन्तवैद्यः - तर्हि ``खादितुं न शक्नोमि'' इत्येव वक्तव्यम् असीत् खलु! रोगी - तावदेव प्रोक्तवान् भो

५ हास्यकणिकासंग्रहः

हसेम हासयेम माता - हे पुत्र ।पूजार्थं फलमानयतु । पुत्रः - अस्तु । माता - धनं स्वीकृत्य गच्छतु । पुत्रः - कति फलानि आनयानि? माता - फलद्वयं क्रीत्वा आनयतु । पुत्रः - आपणं गत्वा फलद्वयं क्रीत्वा गहं प्रति आगच्छति । मार्गे एकं खादित्वा एकफलं एक आनयति । पुत्रः - मातः फलं स्वीकरोतु । माता - एकमेव अस्ति ।द्वितीयफलम्? पुत्रः - तदेव एतत् । माता - रे सम्यक् वदतु ।एकफलं अत्र ।द्वितीयं कुत्र? पुत्रः - अंबा एतदेव तद् । कतिवारं वा पृच्छतु ॅहिन्ता नास्ति ।तदेव एतत् ।

६ हास्यकणिकासंग्रहः

आपणिकः - अरे श्रीमती ! भवती सदैव आपणे (दुकान पर) आगच्छति, सर्वाणि आभूषणानि च पश्यति कदाचित् गृहीत्वा न गच्छति । श्रीमती - नैव भ्रातः ! एवं नास्ति अहं तु सदैव किमपि न किमपि गृहीत्वा गच्छामि । भवान् एव ध्यानं न ददाति रौशनः

७ हास्यकणिकासंग्रहः

हसामः । भार्या - नाथ ! श‍ृणोति वा ? ह्यः अहं वैद्यं प्रति गतवती । तदा सः उक्तवान् ``भवत्याः विश्रामस्य आवश्यकता अस्ति । स्थानांतरं कर्तुं स्वित्झर्लॅण्ड न्यूजीलॅण्ड वा गच्छेत् इति । आवां कुत्र गच्छेवः ?'' पतिः - अन्यं वैद्यं प्रति !

८ हास्यकणिकासंग्रहः

ग्राहकः-हे बाल तव पितुः रसगोलकापणमस्ति । तव तत् खादितुम् इच्छा न भवति वा?? बालः-आमाम् तत् खादितुं मे इच्छा भवति । किन्तु पिता सर्वाणि रसगोलकानि गणयित्वा स्थापयति । अतः अहमपि केवलं चूषणं कृत्वा पुनः तथैव स्थापयामि । दर्शना

९ हास्यकणिकासंग्रहः

पप्पू आपणं गत्वा आपणिकं पृष्टवान् भोः महोदय । अस्य वानरस्य चित्रस्य मूल्यं किम् ? आपणिकः किमपि अनुक्त्वा तूष्णीम् एव आसीत् । पुनः सः पृष्टवान् भोः । अस्य चित्रस्य मूल्यं किम्? आपणिकः तदानीम् अपि तूष्णीम् आसीत् । पप्पू तदा कोपेन पृष्टवान् भोः । किं भवान् मूकः वा? किमर्थम् उत्तरं न ददाति इति । तदा सः आपणिकः विनम्रस्वरेण उक्तवान् महोदय इदं न चित्रम्, अपि तु अयं दर्पणः वर्तते । -प्रदीपः!

१० हास्यकणिकासंग्रहः

आगमनिर्गमरोधकाले गृहकार्यात् आत्मानं रक्षितुं कश्चन सरलोपायः । आबहुभ्यः दिनेभ्यः मम कस्यचन बन्धोः दर्शनमेव नास्ति इति विचिन्त्य तेन सह मेलितुं तस्य गृहं गतवान् । तस्य गृहं गत्वा दृष्टवान् यत् तस्य एकस्मिन् पादे पट्टिका बद्धा अस्ति इति । किम् अभवत् इति पृष्टे सति सः उक्तवान् मित्र! चिन्तनं मा भूत्! मम किमपि नाभवत् । भवान् तु जानाति यद् यावत् पर्यन्तं आगमनिर्गमरोधः प्रचलेत् तावत् पर्यन्तं कुत्रापि तु गन्तव्यं न भवेत् । अतः कार्यालयात् आगमनसमये इयं व्यवस्था कृता मया । यदि अहम् एवं व्यवस्थां न अकरिष्यं तर्हि मम पत्नी मद्द्वारा गृहकार्यं सर्वमपि अकारयिष्यत् । इदानीं मया किमपि कार्यं करणीयं न भवति । अपिच सा मम शुश्रूषामपि समये समये करोति । अहं तु केवलं विश्रामं करोमि समये समये च स्वादिष्टं भोजनं करोमि । -प्रदीपः!

११ हास्यकणिकासंग्रहः

युवकः- त्वं किमर्थं मे दूरवाणी नोत्थितवती??? युवती-अरे इदानीमेव स्वपित्वा उत्थितवती भोः मात्रा काॅफीपेयं दत्तं तदेव पिबन्त्यस्मि । वदतु.... युवकः- किन्तु भवत्याः माता अवदत् यत् भवती तु गोमयं क्षेप्तुं गतवती इति । दर्शना

१२ हास्यकणिकासंग्रहः

॥ वन्दे मातरम् ॥ जवाहरलाल नेहरुः उक्तवान् - आलसः एव मनुष्याणां महान् रिपुः इति । म। गान्धिः उक्तवान् -। सदा शत्रोपरि अपि प्रेमं करोतु । अधुना कथयतु, कस्य श‍ृणुयाम् ? गान्धिः महोदयस्य वा नेहरुः महोदयस्य ?

१३ हास्यकणिकासंग्रहः

अपरिचितदूरवाणीक्रमाङ्कतः कापि महिला अवदत् । भवतः विवाहः जातः वा? पुरुषः-न किन्तु भवती का? महिला- भवतः पत्नी । प्रथमं भवान् गृहमागच्छतु इदानीम् दर्शना

१४ हास्यकणिकासंग्रहः

आ ग्रम्मरिअन् अन्द् हिस् विफ़े वैयाकरणवरो मे वरोऽनिशं भाषते वचः किञ्चित् । खफछठथेति न जाने हयवरवद् भाषणं तस्य ॥ आ लद्य् सय्स्ः ``ंय् हुस्बन्द् इस् अ ग्रेअत् ग्रम्मरिअन् अन्द् हे अल्वय्स् कीप्स् ओन् सयिन्ग् ``ख फ च ठ थ।'' I don’t understand his speech which is like that of a great horse.'' - प्रा. माधव देशपाण्डे

१५ हास्यकणिकासंग्रहः

श्वशुरः - मम आत्मजायाः ध्यानं दातव्यम् । अस्याः नेत्रयोः कदाचिदपि अश्रु न समागच्छेत् । संतोषः - अस्तु पलाण्डुनां कर्तनमहं करिष्यामि परन्तु पात्राणां मार्जन- मनयैव कर्तव्यं भविष्यति । - रौशनः

१६ हास्यकणिकासंग्रहः

७-८जनाः द्यूतः खेलन्तः आसन् । तदैव आरक्षकाः आगच्छन्ति । तद् दृष्ट्वैव एकः द्यूतक्रीडकः शीघ्रं गत्वा आरक्षकानां याने उपविशति । तदा आरक्षकाः तं वदति त्वं कथं पूर्वमेव गत्वात्रोपाविशः । अरे महोदयः एतत्पूर्वं भवान् यदा माम् याने नीतवान् तदा मे उपवेष्टुं स्थानमेव न लब्धं अतः पूर्वमेव आगत्य उपाविशम् । दर्शना

१७ हास्यकणिकासंग्रहः

दूरदर्शने बालकः मातापितृभ्यां सह रामायणं पश्यन् आसीत् । तदानीं ताडकारक्षसी आगता । तां दृष्ट्वा बालकः तस्य पितरौ पृष्टवान् सा का इति । तस्य माता अवदत् पुत्र! एषा तव पितृष्वसा इति । तस्य पिता अवदत् पुत्र! एषा तव मातृष्वसा इति । तदा गृहे किम् अभवत्? रामायणं समाप्तं महाभारतं च आरभते स्म ।

१८ हास्यकणिकासंग्रहः

रेलस्थानके यात्रापत्रनिरिक्षकः गणपतं वदति यात्रापत्रं कुत्रास्ति तव दर्शयतु भोः । गणपतः-अरे अहं रेलयानेन नागतमं भोः । निरिक्षकः-किं प्रमाणं रे ?? गणपतः-प्रमाणं तु एतदेव वर्तते यत् मम समीपं यात्रापत्रं नास्ति । दर्शना

१९ हास्यकणिकासंग्रहः

एकस्य पुरुषस्य मृत्योः परं सः स्वर्गं गतवान् । तत्र गत्वा सः स्वर्गस्य द्वारं नोदितवान् । तदा एकः यमस्य अनुचरः तं पृष्टवान् किं त्वं विवाहितः आसीः ? पुरुषः- आम्, अहं विवाहितः आसम् । अनुचरः- तर्हि स्वर्गस्य अन्तः प्रवेष्टुं शक्नोति । किञ्चित् कालानन्तरम् अन्यः एकः पुरुषः अपि स्वर्गं गतवान् । तमपि सः अनुचरः पृष्टवान् किं त्वं विवाहितः आसीः? सः उक्तवान् आम्! अहं तु द्विवारं विवाहं कृतवान् आसम् । तदा सः अनुचरः उक्तवान्- त्वम् इतः अनुक्षणम् एव गच्छ! स्वर्गे लोके मूर्खाणां स्थानं नास्ति । -प्रदीपः!

२० हास्यकणिकासंग्रहः

ॐ एकः बालकः संसद्भवनस्य सम्मुखे (in front of the Parliament House) स्वस्य द्विचक्रं (bicycle) स्थापयति । एकः विरक्षकः (police-man) धावन् तत्र आगच्छति । बालकं दृष्ट्वा मृदुस्वरेण वदति - विरक्षकः - रे बालक ! एषः स्थापन-निषेध-विभागः (No Parking area) अस्ति । अत्र किम् अपि वाहनं न स्थापनीयम् । बालकः - किं कारणं पितृव्य ! (What is the reason uncle ?) विरक्षकः - (बोधनस्वरेण) अरे बालक ! इतः प्रधानमन्त्री, अन्ये मन्त्रिणः, विरोधि-पक्ष-नेता, संसद्सदस्याः इत्यादयः विशेषजनाः बहुवारं गमनागमनं (गमन-आगमनं) कुर्वन्ति । बालकः - चेत् चिन्ता एव मास्तु पितृव्य ! मया द्विचक्रस्य सम्यक् तालनं कृतम् अस्ति । (I have locked the bicycle perfectly.)

२१ हास्यकणिकासंग्रहः

एकदा पतिपत्न्योः विवादः सञ्जातः! विवादसमये पत्न्याः शरीरम् आरुह्य एकः ऊर्णनाभः तस्याः शिरः प्राप्तवान्! तदा सा चित्कारं कृत्वा तं अङ्गुलीभिः भूमौ क्षिप्तवती विवादं त्यक्त्वा च धावित्वा स्वपतिं हस्ताभ्यां गृहीतवती! उक्तवती च तस्मात् ऊर्णनाभात् मां रक्षतु भोः इति! तदा सः पतिः मृदुः हसित्वा तं ऊर्णनाभं गृहीत्वा उक्तवान्- हे ऊर्णनाभ! त्वं तु एकः सामान्यः कीटः परन्तु तथापि मम पत्नी त्वत् विभेति किन्तु अहं तस्याः पतिः तथापि सा मत् न विभेति! त्वयि को गुणः अस्ति इति कृपया मां कथय भोः

२२ हास्यकणिकासंग्रहः

एकः पुरुषः कार्यार्थम् एकां संस्थां गतवान् । तत्र प्रबन्धकेन सह तस्य साक्षात्कारः अभवत् । प्रबन्धकः तं पुरुषं पृष्टवान् पश्य! अस्माकं संस्थायां द्वारपालस्य स्थानं रिक्तम् अस्ति । द्वारपालः एवं भवेत् यः शक्तिशाली, यस्मिन् साहसं धैर्यं च अस्ति । दुष्टान् जनान् ताडयितुं यस्मिन् सामर्थ्यम् अस्ति सः एव अस्मिन् पदे योग्यः । त्वयि सन्ति वा एते गुणाः? सः पुरुषः उक्तवान् महोदय! एते गुणाः तु मयि न सन्ति परन्तु मम पत्न्याम् एते सर्वे गुणाः विद्यमानाः सन्ति । अहं ताम् आह्वयानि वा? प्रबन्धकः- अस्तु तर्हि आह्वय ताम्! -प्रदीपः!

२३ हास्यकणिकासंग्रहः

अधिवक्ता-हत्यायाः रात्रौ भवत्याः पत्युः अन्तिमशब्दाः के ??? पत्नी-मम उपनेत्रं कुत्रास्ति सङ्गीते?? अधिवक्ता-अस्मिन् वाक्यांशे हत्यां कर्तुं एवं किमस्ति ?? पत्नी-मम नाम रञ्जना अस्ति । न्यायालये शान्तिः शान्तिः दर्शना

२४ हास्यकणिकासंग्रहः

एकः सज्जनः एकस्य गृहं गत्वा तस्य गृहस्य घण्टां नोदितवान् । तदा गृहात् बहिः एकः बालकः आगत्य तं पृष्टवान् किं पितृभ्य । किमपि कार्यम् अस्ति वा? सज्जनः- पुत्र । तव पिता कुत्र अस्ति, तं आह्वय किञ्चित् कार्यम् अस्ति । बालकः- सः तु गृहे नास्ति । सः तु विपणिं गतवान् । सज्जनः- तर्हि तव अग्रजम् आह्वय, तेन सह एव वार्तां करोमि । बालकः- अग्रजः तु क्रीडितुं बहिः गतवान् । सज्जनः- तर्हि तव माता तु अस्त्येव गृहे, ताम् आह्वय, तया सह वार्तां कृत्वा गच्छामि । बालकः- सा अपि गृहे नास्ति, महिलानाम् एकस्मिन् सम्मेलने सा इदानीम् अस्ति । सज्जनः तदा किञ्चित् कुपितः भूत्वा उक्तवान् - गृहस्य सर्वे यदि बहिः गतवन्तः तर्हि त्वं किमर्थं गृहे असि ? त्वम् अपि कुत्रापि गच्छ । बालकः- आम्, पितृभ्य! अहमपि इदानीं मम मित्रस्य गृहे एव अस्मि । -प्रदीपः!

२५ हास्यकणिकासंग्रहः

मदनस्य गृहे एकः चपलः मार्जारः आसीत् । सः मार्जारात् त्रस्तः भवति स्म । एकदा सः चिन्तितवान् यत् एतं मार्जारं कुत्रापि त्यक्त्वा आगच्छामि इति । परेद्युः सः तं मार्जारं गृहीत्वा नीत्वा दूरं त्यक्त्वा आगतवान् । मदनः गृहम् आगत्य दृष्टवान् सः मार्जारः अपि गृहम् आगतवान् । पुनः सः तं मार्जारं गृहीत्वा इतोऽपि दूरं नीत्वा त्यक्त्वा आगतवान् परन्तु तदानीमपि सः मार्जारः गृहम् आगतवान् आसीत् । इदानीं सः मदनः कुपितः सन् पुनः तं नीत्वा अरण्यं गतवान् । अरण्यस्य अन्तः बहु दूरं गत्वा तं मार्जारं त्यक्त्वा आगमनसमये सः मदनः दूरवाण्या तस्य पत्नीं पृच्छति अयि प्रिये! किं मार्जारः गृहं पुनः गतवान् इति । तस्य पत्नी तदा उक्तवती आम् । सः तु गृहे एव अस्ति इति । मदनः तदा कोपेन उक्तवान् शीघ्रं तं दुष्टं प्रेषयतु अत्र, अहमेव मार्गं विस्मृतवान् । -प्रदीपः!

२६ हास्यकणिकासंग्रहः

शिक्षकः- प्राणवायुः इत्युक्ते आङ्ग्लायाम् अक्सिजेन इति, जानन्ति वा भवन्तः ? एतं विना जीवाः न जीवन्ति । एतस्य आविष्कारः १७२२ ख्रीष्टाब्दे जातः । एकः छात्रः सहसा उत्थाय - महाशय ! ततः पूर्वं जीवाः श्वास-प्रश्वासयोः व्यवहारमेव न कुर्वन्ति स्म किम् ? - नारदः ।

२७ हास्यकणिकासंग्रहः

पिता-अद्यप्रश्नपत्रं कथं लिखितम् रे?? पुत्रः-प्रथमः प्रश्नः विमुक्तः तृतीयः लेखितुं न शक्तः चतुर्थः प्रश्नः विस्मृतः पञ्चमः प्रश्नः न दृष्टः पिता-अस्तु किन्तु द्वितीयः प्रश्नः ।???? पुत्रः - केवलं तदेव दोषपूर्णमभवत् । दर्शना

२८ हास्यकणिकासंग्रहः

शिक्षकः-त्वया कुत्रापि किञ्चन् अभिनन्दनीयं कार्यं कृतं वा? छात्रः-आम् कृतम् । शिक्षकः-किदृशं कार्यम्? छात्रः-एकदा एकः वृद्धः बहु मंदं मंदं गृहं गच्छन्नासीत् । तदा मया वृद्धस्य पृष्ठतः शुनकः त्यक्तः अनन्तरं सः शीघ्रमेव गृहं प्राप्तम् ।

२९ हास्यकणिकासंग्रहः

ग्राहकः - एतत् चायं किमर्थं शीतलम् ? वितरकः - कारणम् अत्र दार्जिलिङस्य विशिष्टं चायचूर्णं मिश्रितमस्ति

३० हास्यकणिकासंग्रहः

ग्राहकः - एतत् चायं किमर्थं शीतलम् ? वितरकः - कारणम् अत्र दार्जिलिङस्य विशिष्टं चायचूर्णं मिश्रितमस्ति

३१ हास्यकणिकासंग्रहः

शिक्षकः - यः श्रोतुं न शक्नोति तं वयं किं वदामः दिफ़्लुचन् चेन?? एकः छात्रः-किमपि वदन्तु सः न श्रोष्यति ।

३२ हास्यकणिकासंग्रहः

शिक्षकः - माधव ! त्वया लिखितः धेनुसम्बद्धः लेखः वर्षत्रयात् पूर्वं तव भगिन्या लिखितस्य समानः एव दृश्यते, किमर्थं तत् चोरितवान् ? माधवः- न महाशय ! अस्माकं धेनुः एका एव, या च इदानीमपि अस्मद्गृहे पूर्ववदेव अस्ति, इत्यतः आवयोः लेखः अपि समानः एव जातः ।

३३ हास्यकणिकासंग्रहः

गोविन्दः - भोः महाशय ! अत्र किम् अन्वेषणं कुर्वन् अस्ति एवम् ? वृद्धः - मम अङ्गुलीयकम् । गोविन्दः - तत् अत्रैव पतीतम् आसीत् किम् ? वृद्धः- नैव । तस्य वृक्षस्य अधः पतीतम् आसीत्, तत्र अन्धकारः । परन्तु अत्र प्रकाशः अधिकः, अतः अत्रैव अन्वेषयन् अस्मि ।

३४ हास्यकणिकासंग्रहः

एकः प्रसिद्धो लेखकः आसीत् । एकदा एकः पत्रकारः तं लेखकं पृष्टवान् हे महोदय! भवान् आदिनं किं किं कार्यं करोति? अपिच कालयापनं कथं करोति? लेखकः- अहं प्रातःकाले षड्वादने उत्तिष्ठामि । तत्पश्चात् स्नानं कृत्वा अटनाय बहिः गच्छामि । ततः आगत्य प्रातराशं स्वीकृत्य किञ्चित् कालपर्यन्तं बालकैः सह क्रीडामि । तदनन्तरं पुनः अहं शयनं करोमि । शयनात् उत्थाय भोजनं स्वीकृत्य पुनः शयनं करोमि । पत्रकारः- तर्हि भवान् कदा कथाः लिखति? लेखकः- कथाः तु अहं पूर्वस्मिन् दिने एव लिखामि । -प्रदीपः!

३५ हास्यकणिकासंग्रहः

कक्षायां शिक्षकः सर्वेभ्यः छात्रेभ्यः आदेशं दत्तवान् आसीत् यत् सर्वे छात्राः क्रिकेटक्रीडाविषये एकैकं निबन्धं लिखन्तु इति । तदा सर्वे छात्राः निबन्धं लेखितुम् आरब्धवन्तः आसन् परन्तु एकः एव छात्रः मौनम् उपविशन् आसीत् । किमपि न लिखति स्म । यदा निमेषद्वयम् अवशिष्टम् आसीत् तदा सः लेखितुम् आरब्धवान् । तदा सः शीघ्रं शीघ्रं लिखितवान् आसीत् । सः शीघ्रं शीघ्रं लिखति इति दृष्ट्वा शिक्षकः तस्य समीपं गत्वा दृष्टवान् वृष्टेः कारणात् क्रिकेटक्रीडा स्थगिता अभवत् इति लिखितवान् । -प्रदीपः!

३५ हास्यकणिकासंग्रहः

पत्रकारः भर्तारं पृच्छति - भवतः भार्या भवतः उपरि वर्चस्वं दर्शयति इति भवान् अनुभवं करोति वा? भार्या वदति - न सः एवं न अनुभवति भर्ता

३६ हास्यकणिकासंग्रहः

शिक्षकः-लघ्वीमधुमक्षिका अस्मभ्यं किं ददाति? बालकः-मधु । शिक्षकः-कृशा अजा किं ददाति? बालकः-दुग्धम् । शिक्षकः-तथैव पिना महिषी किं ददाति? बालकः- गृहकार्यम् ।(होमेवोर्क्) दर्शना

३७ हास्यकणिकासंग्रहः

रुग्णः-निर्देशकर्गजं (प्रेस्च्रिप्तिओन्) दर्शयित्वा वैद्यं पृच्छति एतानि औषधानि कथं स्वीकरणीयानि?? वैद्यः--सक्रोधं वदति रुप्यकानि दत्वा दर्शना

३८ हास्यकणिकासंग्रहः

एकस्य धनिकस्य गृहम् एकः चोरः चोरयितुं गतवान् । तस्य गृहस्य अन्तः यत्र शेवधिः स्थापितः आसीत् तस्य उपरि लिखितम् आसीत् ४५६ एतान् अङ्कान् नोदयति चेत् शेवधेः द्वारम् उद्घाटितं भविष्यति इति । यदा सः चोरः एतान् अङ्कान् नोदितवान् तदा उच्चैः सङ्केतध्वनिः अभवत् । ध्वनिं श्रुत्वा झटिति तस्य धनिकस्य गृहम् आरक्षकाः आगतवन्तः । आरक्षकाः आगत्य तं चोरं गृहीतवन्तः । गमनसमये सः चोरः धनिकम् उक्तवान्- अद्यारभ्य मानवतायां मम विश्वासः समाप्तः । -प्रदीपः!

३९ हास्यकणिकासंग्रहः

शिक्षकः छात्रान् पृच्छति- भोः छात्राः! वदन्तु अस्यां पृथिव्यां कति देशाः सन्ति? एकः छात्रः झटिति उत्थाय उत्तरितवान् एकः एव देशः अस्ति । सः अस्माकं भारतदेशः । शिक्षकः- तर्हि अमेरिका, न्यूजीलैंड, फ्रान्स, आफ्रिका, आस्ट्रेलिया इत्यादयः के? छात्रः- ते तु विदेशाः न तु देशाः । छात्रस्य उत्तरं श्रुत्वा शिक्षकः मूर्च्छितः अभवत् । -प्रदीपः!

४० हास्यकणिकासंग्रहः

शिक्षकः - सुरेश! ``अहं धूमवर्तिकां पिबामि'' - इति वाक्यस्य भविष्यत्काले किं रूपं भवति? सुरेशः - गुरो! भवतः ``कैन्सर-व्याधिः भविष्यति ।

४१ हास्यकणिकासंग्रहः

पतिः - प्रियतमे, दिनद्वयात नूतनवर्षस्य प्रारम्भः भविष्यति । वदतु किम् उपहारं इच्छसि भवती ? पत्नी - इदृश उपहारं ददातु यत् आवर्षं चलति । पतिः - तदा तु ``कालनिर्णयं'' स्वीकरोतु प्रिये ।

४२ हास्यकणिकासंग्रहः

आनोथेर् वेर्सिओन्ः पतिः - अहं तुभ्यं नूतनवर्षनिमित्ते विलोभनं (गिफ़्त्) दातुम् इच्छामि ल् वदतु किम् इच्छसि ? पत्नी - शोभनम् ! किन्तु यासदृश्यः ददातु, यत्, तत् एकवर्षपर्यंतं सम्यक् भवेत् । पतिः चेत् एषः ``कालनिर्णय'' (पञ्चाङ्गम्, तिथिपत्री) गृह्णातु ।

४३ हास्यकणिकासंग्रहः

अरुणः च अनिलः परस्परं वार्तालापं कुरुतः । अरुणः- भो अनिल! त्वं किमर्थं कमपि कार्यं न करोषि? सर्वदा एवमेव वृथा अटसि । अनिलः- अहं शीतकाले कार्यं न करोमि । अरुणः- तर्हि त्वं ग्रीष्मकाले किं कार्यं करोषि? अनिलः- ग्रीष्मकाले अहं शीतकालस्य प्रतीक्षां करोमि ।

४४ हास्यकणिकासंग्रहः

एका महिला एकस्मिन् वस्त्रापणे शाटिकां क्रीत्वा ततः निर्गमनसमये अन्यां सुन्दरचित्रकलायुक्तां शाटिकां दृष्टवती । इयं तु अवश्यं रोचते, परं वर्णः एव - आपणिकः - भगिनि ! चिन्ता मास्तु ; सकृत् प्रक्षालनानन्तरमेव वर्णः अपगमिष्यति इति । - नारदः ।

४५ हास्यकणिकासंग्रहः

अनिलः- भोः सुनिल! त्वं तरणं जानासि वा? सुनिलः- नैव । मया कदापि न अभ्यसिता तरणकला । अनिलः- तरणं न जानासि त्वम्! अस्माकं गृहस्य शुनकः अपि तरणं जानाति । सुनिलः- त्वं जानासि वा तरणम्? (अनिलम् उद्दिश्य) अनिलः- आम् । अहं तु जानामि एव । सुनिलः- तर्हि तव च शुनकयोर्मध्ये पार्थक्यम् एव न दृश्यते । -प्रदीपः!

४६ हास्यकणिकासंग्रहः

मित्रम् - किं भो ! इदानीं काव्यं किमर्थं न करोषि ? किं अभवत् ? कविः - यस्याः कृते काव्यं कुर्वन् आसम्, तस्याः विवाहः अभवत् । मित्रम् - रे भो ! तस्याः स्मरणं कृत्वा अद्यापि काव्यं लिखतु, सम्यक् भवेत् । कविः - भवान् न जानाति वा ? तया साकम् एव मम विवाहः अभवम् ।

४७ हास्यकणिकासंग्रहः

वस्तु विक्रेता - गृहस्वामी गृहे अस्ति वा ? तद्गृहस्य बालः- अहं दुःखितः, पिता गृहे नास्ति । वस्तुविक्रेता - परन्तु त्वं किमर्थं दुःखितः ? बालः - कारणम्, असत्यं वचनं मह्यं न रोचते । इति । - नारदः ।

४८ हास्यकणिकासंग्रहः

एकः आपणिकः गृहं गत्वा स्वपत्नीम् उक्तवान् अयि श‍ृणोतु! अहं बुभुक्षितः अस्मि अतः शीघ्रं मह्यं भोजनं ददातु! गृहिणी उक्तवती- मम महती शिरोवेदना बाधते! अहं किञ्चित् विश्रामं कुर्वती अस्मि! कृपया भवान् स्वयमेव पात्रात् अन्नं निष्कास्य खादतु, व्यञ्जनम् अपिच भर्जकानि अपि सन्ति! आपणिकः इत्युक्ते तस्याः पतिः उक्तवान्- अहो एवं वा! अहं तु चिन्तितवान् यत् शीघ्रं भोजनं समाप्य भवत्याः सह विपणीम् गत्वा वस्त्राणि क्रेष्यामि इति! परन्तु भवत्याः तु शिरोवेदना अस्ति अतः अद्य तु न भविष्यति! तदा झटिति सा उत्थाय उक्तवती- अहो अस्तु अस्तु इदानीमेव भवत्कृते अहं भोजनं आनयामि अहं तु केवलं विनोदाय एव उक्तवती आसम्! मम शिरोवेदना नास्ति!

४९ हास्यकणिकासंग्रहः

चित्रनिर्देशकः - इदानीं भवता प्रासादस्य दशमाट्टतः अधः पतनीयम् । अभिनेता - (सशङ्कम्) यदि मम शरीरे आघातः अथवा मरणं भवेच्चेत् ? निर्देशकः - तत्र न कापि चिन्ता, कारणम् एतत् चलचित्रस्य अन्तिमं दृश्यमस्ति । - नारदः ।

५० हास्यकणिकासंग्रहः

रोगी - वैद्यमहाशय ! मम उदरे रेलयानस्य इव शब्दं करोति, अतः तद्दर्शयितुं भवत्पार्श्वे आगतोस्स्मि । वैद्यः - ``एवं वा तर्हि अत्र शयनं करोतु, पश्यामि'' इति उक्त्वा रोगिणः उदरे स्वकर्णं स्थापयित्वा उक्तवान्- ``इदानीं तु किमपि न श्रूयते, सम्भवतः रेलयानं विलम्बेन आगमिष्यति ``इति । - नारदः ।

५१ हास्यकणिकासंग्रहः

ग्राहकः - भवान् निश्चित्तवान् किम्, एतत् दुग्धं विशुद्धम् इति ? दुग्ध विक्रेता - आम्, महोदय ! न केवलं दुग्धांशः एव, अपितु अत्र मिश्रितं जलम् अपि पूर्णतः विशुद्धमस्ति, चिन्ता न कार्या, महाशय ! - नारदः ।

५२ हास्यकणिकासंग्रहः

एका हृदयद्राविका कथा पुत्रः तस्य वृद्धजर्जरा माता च राज्यं विहाय काशीं प्रति प्रस्थितौ । पुत्रस्य राज्यासक्तिः समूलं नष्टासीत् । प्रजाजनेषु कस्मिंश्चित् राज्यभारम् आरोप्यताम् इति मन्त्रिणः निवेद्य सर्वं वैभवं त्यक्त्वा राजपुत्रः गच्छन्नासीत् । यदा तौ चलन्तौ आस्तां तदा माता पुत्रं उपदिशन्ती आसीत् यत् मनुष्यस्य आशा कदापि पूर्णा न भवति अतः आशात्यागेनैव शाश्वतशान्तेः प्राप्तिर्भवति । एतावन्ति दिनानि भवता मया च प्रजानां सेवा निरलसतया, निःस्पृहतया कृता । इदानीमेषः सर्वत्यागस्य समयः इति । शनैः शनैः मार्गं क्रमन्तौ तौ अगच्छताम् । मध्येमार्गं वृद्धां मातरं पिपासा अबाधत । तृषार्ता सा पुत्रं जलम् अयाचत । तदा मातरं वृक्षस्य अधः उपवेश्य जलान्वेषणाय पुत्रः प्रस्थितः । यदा सः जलं गृहीत्वा प्रत्यागच्छत् तदा सः बहु भीतः अभवत् । माता कुत्रापि नादृश्यत । सः मत्तः इव सर्वत्र मातुः अन्वेषणम् आरब्धवान् । तदानीमेव तेन आकाशवाणी श्रुता- राजकन्यां सिहासने आरोपयितुमुत्सुकाः जनाः तदर्थं भृशं प्रयतमानाः आसन् । तथापि तेषां प्रयत्नाः विफलाः अभूवन् । तेन राज्यसिंहासनं रिक्तमेवातिष्ठत् । भवतः माता यदा एतत् श्रुतवती तदा धावन्ती एव प्रतिगतवती इति । राजपुत्रः अपि मातुः स्नेहेन प्रत्यागतः । तेन राजधानीं सम्प्राप्य यदा दृष्टं तदा सः अवगतवान् यत् तस्य माता धावन्ती आगत्य रिक्तसिंहासनम् आरूढवती आसीत् इति ।

५३ हास्यकणिकासंग्रहः

प्रतिवेशिनः गृहे ह्यः रात्रौ चौर्यम् अभवत् । चोरः अपि आरक्षकैः गृहीतः । आरक्षकः (चोरम् उद्दिश्य) त्वया किमर्थं चौरकार्यं कृतम्? चोरः- श्रीमन्! ते गृहे न आसन् इति मत्वा अहं चौरकार्यं कृतवान् । आरक्षकः-ते गृहे न आसन् इति त्वया कथं ज्ञातम्? चोरः- श्रीमन्! ते प्रतिदिनं तेषां गृहस्य पुरतः आर्द्राणि वस्त्राणि शुष्कयितुं प्रसारयन्ति स्म । परन्तु गत-त्रिभ्यो दिनेभ्यः ते वस्त्राणि शुष्कयितुं न प्रसारयन्ति । गृहस्वामिनम् उद्दिश्य आरक्षकः पृष्टवान्- किम् एतत् सत्यम्? गृहस्वामी - आम्, श्रीमन्! एषु दिनेषु शैत्यम् अधिकं वर्तते । तत्कारणतः वयं त्रिभ्यो दिनेभ्यः स्नानम् एव न कृतवन्तः स्मः । अतः वस्त्राणि कथं शुष्कयितुं प्रसारयामः? ज्ञातव्यम् अस्ति यद् अस्मिन् शीतकाले यदि कस्यापि गृहस्य द्वारं पिहितं दृश्यते तर्हि जानीयुः यत् ते गृहे एव सन्ति । शैत्यम् अधिकम् इति कारणात् ते बहिः न आगच्छन्ति स्नानम् अपि न कुर्वन्ति इति ॥ प्रदीपः!

५४ हास्यकणिकासंग्रहः

वैद्यः - भवतः कर्णयोः चिकित्सा मया अतीव सम्यक्तया कृता अस्ति । इदानीं भवान् सम्यक् रूपेण श्रोतुं शक्नोति, अत्र न कापि समस्या । रोगी- वैद्यमहोदय ! भवान् माम् उद्दिश्य इदानीं किमपि उक्तवान् किम् ? - नारदः ।

५५ हास्यकणिकासंग्रहः

वैद्यः - भवतः कर्णयोः चिकित्सा मया अतीव सम्यक्तया कृता अस्ति । इदानीं भवान् सम्यक् रूपेण श्रोतुं शक्नोति, अत्र न कापि समस्या । रोगी- वैद्यमहोदय ! भवान् माम् उद्दिश्य इदानीं किमपि उक्तवान् किम् ? - नारदः ।

५६ हास्यकणिकासंग्रहः

शिक्षकः - पृथिव्याः अक्षरेखा एका काल्पनिकी रेखा । तत्र वस्त्राणि प्रसारयितुं न शक्यन्ते इति जानन्ति वा भवन्तः ? एकः छात्रः- परन्तु महोदय! तत्र काल्पनिकानि वस्त्राणि तु प्रसारयितुं शक्यानि एव ननु ? - नारदः ।

५७ हास्यकणिकासंग्रहः

॥ वन्दे मातरम् ॥ किञ्चित् हसतु । अस्माकं गृहे सदैव अतिथयः / आप्ताः आगच्छन्तः आसन् । तदा मम पुण्यपत्तनस्य (Pune) मातृष्वसा अवदत् ``त्वं आयुर्विमा महामन्डलस्य प्रतिहस्तकः (LIC Agent) भव'' । तदारभ्यः त्रिणि वर्षाणि भूतानि, एकोपि अतिथिः आप्तः नागतवान् । एकदा संयुक्तराष्ट्रसंघे कश्मीरविषये चर्चा प्रचलिता आसीत्! प्रथमम् एकः भारतीयः प्रवक्ता तद्विषये कथितुम् उत्थाय तेभ्यः अनुमतिं याचितवान्! ते अपि तस्मै अनुमतिं दत्तवान्! अनुमतिं प्राप्य सः प्रवक्ता भाषणम् आरब्धवान्! एकदा महर्षिः काश्यपः (यस्य नाम्नि कश्मीरराज्यम् अभवत्) अटित्वा अटित्वा एकस्य सरोवरस्य समीपं गतवान्! तत्र स्वच्छं जलं दृष्ट्वा महर्षेः स्नानं कर्तुम् इच्छा अभवत्! तदा सः तस्य वस्त्राणि सरोवरस्य तीरे स्थापयित्वा स्नानार्थं गतवान्! स्नानं कृत्वा आगमनात् परं तस्य वस्त्राणि न प्राप्तवान्! वस्तुतः तस्य वस्त्राणि एकः पाकिस्तानस्य जनः तानि वस्त्राणि चोरितवान् आसीत्! भारतस्य प्रवक्तुः कथां श्रुत्वा पाकिस्तानस्य प्रवक्ता संयुक्तराष्ट्रसंघस्य सदस्यानां पुरतः चित्कारं कृत्वा उक्तवान्- महोदयाः! एषः मिथ्या कथयति ! तदा तु अस्माकं पाकिस्तानदेशः एव न आसीत्! तथा भारतस्य प्रवक्ता मृदु हसित्वा उक्तवान्- श‍ृण्वन्तु महोदयाः! तस्मिन् समये पाकिस्तानदेशः एव न आसीत् परन्तु अस्माकं कश्मीरराज्यं तदारभ्य एव आसीत्! अधुना कश्मीरराज्यं पाकिस्तानस्य अस्ति इति ते कथं वदन्ति?? संयुक्तराष्ट्रसंघस्य सर्वे सदस्याः तदा उच्चैः हसितवन्तः! ते ज्ञातवन्तः यत् कश्मीरराज्यं भारतस्य एव न तु अन्यस्य कस्यापि इति! -प्रदीपः

५८ हास्यकणिकासंग्रहः

सा प्रतिदिनं स्वस्य भारस्य समवेक्षणं कुर्वन्ती स्म । तत् ६८ किलो पर्यंतम् आसीत् । अद्य तया उपनेत्रं धारियत्वा भारं दृष्टम् । सा अवदत् - हे राम ! २० किलोभारस्य उपनेत्रम् ?

५९ हास्यकणिकासंग्रहः

पत्नी - (पतिम्) नाथ ! पतिकृते ``करवा चौथ'' व्रतम् अपेक्षया केनपि सम्यक् व्रतम् अस्ति चेत् सूचयतु । पतिः - अस्ति अस्ति ! पत्नी - किम् ? पतिः - मौनव्रतम् ।

६० हास्यकणिकासंग्रहः

शिक्षकः छात्रान् पाठयति । वयं नेत्रे निमीलयामः चेत् किमपि द्रष्टुं न शक्नुमः । एकः छात्रः तदा उत्थाय उक्तवान् श्रीमन् । अहन्तु नेत्रे निमीलयामि चेदपि द्रष्टुं शक्नोमि । शिक्षकः- किम्? त्वं किं द्रष्टुं शक्नोसि छात्रः- श्रीमन्, केवलं अन्धकारः एव दृश्यते । -प्रदीपः!

६१ हास्यकणिकासंग्रहः

एककुटुंबं नदीतीरं गन्तुमिच्छति ।कुटुंबे माता पिता पुत्रःच सन्ति ।किंभवति पश्यामः। माता - पुत्र ।शीघ्रं सिद्धाः भवामः।पिता ओला यानं योजयति । पुत्रः - अंब,तत्र कन्दुकेन क्रीडामि वा? माता - अस्तु,कन्दुकं स्वीकरोतु । गृहात् मन्दिरं गच्छामः।तस्मात् नदीतीरं गच्छेम । पुत्रः - कदा पिता कार्यालयात् आगच्छति? मार्गे आपणात् फलाहारानि,आलुकं बर्जनानि च आनेष्यामि इत्युक्तवान् खलु? पिता - पुत्र ओलायानम् आगतम् ंआतरं आह्वयतु । भवते खाद्यानि आनीतवान् । पुत्रः - धन्यवादःऽम्ब,पिता आगतः। पिता तीरे क्रीडतु । पुत्रः - एकं द्वे त्रीणि मम कन्दुकं जलेपतितम् । मम कन्दुकम् ंअम कन्दुकम् आवश्यकम् । माता - पुत्र ॅहिन्तामास्तु ।प्रातःयदा जलं नलिकायाःआगच्छति तथा कन्दुकम् आगच्छति ।रोदनेन अलम् । पुत्रः - निश्चयेन कन्दुकमागच्छति खलु? पिता - आम् निश्चयेन । (धमाल्) माता - मम पतिःनद्यां पतितवान् ।रक्षयन्तु ।रक्षयन्तु । पुत्रः - अम्ब,चिन्तामास्तु ।पिता स्वयमागच्छति । माता - कथम् पुत्र - अंब श्वःनलिकातः मम कन्दुकं यदागच्छति तदा एव पिता आगच्चति । विजी संस्कृतभारती चेन्नै ।

६२ हास्यकणिकासंग्रहः

॥ वन्दे मातरम् ॥ मानवानां वयः यथा यथा वर्धते, तथा तथा ते श्रीमंत / धनवान् भवन्ति । केशेसु रजतः, दन्ते सुवर्णम्, नयने मौक्तिकम्, रुधिरे शर्करा, पाषाणखण्डः (किद्नेय् स्तोने) मूत्रपिन्डे, पोलादस्य शलाका (स्तील् रोद्) अस्थिषु च आगच्छति ।

६३ हास्यकणिकासंग्रहः

युवकाः यदा केशकर्तनालयतः गृहम् आगच्छन्ति । अनन्तरम् स्नानं कुर्वन्ति । किन्तु युवतयः -.... सौन्दर्यप्रसाधनगृहातः (युवतीनां केशकर्तनालयम्) गृहम् आगच्छन्ति तदा मुखम् अपि न प्रक्षालयन्ति ।

६४ हास्यकणिकासंग्रहः

रुग्णः - वैद्यमहोदयः भवान् निर्देशकर्गजं (प्रेस्च्रिप्तिओन्) पृष्ठतः यदौषधं लिखितवान् तत्तु कुत्रापि न लभते भोः । वैद्यः तत्तु औषधं नास्ति रे लेखनी सम्यक् चलति वा न इति तत्र लिखित्वा दृष्ट्वानहम् । दर्शना

६५ हास्यकणिकासंग्रहः

॥ वन्दे मातरम् ॥ किञ्चित् हसामः । नितिनः - नमोनमः वैद्यराज ! भवतः चिकित्सया अहम् उपकृतः । धन्यवादः । वैद्यः - एवम ? किन्तु अहं कदापि भवतः चिकित्सां कदापि न कृतवान् ननु ? नितिन - सत्यम् ! किन्तु मम श्वशुरस्य चिकित्सा भवता एव कृता । सः ह्यः परलोकंं गतवान् ।

६६ हास्यकणिकासंग्रहः

॥ वन्दे मातरम् ॥ किञ्चित् हसामः । पतिः (पत्नीम् उद्दिश्य) माता पत्नी च मध्ये किं भेदः अस्ति ? पत्नी - माता वक्तुं पाठयति च पत्नी तूष्णीं कथम् उपविशेत् इति पाठयति ।

६७ हास्यकणिकासंग्रहः

ह्यः रात्रौ वसंतस्य गृहे ``सांताक्लाॅज आगतवान् आसीत् च अवदत् किमपि एकं वरदानं अहं त्वं दातुम् इच्छामि । वदतु ! वसंतः अवदत् मम पत्नी मया साकं बहुः कलहं करोति । अहं त्रस्तः अभवन् तर्हि मां अपरा भार्या ददातु तदा सांताक्ला,च्जेन तं भृशं ताडितः । अनन्तरं वसंतेन तं पृष्टः किमर्थं मां ताडितवान भवान् ? तदा सः ज्ञातवान् यत् तस्य भार्या एव सांताक्लाॅज भूत्वा आगतवती आसीत् ।

६८ हास्यकणिकासंग्रहः

पप्पू एकदा विलम्बेन विद्यालयं गतवान् । शिक्षकः तं पृष्टवान् रे पप्पू! विलम्बेन किमर्थम् अद्य विद्यालयम् आगतोऽसि पप्पू उक्तवान् श्रीमन् । अद्य मम मातापित्रोः विवादः सञ्जातः आसीत् । शिक्षकः- आम्, परन्तु विवादेन च तव विद्यालयस्य आगमनेन सह कः सम्बन्धः? पप्पू- श्रीमन् । मम एका पादुका मम पितुः हस्ते आसीत् च द्वितीया पादुका मम मातुः हस्ते आसीत् तत्कारणतः विलम्बः जातः । -प्रदीपः ॥

६९ हास्यकणिकासंग्रहः

॥ वन्दे मातरम् ॥ किञ्चित् हसामः । हेमा - अयि मंदा ! भवत्याः पुत्रः तीक्ष्णमतिः । अद्य प्रातः मिलितः सः माम् उक्तवान् भवती विश्वसुंदरी एव दृश्यते इति । मंदा - एवम् ? तर्हि मया अचिरात् सः नेत्रचिकित्सकसमीपं नेतव्यः ।

७० हास्यकणिकासंग्रहः

वैद्यः-(शल्यचिकित्सायाः उत्पीठिकायाः समीपं स्वस्य कृते वाक्यमेकं वदति) भोः देशपाण्डेवर्य मा बिभेतु । रुग्णः-धन्यवादः वैद्यमहोदयेभ्यः किन्तु मम नाम देशपाण्डे नास्ति भोः वैद्यः-आम् जानाम्यहम् । मम नाम देशपाण्डे अस्ति दर्शना

७१ हास्यकणिकासंग्रहः

ग्राहकः - किम् अत्र वर्णमयं दूरदर्शनम् उपलभ्यते? विक्रेता - आम्- ग्राहकः - अस्तु- अहं नीलम् एकम् इच्छामि-

७२ हास्यकणिकासंग्रहः

अध्यापकः - गो-गोपालयोर्मध्ये कः भेदः? छात्रः - श्रीमन्! गौः शुद्धं दुग्धं ददाति, गोपालः जलमिश्रितं दुग्धं ददाति- Teacher - What's the difference between cow and the milkman? Student - Sir, the cow gives pure milk and the milkman gives the water-mixed milk.

७३ हास्यकणिकासंग्रहः

आरक्षकः- (बन्दीपालम् उद्दिश्य) श्रीमन्! एका महती समस्या अभवत् बन्दीपालः- किम् अभवत्? आरक्षकः- कारागारे ये अपराधिनः आसन् ते सर्वे मिलित्वा ह्यः रामायणस्य नाटकं कृतवन्तः आसन्! बन्दीपालः- अस्तु समीचीनम्! परन्तु तत्र का समस्या? आरक्षकः- श्रीमन्! लक्ष्मणस्य प्राणान् रक्षणाय औषधम् आनेतुं यः हिमालयं गतवान् आसीत् सः अधुनापि न प्रत्यागतवान् । बन्दीपालः- किम्? कुत्र गतः स अपराधी? शीघ्रं गत्वा तम् आनयतु!

७४ हास्यकणिकासंग्रहः

एकस्य कृपणस्य महान् रोगः अभवत् । बहूनि दिनानि यावत् सः शय्यायाः उत्थितुम् एव न शक्नोति स्म । सः मृत्योः प्रतीक्षां कुर्वन् आसीत् । सः तस्य पत्नीं आहूय अयि प्रिये! भवति कुत्र अस्ति? तस्य पत्नी तस्य समीपम् आगत्य हे नाथ! अहं तु अस्मि भवतः पार्श्वे । मम अपत्यानि कुत्र सन्ति इति पुनः पृष्टवान् सः कृपणः । ते अपि आगत्य उक्तवन्तः तात! वयमपि स्मः भवतः पार्श्वे एव । भवन्तः सर्वे अपि अत्र एव सन्ति तर्हि तस्मिन् पार्श्वस्थे प्रकोष्ठे व्यजनं किमर्थं चलति? कः अस्ति तस्मिन् प्रकोष्ठे?

७५ हास्यकणिकासंग्रहः

शिक्षकः एकं छात्रम् उद्दिश्य आदिष्टवान् भोः छात्र! त्वम् एकं वाक्यं वद! यद् वाक्यं श्रुत्वा सर्वे हसन्ति परन्तु यं वदति सः न हसति । छात्रः- श्रीमन्! भवतः ऊरुकस्य श‍ृङ्खला उद्घाटिता अस्ति ।

७६ हास्यकणिकासंग्रहः

॥ वन्दे मातरम् ॥ किञ्चित् हसामः । पत्नी - (क्रोधेन) सः भिक्षुकः बहुः गर्विष्ठः दृश्यते । किम् अभवत् । भवती कथं जानाति ? पत्नी - ह्यः अहं तं रोटिका शाकं च दत्तवती । अद्य तेन एकं पुस्तकं मह्यं दत्तम् । पतिः - पुस्तकम् ? किं पुस्तकम् ? पत्नी - ``रुचिपूर्णपाकः कथं करणीयः'' इति ।

७७ हास्यकणिकासंग्रहः

पुत्रः - तात ! तात ! अद्यतन-धावन-स्पर्धायाम् अहं द्वितीयं क्रमाङ्कं प्राप्तवान् । जनकः - शोभनम् ! शोभनम् ! किन्तु तव मित्रं रमेशः कं क्रमाङ्कं प्राप्तवान् ? पुत्रः - सः तु अन्तिमतः द्वितीयः स्थितः । (ःए स्तूद् सेचोन्द् फ़्रोम् थे लस्त् - लस्त् बुत् ओने) जनकः - स्पर्धायां सम्मिल्य कति छात्राः आसन् ? पुत्रः - छात्रद्वयम् । अहं च रमेशः च । संस्कृतानन्दः ।

७८ हास्यकणिकासंग्रहः

ॐ किञ्चित् हासः । शिक्षकः - `` सः मधुरं खादति ।'' इत्यस्य भविष्यत्-कालः कथम् ? छात्रः - तस्य रुधिरे शर्करामानं वर्धिष्यते ।

७९ हास्यकणिकासंग्रहः

रोगी - भोः मित्र! दिष्ट्या अहं जीवामि । तत्र पश्य, तत्र गच्छन् अस्ति किल, सः वैद्यः एव मां रक्षितवान्, मम जीवस्य रक्षकः सः । मित्रम् - तत् कथं भोः? सः अद्भुतं किमपि कृतवान् वा? रोगी - अद्भुतं नास्ति चेत् अन्यत् किं भोः? दिष्ट्या सः मह्यं करणीयां शस्त्रचिकित्साम् अन्यस्मै कृतवान् । शस्त्रचिकित्साकरणानु क्षणमेव सः मृतः । नोचेत् अहमेव ....!!

८९ हास्यकणिकासंग्रहः

वैद्यराज नमस्तुभ्यं यमराजसहोदर । यमः तु हरति प्राणम् वैद्यराजः धनानि च ॥ O Doctor, I salute you! You are the brother of Yama Raja. While Yama only takes the life, the doctor takes the money too.

८१ हास्यकणिकासंग्रहः

ॐ रमेशः कदाचित् नारङ्गफलं क्रिणाति । फलस्य त्वग्निष्कर्षणं कुर्वति सति रमेशे अकस्मात् कश्चित् लघुकीटकः फलात् बहिः आगच्छति । दृश्यमानः सः कीटकः क्षणार्धे एव विशालकायः सत्पिशाचः (गेनिए) भवति । तद्द्वये संवादः आरब्धः । सत्पिशाचः - (उच्चैः हसित्वा) ही ऽ ही ऽ ही । मा अस्तु भयं रमेश ! अहं दुष्टः न अस्मि । अहं सत्पिशाचः (गेनिए) । भवतः मित्रम् । भवतः साहाय्यं करिष्यामि । अहं महान् सामर्थ्यवान् अस्मि । किम् अपि दातुं शक्नोमि भवते । वदतु किम् इच्छति भवान् ? धनं सम्पत्तिं सुवर्णं वा ? वदतु विनासङ्कोचम् । रमेशः - हे मित्र ! न इच्छामि धनं सम्पत्तिं सुवर्णं वा । किन्तु अहं कोविड-रोगात् महत् भयम् अनुभवामि । सत्पिशाचः - तर्हि वदतु किं करणीयं मया तदर्थम् ? रमेशः - अरे ! मम प्रतिरक्षा-द्रव्यस्य (वच्चिने) द्वितीया मात्रा (सेचोन्द् दोसे) अवशिष्टा अस्ति रे ! विनाशुल्कं प्राप्तुम् इच्छामि । किन्तु कुत्र अपि न लभ्यते सद्यः । आरोग्यसेतुः कोविन् वा इति उपयोजनेन (अप्प्लिचतिओन्) कालखण्डस्य (तिमे स्लोत्) चयनं नैव भवितुं शक्नोति । यदा उपयोजने कालखण्डानाम् उद्घाटनं भवति तदा क्षणार्धे एव ``पञ्जी परिपूर्णा (रेगिस्तेर् इस् फ़ुल्ल्) । कः अपि कालखण्डः उपलब्धः नास्ति'' इति सन्देशः दृश्यते । मित्र ! एकम् अनुग्रहं करोतु रे मयि । मम कृते प्रतिरक्षा-द्रव्य-ग्रहणार्थं कस्यचन कालखण्डस्य चयनं करोतु भवान् कृपया । सत्पिशाचः - अरे रमेश ! एतत् कार्यं तु मत्कृते अपि असाध्यम् । यैः निर्मितम् एतत् उपयोजन-द्वयं ते मम अपेक्षया तु अधिकाः चतुराः । तस्य रचनायां तैः किं व्यामिश्रं (मेस्स्, मिक्ष् उप्) कृतं तत् अहम् अपि ज्ञातुं न शक्नोमि । रे मित्र ! अहं तु मम प्रथम-मात्रायाः कृते अपि अद्ययावत् पञ्जीकरणं कर्तुं न शक्नोमि । अतः कोविड-रोगात् भयग्रस्तः अहं कीटकरूपं स्वीकृत्य नारङ्गफले एकाकी निवासं करोमि । --- संस्कृतानन्दः ।

८२ हास्यकणिकासंग्रहः

॥ वन्दे मातरम् ॥ किञ्चित् हसामः । मित्रद्वयं जल्पनं कुर्वन्तौ आस्ताम् । प्रथमम् - मम भार्या बहुः कोपिष्ठा अस्ति । क्षुद्रतम कारणेन सा क्रोधिता भवति । द्वितियम् - मम भार्या अपि कोपिष्ठा आसीत् । किन्तु अधुना सा शान्ता अभवन् । प्रथमम् - किं कृतवान् भो ? द्वितियम् - किं नहि रे भो ! अहं ताम् एकवारं अकथयम् यत् वृद्धावस्थे स्त्रियः बहुः क्रोधिता भवन्ति इति

८३ हास्यकणिकासंग्रहः

ॐ कस्यचन गायकस्य गानकार्यक्रमः समाप्तः । तदा प्रकोष्ठे केवलं जनद्वयम् उपविष्टम् आसीत् । अन्ये सर्वे श्रोतृजनाः पूर्वम् एव गतवन्तः । खिन्नः भूत्वा सः गायकः एकं श्रोतृजनं प्रति गतवान् । उक्तवान् च, ``महोदय ! भवतः महत् सङ्गीताकलनम् अस्ति । भवान् इव श्रोता दुर्लभः एव ।'' तदा सः उक्तवान्, ``तथा न महोदय ! अहं सङ्गीत-विषये किम् अपि न जानामि । अहं तु वक्ता । भवतः गान-कार्यक्रमस्य अनन्तरं मम व्याख्यान-कार्यक्रमः अस्ति । अतः अहम् अत्र उपविष्टः अस्मि ।'' अधिकः एव खिन्नः सः गायकः अपरं जनं प्रति गतवान् । तं च उक्तवान्, ``भवतः सङ्गीतानुरागः प्रशंसनीयः । भवान् इव श्रोता लब्धः इति मम भाग्यम् !'' तदा सः उक्तवान्, ``तथा किम् अपि न महोदय ! अहं तु अत्रस्थः ध्वनिव्यवस्था-तन्त्रज्ञः अस्मि । ध्वनिक्षेपणविषये का अपि समस्या न दृश्यते अतः अत्र केवलम् उपविष्टः अस्मि ।''

८४ हास्यकणिकासंग्रहः

संस्कृतं व्यावहारिकी भाषा भवेत् एकः शिक्षकः निज-कार-यानेन गच्छन्नासीत् । तदैव तेन महिषेन चाल्यमाने शकटे आरुढः स्वकीयः कश्चित् पुरातनः शिष्यः दृष्टः तभी उस शिक्षक ने झोटे (भैंसे) द्वारा खींची जा रही बग्घी पर बैठे हुये अपने एक पुराने शिष्य को देखा'' असंवेदनशीलेन अनेन शिक्षकेन व्यंगात्मक-स्वरेण कथितम् - अरे ! महिषशकटं चालयसि ? (अरे झोटा बग्गी चला रहा है ?) एवम् अपमानितेन शिष्येन अपि अपमान-जनकम् उत्तरम् एवं दत्तम् - ''श्रीमन् ! अन्यत् किम् ? किं त्वया अध्यापिताः तव शिष्याः विमानं चालयिष्यन्ति?'' (और क्या, तेरे पढाये हुये चेले जहाज चलायेंगे ?) शिक्षकः न केवलं तूष्णीं स्थितः अपितु अधुना-पर्यन्तं निश्चेता अस्ति । KSG

८५ हास्यकणिकासंग्रहः

ॐ राहुलः मेहुलः च मित्रद्वयम् । कस्मिंश्चित् दिने मेहुलः प्रभाते एव राहुलस्य गृहं गच्छति । सः अवलोकयति यद् राहुलस्य प्रत्येकं गृहजनः स्नानगृहं गच्छति । द्वारस्य पिधानं करोति । गानं कर्तुम् आरभते । स्नानं समाप्य बहिः आगच्छति । तत् दृष्ट्वा मेहुलः राहुलं पृच्छति - मेहुलः - रे मित्र ! भवतः गृहे सर्वे जनाः अतीव गानानुरागिणः दृश्यन्ते । बाढम् ! राहुलः - तथा किम् अपि न रे ! अस्माकं स्नानगृहस्य अर्गला कार्यरहिता जाता अस्ति । (the bolt is not working.) ऽऽऽऽऽऽऽऽऽऽऽऽऽ

८६ हास्यकणिकासंग्रहः

शुकज्यौतिषिकः पञ्चरस्थं शुकं गृहीत्वा तिष्ठति । यः आगामी विषयं ज्ञातुमिच्छति स मूल्यम् अर्पयति प्रश्नं च मनसि सङ्कल्पयति । ज्यौतिषिकः बहूनि पत्राणि शुकस्य पुरतः पातयति । तेभ्यः शुकः किञ्चन पत्रं यदृच्छया चञ्च्वा उद्गृह्णाति यस्मिन् लिखितं वर्तते किं वा भविष्यति तस्य सङ्कल्प इति । एकदा कश्चिदनपत्यः ``किं मम पुत्रलाभो भविष्यति'' इति संकल्प्य शुकज्यौतिषिकं प्रश्नमकरोत् । शुकगृहितं पत्रं विवृत्य ज्यौतिषिक एवमपठत् ``तव सङ्कल्पितं कार्यं तव मित्रद्वारा सेत्स्यति ।''

८७ हास्यकणिकासंग्रहः

ॐ चिरन्तन-हासः । एकस्मिन् वर्गे कश्चन शिक्षकः ``स्म भूतकालः'' इति बिन्दोः पाठनं कुर्वन् अस्ति । शिक्षकः - या क्रिया पूर्वकाले सातत्येन घटिता, सा क्रिया भूतकालस्य एतेन प्रकारेण दर्शिता भवेत् । अधुना सा क्रिया बहुशः तथा न घटति इति तस्य भावार्थः अस्ति । आङ्ग्लभाषायाम् एतस्य अनुवादः ``उसेद् तो'' इत्येन भवितुं शक्नोति । उदाहरणार्थं, युवावस्थायाम् अहं नृत्यं करोमि स्म । (अधुना न करोमि ।) In the young age I used to dance. (Presently I don't.) पूर्वं सा गायति स्म । (अधुना न गायति ।) सत्ययुगे साक्षात् ईश्वर-दर्शनं भवति स्म । (अधुना न भवति ।) इदानीं भवन्तः अपि कानिचित् उदाहरणानि वदन्तु । राहुल ! भवान् वदतु । राहुलः - बाल्यकाले अहं सत्यं वदामि स्म । (भवतां सर्वेषां जीवनम् आनन्दमयं भवेत् ।) - संस्कृतानन्दः ।

८८ हास्यकणिकासंग्रहः

संस्कृतं व्यावहारिकी भाषा भवेत् (उद्देश्यम्--व्यावहारिक-शब्दावली-वर्धनम्) टिकिट-निरीक्षकः - तात (ताऊ) ! टिकटं दर्शय । वयोवृद्धः यात्री - मम पार्श्वे टिकटं नास्ति । निरीक्षकः - टिकटं कुत्र गतम् ? यात्री - मया न क्रीतम् । निरीक्षकः - किमर्थं न क्रीतम् ? भवान् अर्थदण्डात् बिभेति न ? (क्या आपको जुर्माने से डर नहीं लगता?) यात्री - न बिभेमि । यतो हि यदि टिकट-निरीक्षकः कोऽपि भद्रजनः भविष्यति तर्हि मां क्षमिष्यते (अगर टिकट-चेकर कोई सज्जन होगा तो मुझे छोड् देगा) यदि च टिकट-निरीक्षकः कोऽपि दुष्टः, मूर्खः, धूर्तः, गर्दभ-पुत्रः, परान्नपुष्टः (दूसरों की कमाई खानेवाला / हरामखोर) कुक्कुरः भविष्यति तर्हि तस्मै तु दण्डः देयः एव भविष्यति । अधुना त्वमेव विचारय त्वं कीदृशः असि । टिकट निरीक्षकः - अहो ! तात ! अहं तादृशः नास्मि । त्वं निश्चिन्तीभूय सानन्दः भव । (अरे ताऊ, मैं ऐसा नहीं हूं । बेफिक्र होकर ऐश कर) अत्र उष्णता वर्तते, वातायनसमीपे उपविश (यहां गर्मी है, खिड्की के पास बैठ जा) एतत् कथयित्वा टिकट-निरीक्षकः अग्रे गतवान् ।- KSG

८९ हास्यकणिकासंग्रहः

कश्चन अधिवक्ता तस्य एकं कूपं व्यक्रीणीत । कश्चन शिक्षकः तं कूपम् अक्रीणात् । तदनन्तरम् एकदा सः अधिवक्ता शिक्षकस्य गृहम् आगत्य तं तर्जयित्वा अवदत् भोः! अहं कूपं व्यक्रीणि, तस्य अन्तः यज्जलम् अस्ति तन्न व्यक्रीणि । यदि भवान् कूपात् जलम् आनेतुम् इच्छति तर्हि भवता तस्य मूल्यं पृथक्त्वेन दातव्यं भवेत्! शिक्षकः तदा धैर्येण अवदत् भोः! मम कूपे भवतः यज्जलम् अस्ति तत् सर्वं भवान् शीघ्रं निष्कास्य नयतु अन्यथा श्वः आरभ्य तस्य भाटकं भवता दातव्यं भवेत् । शिक्षकस्य वचनं श्रुत्वा अधिवक्ता हसित्वा अवदत् भोः महोदय! अहं तु केवलं विनोदाय एतद् उक्तवान् । -प्रदीपः!

९० हास्यकणिकासंग्रहः

एकः वृद्धः - आचार्य! कृपया मां संस्कृतं पाठयतु पण्डितः - किमर्थम्? वृद्धावस्थायां संस्कृतभाषा किमर्थम्? वृद्धः - देववाणी अस्ति । मरणानन्तरं स्वर्गे देवैः सह सम्भाषणं कर्तुं शक्ष्यामि । पण्डितः - यदि भवान् नरकं गमिष्यति, तर्हि किं भविष्यति? वृद्धः - चिन्ता मास्तु, आङ्गलभाषा तु अहं जानामि

९१ हास्यकणिकासंग्रहः

शिक्षकः - भोः छात्राः! ऋतवः कति भवन्ति? तेषां नामानि च कानि वदत । बिराजः (कश्चन छात्रः) श्रीमन्! षड् ऋतवः भवन्ति । तेषां नामानि ग्रीष्मः, माता, पिता, पितृव्यः, शिशिरः, वसन्तः च । शिक्षकः- किम्? सर्वम् अशुद्धं वदन् असि त्वम्? बिराजः- क्षम्यतां श्रीमन्! मम मातुः नाम वर्षा, पितुः नाम शरत्, अपिच मम पितृव्यस्य नाम हेमन्तः । अतः तेषां नामानि अहं न उक्तवान् ।

९२ हास्यकणिकासंग्रहः

रेलयानेन यात्रा कश्चन पुरुषः रेलयानेन यात्रां कर्तुम् इष्टवान् । सः गुवाहाटीनगरस्य रेलस्थानकं गतवान् । तत्र गत्वा सः रेलयानस्य एकां कक्षां प्रविष्टवान्, परन्तु सा कक्षा जनैः पूर्णा आसीत् । तस्य कृते रिक्त आसन्दः नासीत् । तदानीं सः एकम् उपायं विचिन्त्य सर्पः सर्पः इति कृत्वा चित्कारम् अकरोत् । सर्पः कक्षां प्रविष्टवान् इति मत्वा कक्षायां स्थिताः सर्वे अवतीर्य अन्यां कक्षां गतवन्तः । क्षणाभ्यन्तरे कक्षा रिक्ता अभवत् । तदा सः उपरि स्थितम् आसन्दम् आरुह्य सुखेन शयनं कृतवान् । प्रातःकाले चायविक्रेता कक्षां प्रविश्य चायं चायम् इति यदा रटति स्म तदा तस्य निद्राभङ्गः अभवत् । स च तम् अपृच्छत् भोः! एतस्य स्थानस्य किं नाम इति! सः चायविक्रेता अवदत् गुवाहाटीनगरम् इति । सः पुरुषः तदा प्रत्यवदत् भोः! ह्यः रात्रौ अहं गुवाहाटीनगरम् आगत्य रेलयानम् आरुढवान् । किम् इदानीं पर्यन्तं गुवाहाटीनगरम् एव अस्ति? चायविक्रेता अवदत् महोदय! ह्यः रात्रौ एतां कक्षां सर्पः प्रविष्टः इति कारणतः एतां कक्षाम् अनीत्वा हि रेलयानं गतम् । सः पुरुषः तदा अचिन्तयत् यद् अहम् अधिकं चातुर्यम् अदर्शयम् इति कारणतः मम इयं दशा अभवत् । तदा सः विलापम् अकरोत् । -प्रदीपः!

९३ हास्यकणिकासंग्रहः

ॐ हसन्तु संस्कृतेन । कश्चन मनुष्यः सर्वकारीय-रुग्णालयं गच्छति । पृच्छति च, ``विनाशुल्कं कोरोना-प्रतिरक्षा-द्रव्यं कुत्र प्राप्यते ?'' उत्तरम् आगच्छति, ``वामभुजायाम् ।'' - संस्कृतानन्दः ।

९४ हास्यकणिकासंग्रहः

ॐ संस्कृतेन हसन्तु । राहुलः मेहुलः च मित्रद्वयम् । कदाचित् मार्गे मिलति । मेहुलः - रे राहुल ! भवान् भारतीय-प्रशासन-सेवा-परीक्षार्थं प्रत्याशी (candidate for I. A. S. Exam.) अस्ति खलु ! राहुलः - आम् । मेहुलः - तर्हि इतिहास-विषयस्य ह्यस्तनं प्रश्नपत्रं कथम् आसीत् ? राहुलः - अतीव कठिनम् ! किम् अपि लेखितुं न शक्तवान् अहम् । मेहुलः - किं कारणं रे ? राहुलः - किं वक्तव्यम् ! सर्वे प्रश्नाः मम जन्मतः पूर्वकालविषये एव आसन् । मम गतजन्मस्य स्मरणं नास्ति । संस्कृतानन्दः ।

९५ हास्यकणिकासंग्रहः

ॐ हसन्तु संस्कृतेन । राहुलः मेहुलः च मित्रद्वयम् । कदाचित् मार्गे मिलति । मेहुलः - रे राहुल ! भवान् भारतीय-प्रशासन-सेवा-परीक्षार्थं प्रत्याशी (candidate for I. A. S. Exam.) अस्ति खलु ! राहुलः - आम् । मेहुलः - तर्हि राजनीतिशास्त्र-विषयस्य (पोलितिचल् स्चिएन्चे) ह्यस्तनं प्रश्नपत्रं कथम् आसीत् ? राहुलः - न का अपि आशा ! द्वितीय-प्रश्नस्य उत्तरम् असम्यक् लिखितवान् अहम् । मेहुलः - अन्यत् सर्वं योग्यम् एव खलु ? तर्हि किमर्थं निराशः भवान् ? राहुलः - किं वक्तव्यम् ! प्रथम-प्रश्नस्य उत्तरं लेखितुं समयः एव न अवशिष्टः । तृतीय-प्रश्नस्य अर्थः एव न ज्ञातः मया । पञ्चमस्य उत्तरं लेखितुं विस्मृतवान् । मेहुलः - चतुर्थस्य प्रश्नस्य किम् अभवत् ? राहुलः - चतुर्थः प्रश्नः तु न दृष्टः एव मया ! संस्कृतानन्दः ।

९६ हास्यकणिकासंग्रहः

कश्चन पुरुषः केनचिद् बालकेन सह केशकर्तनाय नापितस्य आपणम् गतवान् । तत्र गत्वा आदौ तस्य केशान् अकर्तयत् । अनन्तरं सः नापितम् अवदत् भोः! एषः मम पुत्रः! तस्यापि केशान् सम्यक् कर्तयतु । तावता अहं ताम्बूलं खादित्वा आगमिष्यामि इति । नापितः बालकस्यापि सम्यक् केशान् अकर्तयत्, किन्तु तावत् पर्यन्तं सः पुरुषः ताम्बूलं खादित्वा न आगच्छत् । नापितः तदा बालकम् अपृच्छत् किं भोः! तव पिता इदानीमपि किमर्थं न आगच्छति? बालकः तदा अवदत् महोदय! सः मम पिता नास्ति । अहं मार्गे क्रीडन् आसम् । सः मां दृष्ट्वा अवदत् भोः बालक! धनेन विना तव केशान् कर्तयिष्यसि चेद् मया सह आगच्छ इति । अतः अहं तेन सह आगतवान् । -प्रदीपः!

९७ हास्यकणिकासंग्रहः

अद्य किमपि लेखनस्य मनोऽभवत् चिन्तितमासीत् हृदये स्थानं दास्यामि तुभ्यम् । पुनः विचारः आगतः यत् अद्यत्वे हृदयाघातः बहु भवति ॥ आज कुछ लिखने का मन किया.... सोंचा था कि दिल में बसायेंगे तुमको । फिर खयाल आया कि आजकल ःएअर्त् अत्तच्क् बहुत होता है ॥ रौशनः

९८ हास्यकणिकासंग्रहः

कुर्वन्नासं तव प्रतीक्षां प्रिये !, त्वं त्वागतवती । आनीतं यत् पुष्पं तव कृते, तत् अजा भुक्तवती ॥ कर रहा था इंतजार तुम्हारा प्रिये ! तुम तो आ गई । लाया था जो फूल तुम्हारे लिए वो बकरी खा गई ॥ रौशन

९९ हास्यकणिकासंग्रहः

सप्तजन्म पर्यन्तं त्वया सहैव भविष्यामि एवमुक्तवती । परमद्य सूच्यौषधं स्वीकर्त्तुं एकाकिनी एव गतवती । सात जन्मो तक तुम्हारे साथ ही रहूँगी ऐसा बोली थी वो । लेकिन आज वैक्सीन लेने अकेले ही चली गई ।

१०० हास्यकणिकासंग्रहः

भूत - प्रेतः निश्छलभार्या च मनसः भ्रान्तिःस्तः । एवं किमपि न भवति । भूत - प्रेत और मासूम पत्नी मन का वहम है । ऐसा कुछ भी नहीं होता । रौशनः

१०१ हास्यकणिकासंग्रहः

अलम् व्याकरणेन! किञ्चिद्धस्यन्ताम् । पति १ः - पुरुषस्य मस्तिष्कः शरीरस्य एकः अद्भुतोऽवयवः खलु । पति २ - आम् सत्यम् । त्रिशतकाधिकपञ्चषष्टदिनानि - चतुर्विंशतिः होराः - अवित्रतं कार्यं कुर्वन्नस्ति । पति ३ - जन्मदिनतः उद्वाहदिनपर्यन्तं केवलम् । (केवलं हास्यार्थम् । हे भगिन्यः मा कुप्यन्ताम्)!

१०२ हास्यकणिकासंग्रहः

एकम् उद्यानम् अस्ति तत्र कश्चन नियमः । यत् यदि भवान् उद्यानस्य किमपि फलं त्रोटयति चेत् तस्य फलस्य गिलनम् (स्वल्लोव्)एव कर्तव्यं न तु चर्वणम् इति । उद्याने प्रथमः आगन्ता - नरेन्द्रमोदीवर्यः सः बदरीफलं त्रोटयति । तदा द्वारपालः आगत्य वदति महोदय नियमः पालनीयः इति । तदा मोदीवर्यः बदरीफलं गिलति । द्वितीयः आगन्ता नितीशकुमारः सः सेवफलं त्रोटयति तदा द्वारपालः वदति नियमः पालनीयः भोः । एतत् श्रुत्वा नितीशवर्यः रोदिति अनन्तरं हसति एतेन द्वारपालः विस्मितः भवति सः आश्चर्येण पृच्छति किमर्थं रोदिति हसति च । नितीशवर्यः - अहं रुदितवान् यतः अधुना मया सेवफलस्य गिलनं करणीयं परन्तु हसामि यतोहि तत्र लालुप्रसादवर्यः पनसफलं (ज़च्क्फ़्रुइत्)त्रोटितवान् अस्ति ।

१०३ हास्यकणिकासंग्रहः

ॐ चिरन्तन-हासः । सुरेशः - भवत्याः वयः कियत् ? सुरेखा - सप्तदशवर्षाणि (१७) । रमेशः - इदानीम् एव मया स्मृतम् । वर्षत्रयात् पूर्वम् अपि भवती तथैव उक्तवती । कथम् एतत् ? सुरेखा - सत्यम् । बहुकाले व्यतीते अपि स्ववचने नैव परिवर्तनं कुर्वन्ति सज्जनाः । भवतां समयः आनन्ददायकः भवेत् । संस्कृतानन्दः ।

१०४ हास्यकणिकासंग्रहः

ॐ चिरन्तन-हासः । राहुलः - धनं च ज्ञानं च एतद्द्वयात् भवान् कस्य एकस्य चयनं (चोइचे) करिष्यति ? मेहुलः - अर्थात् धनस्य एव । धनेन एव सर्वं साध्यं भवति । भवान् कस्य चयनं करिष्यति ? राहुलः - (तुच्छतया) धिक् धिक् त्वाम् ! कियान् धनलोभी अस्ति भवान् ! अहं तु ज्ञानस्य चयनं करिष्यामि । मेहुलः - स्पष्टम् एव ! स्वसमीपे यद् नास्ति तस्य एव चयनं मनुष्यः करोति । (one chooses that which is not with oneself.) भवतां समयः प्रसन्नतया गच्छेत् । संस्कृतानन्दः ।

१०५ हास्यकणिकासंग्रहः

द्वयोः धनिकयोः मध्ये वार्ता प्रचलन्ती अस्ति । प्रथमः धनिकः - मम सेवकः बहुः मूर्खः अस्ति । द्वितीयः धनिकः - न न, मम सेवकः तु भवतः सेवकात् अधिकः मूर्खः । प्र।धनिकः - पश्यतु अहं भवन्तं दर्शयामि । (सेवकम् आह्वयति) सेवकः - आं महोदय, आगच्छामि । प्र। धनिकः - स्वीकरोतु १० रूप्यकाणि विपणिं गत्वा दूरदर्शनं क्रीणातु(सेवकः गच्छति)। (द्वि । धनिकं प्रति) पश्यतु एतं, एषः १० रूप्यकैः दूरदर्शनं क्रेतुं गच्छति । द्वि । धनिकः - स्वस्य सेवकम् आह्वयति । (स्वस्य सेवकं प्रति) भवान् कार्यालयं गच्छतु तत्र पश्यतु अहं तत्र अस्मि अथवा न (सेवकः गच्छति) । (प्र। धनिकं प्रति) पश्यतु अहम् अत्र अस्मि सः मां कार्यालये द्रष्टुं गच्छति । (प्रथमः सेवकः द्वितीयसेवकं बहिः पश्यति वदति च) प्र। सेवकः - पश्यतु मम स्वामिनः मूर्खत्वं सः एतत् अपि न जानाति यत् अद्य रविवासरः विपणिः पिहिता(च्लोसेद्) अस्ति । द्वि। सेवकः - मम स्वामी तु इतोऽपि मूर्खः मां कार्यालयं प्रेषितवान् ,किमर्थं न स्वयं तत्र दूरवाणीं कृत्वा पृच्छति ।

१०६ हास्यकणिकासंग्रहः

कृपणस्य व्यवहारः कश्चन युवकः कृपणस्य गृहात् तरणतालस्य (स्विम्मिन्ग् पूल्) कृते दक्षिणां याचितुम् आगतवान् । युवकः - महोदय अत्र अस्माकं सहनिवासस्य (चोलोन्य्) तरणतालस्य निर्माणं भवति भवान् स्वपक्षतः किं दास्यति । कृपणः - (अन्तः गत्वा आगच्छति वदति च) स्वीकरोतु मम पक्षतः जलपूरितं द्रोणीद्वयम् ।

१०७ हास्यकणिकासंग्रहः

ॐ चिरन्तन-हासः । राहुलः मेहुलः च मित्रद्वयम् । राहुलः चिकित्सकः (दोच्तोर्) अस्ति । कदाचित् मेहुलः ज्वरम् अनुभवति । अतः सः राहुलं प्रति उपचारार्थं गच्छति । राहुलः - रक्तपरीक्षणस्य वृत्तान्तानुसारं भवान् डेङ्ग्यू इति रोगेण पीडितः अस्ति । भवता अन्यं चिकित्सकं प्रति गन्तव्यं भवेत् । मेहुलः - तथा किमर्थं भोः ? भवान् अपि चिकित्सकः एव अस्ति खलु । एषः विशेषज्ञस्य विषयः नास्ति । मम लक्षणानि (स्य्म्प्तोम्स्) अपि गभीराणि न सन्ति । भवान् एव औषधानि ददातु । राहुलः - किन्तु अहं डेङ्ग्यू इति रोगस्य निवारणाय औषधानि न जानामि । मेहुलः - तथा कथं भवितुं शक्नोति महोदय ? राहुलः - यतः वैद्यक-पदवी-परीक्षार्थं मया ``डेङ्ग्यू ' इति प्रकरणं विकल्प-रूपेण पार्श्वे स्थापितम् आसीत् । (For the medicine degree exam. I kept the chapter 'Dengue' aside as an option.) भवतां दिनक्रमः प्रसन्नतया भवेत् । --- संस्कृतानन्दः ।

१०८ हास्यकणिकासंग्रहः

कार्तिकः- तस्य वृक्षमूले किमर्थं तिष्ठति रे । रमणः - महत्पदं ज्ञात्वा वृक्षमूले वसेत् इति श्रुतवानस्मि । अत्र तिष्ठति चेत् महत्पदज्ञानं भवति इति चिन्तयित्वा.... कार्तिकः - हन्त! तत्र पिपीलिकादंशनमेव भवति तत्तु संसारवृक्षम्! न तु जम्बू रमणः -

१०९ हास्यकणिकासंग्रहः

इड्डलि दोशा अभवत् एकदा, मम संस्कृतशिक्षकः गृहपाठं।दत्तवान् । भोजनविषये ५ वाक्यानि लिखतु इति । अहम् एवं लिखितवान् । १।भारतीयानां मुख्यं भोजनविशेषम् इड्डलि वर्तते । २ंअह्यमपि इड्डलि अत्यन्तं रोचते । ३।बहुषु गृहेषु अल्पाहारार्थं इड्डलि पच्यते । ४।इड्डलिनिर्माणम् अतिसरलम् । ५। यात्रायां नेतुम् सौकर्यप्रदं भोज्यम् इड्डलि । कृपया दोषपरिष्कारं करोतु इति लिखित्वा शिक्षकाय प्रेषितवानहम् । शिक्षकः एवं परिष्कृत्य प्रतिप्रेषितवान् । १।भारतीयानां मुख्यं भोजनविशेषम् दोशा वर्तते । २ंअह्यमपि दोशा अत्यन्तं रोचते । ३।बहुषु गृहेषु अल्पाहारार्थं दोशा पच्यते । ४।दोशा निर्माणम् अतिसरलम् । ५। यात्रायां नेतुम् सौकर्यप्रदं भोज्यमं दोशा । किमर्थं एवं परिवर्तितमिति यदा शिक्षकः मया पृष्टः तेन एवमुक्तम् । दोष परिष्कारं करोतु इति भवान् प्रार्थितवान् । शषयोरभेदः इति नियमः वर्तते । अतः अहं दोश परिष्कारं कृतवान् । अनन्द कल्यान कृष्णः

११० हास्यकणिकासंग्रहः

॥ ॐ ॥ चिरन्तन-हासः । मेहुलः - अस्मिन् वर्षे मया वृक्षारोपण-कार्यक्रमे एकपञ्चाशत्-(५१)-वृक्षाः आरोपिताः । राहुलः - भवान् गतवर्षे अपि तद् कृतवान् । गतवर्षस्य कः अनुभवः ? मेहुलः - (सखेदम्) मया तदा आरोपितेषु एकविंशति-वृक्षेषु (२१), पञ्च-वृक्षाः शुष्कतां गताः । राहुलः - (आढ्यतया) मया आरोपितेषु वृक्षेषु एकः अपि शुष्कतां न गतः । मेहुलः - भवता कति वृक्षाः आरोपिताः ? राहुलः - एकः अपि न । (भवतां सर्वेषां समयः आनन्दमयः भवेत् ।) संस्कृतानन्दः ।

१११ हास्यकणिकासंग्रहः

॥ ॐ ॥ चिरन्तन-हासः । राहुलः समाजे काश्चन प्रतिष्ठित-व्यक्तिः अस्ति । कस्याश्चित पादकन्दुक-स्पर्धायाः (फ़ूत्बल्ल् तोउर्नमेन्त्) समापन-समारोहे सः प्रमुखातिथि-रूपेण आहूतः अस्ति । अन्तिम-द्वन्द्वक्रीडाम् (थे फ़िनल् मत्च्) पश्यति सः । तस्य शुभहस्तद्वयेन पारितोषिक-वितरणम् अपि भवति । तदनन्तरं सः भाषणं करोति । ``अस्माकं देशे कियत् दारिद्र्यम् अस्ति तस्य दर्शनम् अस्यां स्पर्धायां साक्षात् अभवत् । एकं कन्दुकं प्राप्तुं तस्य पृष्ठतः बहवः क्रीडकाः धावन्ति । केवलम् एकस्य कन्दुकस्य प्राप्त्यर्थं तेषु तीव्रः कलहः भवति । एतत् सर्वं दृष्ट्वा अहम् अतीव दुःखम् अनुभवामि ।'' ``एतस्मै नैव स्पृहणीयम् अस्माभिः । सद्यः यः सर्वकारः अस्ति तस्य एव अपयशः अस्ति एतत् । भ्रष्टनीतिः सर्वकारः एषः ।'' ``भवतु नाम । यद् किमपि अभवत् तस्य विचारः मास्तु । अधुना निर्वाचनानि तु समीपम् एव सन्ति । तदा निश्चयेन सर्वकार-परिवर्तनं करिष्यामः । वयं विनाकलहं शान्ततया च जीवनं यापयितुम् इच्छामः ।'' ``अतः एषः राहुलः भवद्भ्यः सर्वेभ्यः निश्चयेन वाग्दानं (चोम्मित्मेन्त्) करोति यद् अग्रिमायां स्पर्धायां नूतन-सर्वकारः प्रत्येकं क्रीडकाय एकैकं कन्दुकं दास्यति । अतः प्रत्येकः क्रीडकः स्वस्य भिन्नेन एव कन्दुकेन क्रीडिष्यति । कलहं विना शान्ततया च स्पर्धा सम्पन्ना भविष्यति । एषः न सामान्य-जनस्य शब्दः । प्रतिष्ठितस्य राहुलस्य शब्दः अस्ति एषः ।'' भवतां समयः प्रसन्नतया गच्छेत् । संस्कृतानन्दः ।

११२ हास्यकणिकासंग्रहः

ॐ चिरन्तन-हासः । पत्नी - सदा सर्वदा भवान् भ्रमणभाषे आन्तर्जाले (on the internet) व्यग्रः अस्ति । तस्मात् बहिः अपि विश्वम् अस्ति । तत् अपि पश्यतु कदाचित् । (See the outer-world sometimes) पतिः - (भ्रमणभाषे एव मग्नः भूत्वा ध्यानं च अदत्त्वा) किम् ? किं नाम द्रष्टव्यम् ? कुत्र द्रष्टव्यम् ? भवतु । सम्बन्धनीं प्रेषयतु खलु ! (Do send the link) भवतः समयः प्रसन्नतया गच्छेत् । संस्कृतानन्दः ।

११३ हास्यकणिकासंग्रहः

॥ ॐ ॥ चिरन्तन-हासः । राहुलः मेहुलः च मित्रद्वयम् । कदाचित् मार्गे मिलति । मेहुलः - नमो नमः राहुल ! कथं प्रचलति सर्वम् ? राहुलः - नमः नमः मेहुल ! प्रणोदेन प्रचलति । मेहुलः - नमः नमः इति एतत् किं नूतनम् ? राहुलः - अरे मम जनन्या कठोरतया कथितम् अस्ति यद् नमो इति एतस्य महत्त्वं न एव वर्धनीयम् । अतः नमो इति कदा अपि कुत्र अपि न निर्गच्छेत् मम मुखात् । तथा वदिष्यामि चेत् जननी दण्डनं करिष्यति । भवतां सर्वेषां समयः सुखशान्त्या गच्छेत् । संस्कृतानन्दः ।

११४ हास्यकणिकासंग्रहः

॥ ॐ ॥ ``सुभाषितरसास्वादः'' ``घरट्टान्योक्ति'' ( २५७) श्लोक - रे रे घरट्ट ! मा रोदीः ! कं कं न भ्रामयन्त्यमूः ! । कटाक्षेपमात्रेण ; कराकृष्टस्य का कथा ? ॥ अर्थ - घरट्ट चक्की ( जात) मत रूं यह जो स्त्री है यह किस किस को नही घुमाती है ? गूढार्थ - पीसते समय पुरातन काल की हाथचक्की घू घूं ऐसा ध्वनी करती है । इसपर सुभाषितकार ने स्त्रियों के आकर्षण का प्रभाव आरोपित किया है । सुभाषितकार चक्की को कह रहा है रो मत अपने हाथ से यह स्त्री किस किस को नही घुमाती है ? किस किसीको तो वह केवल नेत्रकटाक्ष से ही घायल कर देती है । ( मतलब नचाती है) फिर जिसको हाथ से घुमाती है उनकी कथा तुमसे अलग थोडी ही होगी ? किञ्चित व्यंग्यपूर्ण हास्योक्ती यहाँ पर अन्योक्ति द्वारा सुभाषितकार ने सूचित की है ।

११५ हास्यकणिकासंग्रहः

॥ ॐ ॥ चिरन्तन-हासः । राहुलः मेहुलः च मित्रद्वयम् अस्ति । कदाचित् मार्गे मिलति । मेहुलः - अरे राहुल ! कथं यापितः ह्यस्तनः रविवासरः ? राहुलः - (म्लानमुखेन) सख्या सह मम विवादः जातः । मेहुलः - हा हन्त ! कीदृशः विवादः ? राहुलः - सा नाटकं द्रष्टुम् इष्टवती अहं च चित्रपटम् । मेहुलः - तर्हि किं नाटकं दृष्टं भवद्वयेन ? विवादे सर्वदा भवतां विजयः भवेत् । --- संस्कृतानन्दः ।

११६ हास्यकणिकासंग्रहः

कश्चन वणिक् मरणासन्नः शय्यायां पतितः आसीत् । तस्य महान् रोगः अभवत् यस्य उपशमनं न भवति स्म । एकदा सः एकैकं कृत्वा गृहसदस्यान् सर्वान् आह्वयति स्म । वणिक् - मम पत्नी कुत्र? पत्नी - अहम् अत्रैव अस्मि । वणिक्- मम पुत्री कुत्र? पुत्री - हे पितः! अहमपि अत्रैव अस्मि! वणिक्- मम पुत्रः कुत्र? पुत्रः- अहमपि अत्रैव अस्मि पितः! वणिक्- अरे! यूयं सर्वे यदि अत्रैव स्थ तर्हि आपणे कोऽस्ति? -प्रदीपः!

११७ हास्यकणिकासंग्रहः

बलिवर्दः - किमर्थं धावसि ? महिषः - रक्षिजनाः गजं धर्तुं जङ्गलम् आगताः । बलिवर्दः - परं त्वं तु न गजः । महिषः - जानामि, किन्तु भारतीय-न्याय्यालये एतत् प्रमाणीकर्तुं न्यूनातिन्यूनं विंशतिवर्षाणि गमिष्यन्ति । एतत् श्रुत्वा बलिवर्दः अपि धावितुं प्रारभत ।

११८ हास्यकणिकासंग्रहः

जीवने सदा प्रसन्नाः भवन्तु मित्राणि । यतः न जाने कदा भवतः विवाहः भवेत् .... जीवन में हमेशा खुश रहो दोस्तों क्योंकि पता नहीं कब आपकी शादी हो जाए .... - रौशनः

११९ हास्यकणिकासंग्रहः

पुत्रः कियान् अपि मूर्खः विकृतः कथन्न भवेत् विवाहपत्रे तु सुपुत्रः लेखनीयमेव भवति .... - - रौशनः

१२० हास्यकणिकासंग्रहः

आपणे कश्चित् मनोजं पृष्टवान् पादत्राणं कुत्र लपस्यते .... ? मनोजेन उक्तम् - सर्वत्र लपस्यते केवलं भवतः अन्ते तादृशी विशिष्टता भवेत् .... बाजार में किसी ने मनोज से पूछा - जूते कहाँ मिलेंगे .... मनोज - हर जगह मिलेंगे बस आपमें वह गुण होना चाहिए .... रौशनः

१२१ हास्यकणिकासंग्रहः

॥ ॐ ॥ चिरन्तन-हासः । राहुलः समाजसेवकः अस्ति । सद्यः तस्य स्थितिः कुण्ठिता अस्ति । अतः सः स्वजीवन-विषये अप्रसन्नः अस्ति । सः कञ्चन ज्यौतिषिकं प्रति परामर्शार्थं गच्छति । ज्यौतिषिकः - का समस्या अस्ति ? राहुलः - सर्वत्र अधोगतिम् अपयशः च अनुभवामि । एतानि कष्टानि कदा समाप्तानि भविष्यन्ति ? ज्यौतिषिकः - २०२४-तमे वर्षे भवतः कष्टानुभवः समाप्तः भविष्यति । राहुलः - (सानन्दम्) तदा मम यशप्राप्तिः भविष्यति खलु ! ज्यौतिषिकः - (गभीरतया) न । तथा न । तावत्पर्यन्तं भवान् कष्टसहन-विषये अभ्यस्तः भविष्यति । (Till then you will get used to bear the hardships.) भवतां दिवसः प्रसन्नतया गच्छेत् । --- संस्कृतानन्दः ।

१२२ हास्यकणिकासंग्रहः

''शिरस्त्राणस्य अनिवार्यता कारणेन घटिता घटना'' एकदा कश्चन गृहं प्रत्यागतवान् तस्य शिरस्त्राणस्य काचः रक्तवर्णीयः आसीत् युतकमपि रक्तवर्णीयमासीत् तदा तादृशं तं दृष्ट्वा गृहसदस्याः भीताः जाताः पृष्टवन्तः च - किमभवत् भोः अपघातः जातः अथवा पतितः कुत्रचित् । सः - न, तथा किमपि नास्ति, तत्तु शिरस्त्राणं धारणस्य अभ्यासः नास्ति खलु तस्मात् ताम्बूलं ष्ठीवनसमये विस्मृतवान् यत् शिरस्त्राणं धृतवान् अस्मि । ``सर्वदा शिरस्त्राणं धरन्तु धारयन्तु च''

१२३ हास्यकणिकासंग्रहः

कश्चन अर्धबधिरः रुग्णस्य मित्रस्य स्वास्थ्यं प्रष्टुं गच्छति । सः गच्छन् चिन्तयति .... प्रथमं तस्य स्वास्थ्यविषये प्रक्ष्यामि तदा ``सम्यक् अस्मि'' इति सः वदिष्यति । अनन्तरम् कस्य चिकित्सकस्य उपचारं स्वीकरोति इति प्रक्ष्यामि, सः कस्यचित् नाम वदिष्यति, 'सः उत्तमः चिकित्सकः अस्ति' इति वदिष्यामि । ततः किं भोजनं स्वीकुर्वन् अस्ति इति प्रक्ष्यामि, यदा सः वदिष्यति तदा 'उत्तमः आहारः' इति वदिष्यामि । एवमेव चिन्तयन् सः मित्रगृहं प्राप्तवान् । अर्धबधिरः - भोः भवतः स्वास्थ्यं कथम् अस्ति । मित्रम् - म्रियमाणः अस्मि । (सः एवं प्रदर्शयति यत् सर्वं श्रुतवान् अस्ति) सः - अस्तु, ईश्वरस्य कृपा अस्ति । (पुनः पृच्छति) कस्य चिकित्सकस्य उपचारं स्वीकरोति । मित्रम् (खिन्नः भूत्वा) - यमराजस्य.... सः(तथैव अभिनयं कृत्वा) - बहूत्तमम्.... सः तु बहु उत्तमः चिकित्सकः अस्ति, भवान् शीघ्रं स्वस्थः भविष्यति । (पुनः पृच्छति) भोजने किं स्वीकरोति? मित्रम्(क्रोधेन) - पाषाणखण्डाः .... सः - शोभनम्.... तत् तु सुपाच्यः आहारः अस्ति ।

१२४ हास्यकणिकासंग्रहः

रमणः - चिरकालात् गणे भवतः ध्वनि न श्रूयते । किञ्चित् भणतु कार्तिकः - दाधर्तिदर्धर्तिदर्धर्षिबोभूतुतेतिक्तेऽलर्ष्यापनीफणत्संसनिष्यदत्करिक्रत्कनिक्रदद्भरिभ्रद्दविध्वतोदविद्युतत्तरित्रतःसरीसृपतंवरीवृजन्मर्मृज्यागनीगन्तीति च रमणः धन्यवादाः पुनर्मिलावः

१२५ हास्यकणिकासंग्रहः

संस्कृतं व्यावहारिकी भाषा भवेत् प्रातःकाले एकः श्रेष्ठी (सेठ) एकम् जनं ताडयन् आसीत् । एतद् दृष्ट्वा बहवः जनाः एकत्रिताः, ताडयन्तं जनं च पृष्टवन्तः - (यह देखकर बहुत लोग इकट्ठे हो गये और पीटने वाले व्यक्ति से उन्होंने पूछा -) श्रेष्ठिन् ! भवान् किमर्थम् एनं वराकम् एवं निर्दयीभूय ताडयति ? (सेठ जी ! इस बेचारे को निर्दयतापूर्वक ऐसे क्यों पीट रहे हो ?) श्रेष्ठी उक्तवान् - अनेन दुष्टेन द्विवर्षपूर्वं मत्तः दशसहस्ररूप्यकाणि ऋणरूपेण गृहीतानि आसन् । (दो वर्ष पहले इस दुष्ट ने मुझसे दस हजार रुपये उधार लिये थे) मया एकवर्षपर्यन्तं पुनरपि पुनः एषः ऋणराशिं प्रतिदानार्थम् अभिहितः । (मैंने एक वर्ष तक बार बार इसे कर्ज का पैसा लौटने के लिए कहता रहा ।) परं प्रतिवारम् एषः कथयति स्म - मम पत्नी चिकित्सालये अस्ति । (परन्तु हर बार यह कहता रहा कि मेरी पत्नी हस्पताल में है ।) अधुना ज्ञातम् अस्य पत्नी तु चिकित्सालये नर्स- (नुर्से = उपचारिका) -रूपेण कार्यरता अस्ति इति । अधुना भवन्तः एव ज्ञापयन्तु एतादृशेन जनेन सह कथं व्यावहर्तव्यम् इति (अब आप ही बतायें ऐसे आदमी के साथ कैसा बर्ताव किया जाय ।) - KSG

१२६ हास्यकणिकासंग्रहः

शिक्षकः - अहं वाक्यद्वयं वदामि तयोः मध्ये कः भेदः अस्ति इति वदतु । छात्रः - अस्तु । शिक्षकः - प्रथमं वाक्यं ``सः पात्राणि प्रक्षालितवान्''। द्वितीयं वाक्यं ``तेन पात्राणि प्रक्षालितव्यानि आसन्''। छात्रः - प्रथमे वाक्ये कर्ता ``अविवाहितः'' अस्ति । द्वितीये वाक्ये कर्ता ``विवाहितः'' अस्ति ।

१२७ हास्यकणिकासंग्रहः

कश्चित् उन्मत्तः आत्मानं दर्पणे दृष्ट्वा चिन्तयति । एषः तु मया कुत्रचित् दृष्टः एव.... (सः तथैव बहुकालपर्यन्तं चिन्तितवान् अनन्तरं वदति) अरे एषः तु सः एव अस्ति यः परह्यः मया सह केशान् कर्तयितुम् उपविष्टः आसीत् ।

१२८ हास्यकणिकासंग्रहः

कश्चन चोरः रात्रौ एकस्मिन् गृहे प्रविशति । यदा सः गृहद्वारम् उद्घाटितवान् तदा अङ्गणे शयानायाः वृद्धायाः निद्रा भग्ना जाता । सा चोरम् उद्दिश्य वदति - भवान् उत्तमपरिवारस्य अस्ति इति भाति कदाचित् विवशताकारणेन चौरकार्यं करोति, अस्तु.... चिन्ता नास्ति तत्र कपाटिकायां एका पेटिका अस्ति तत्र सर्वं धनम् अस्ति त्वं तत् नेतुं शक्नोषि । (एतत् श्रुत्वा चोरः प्रसन्नः भवति परन्तु पूर्वं मम पार्श्वे आगत्य उपविशतु, अहम् इदानीमेव एकं स्वप्नं दृष्टवती कृपया तस्य अर्थम् बोधयतु मह्यम् । (चोरः तस्य साधुतां दृष्ट्वा तां सकाशम् उपविशति वदति च) आम् मातः! उच्यतां भवत्याः स्वप्नः । वृद्धा - वत्स! अहं सम्प्रति एव दृष्टवती यत् अहं मरुस्थले अस्मि तथा तत्र मम पार्श्वे एकः श्येनः आगत्य उच्चैः वदति, पङ्कज.... पङ्कज.... पङ्कज.... इति (सा वृद्धा अपि तथैव उच्चैः वदति ।) अनन्तरं मम स्वप्नः भग्नः जातः अधुना एतस्य स्वप्नस्य कः अर्थः .... यदा वृद्धा एतत् वृत्तान्तं वदन्ती आसीत् तदा एव पार्श्वस्थात् प्रकोष्ठात् वृदधायाः किशोरः पुत्रः पङ्कजः उच्चैः त्रिवारं स्वनाम श्रुत्वा उत्तिष्ठति तथा बहिः आगत्य चोरं गृह्णाति सम्यक् ताडयति च । अनन्तरं वृद्धा स्वपुत्रं वदति अस्तु तिष्ठतु एषः दण्डं प्राप्तवान् अस्ति, तदा चोरः वदति न, न, मां इतोऽपि ताडयतु यतोऽहि मूर्खः अहं ताडनस्य एव अधिकारी अस्मि ।

१२९ हास्यकणिकासंग्रहः

संस्कृतं व्यावहारिकी भाषा भवेत् यथापूर्वं अस्मिन् वारेऽपि निर्वाचनं द्वयोः चरणयोः भविष्यति । (पहले की तरह अब की बार भी चुनाव दो चरणों में होगा) १-- पूर्वं भवतां मतदातॄणां चरणेषु (पहले आप मतदाताओं के चरणों में) भविष्यति ंअतयाचनतत्परमनसः (वोट मांगने के इच्छुक मन वाले (भवतां चरणेषु सश्रद्धम् आगमिष्यन्ति । २-- तदनन्तरं चयनिताभ्यर्थिनां चरणेषु भवद्भिः गन्तव्यं भविष्यति (बाद में चुने जा चुके चन्दिदतेस् के चरणों में आपको जाना होगा) । एतद् द्वितीयं चरणं भविष्यति । KSG

१३० हास्यकणिकासंग्रहः

कौतुकः जन्तुशालयां वृत्तिं प्राप्तवान् । एकदा सः सिंहपञ्जरस्य द्वारे तालं न स्थापितवान् । (तदा अधिकारी पृच्छति) त्वं किमर्थं न तालं स्थापितवान्? कौतुकः - का आवश्यकता, एतावन्तं हिंसकं पशुं कः चोरयेत् ।

१३१ हास्यकणिकासंग्रहः

कोइरलसंस्कृत - अहो, दूरवाणीव्यसनम् कथं त्यजेयम्? पतंगह - उच्चतमे पर्वते गत्वा ततः वेगेन फोनम् अधः क्षिप । शीघ्रं हि तव मदः अपगमिष्यति न संशयः ।

१३२ हास्यकणिकासंग्रहः

कार्तिकः - कुतः आगच्छसि रे ? रमणः - लिङ्लोटौ स्वामीजी आश्रमतः कार्तिकः - किं नामधेयमेषः ? रमणः - किमपि पुच्छतु सः सदा वदति - भवेत् भवतु .... भवेत् भवतु इति अतः ....

१३३ हास्यकणिकासंग्रहः

कारागृहे स्थितः कश्चन सैनिकः स्वस्य अधिकारिणं वदति ऽ सैनिकः - महोदय! ह्यः केचन अपराधिनः कारागृहे रामायणस्य नाटकं कृतवन्तः । अधिकारी - चेत् तत्र का वा समस्या? सैनिकः - समस्या तु नास्ति परन्तु.... अधिकारी - परन्तु किम्.... शीघ्रं वदतु । सैनिकः - ह्यः यः अपराधी हनुमतः अभिनयं कृतवान् सः इदानीम् अपि ``सञ्जीवनी'' ओषधिं स्वीकृत्य न प्रत्यागतवान्

१३४ हास्यकणिकासंग्रहः

राज्यस्य मुख्यमन्त्री जनान् समस्याः पृच्छति स्म, तदा कश्चन जनः एवं वदतिऽ मुख्यमंत्री - तव कति अपत्यानि सन्ति? जनः - चत्वारः बालकाः सन्ति । मुख्यमंत्री - ते किं कुर्वन्ति? जनः - प्रथमः B. Tech कृतवान्, द्वितीयः MCA कृतवान्, तृतीयः MA कृतवान् तथा चतुर्थः चोरः अस्ति । मुख्यमंत्री - चेत् किमर्थं न तं चोरं गृहात् निष्कासयति....? जनः (खिन्नो भूत्वा) - सः एव धनं अर्जति अन्ये तु निरुद्योगिनः सन्ति ।

१३५ हास्यकणिकासंग्रहः

(एकः लघुः बालः स्वमातरं वदति ।) बालः - अम्ब! भवती जानाति ह्यः रात्रौ उत्थाय यदा अहं मूत्रणं कर्तुं गतवान् तदा किमभवत्.... अम्बा - न वत्स ! किमभवत् वद । बालः - अहं यदा शौचालयस्य द्वारम् उद्घाटितवान् तदा स्वतः प्रकाशः अभवत् तथा च शीतलः वायुः प्रवहति स्म । (एतत् श्रुत्वा क्रुद्धा माता वदति) अम्बा - रे दुष्ट! अद्य पुनः त्वं प्रशीतके मूत्रणं कृतवान् ।

१३६ हास्यकणिकासंग्रहः

एकस्याः कक्षायाः सामूहिकचित्रं (ग़्रोउप् फोतो)दर्शयित्वा एका शिक्षिका स्वदुष्टशिष्यं राकेशं वदति । शिक्षिका - रे राकेश! पठतु नो चेत् भविष्यकाले एतत् चित्रं दृष्ट्वा भवान् वदिष्यति यत् .... एषः अस्ति राजू यः अधुना अभियन्ता अस्ति । एषः अस्ति मोहितः सः महान् संस्कृतज्ञः अस्ति । एषा अस्ति लता या अधुना श्रेष्ठा अधिवक्त्री अस्ति । तथा एषोऽस्मि अहं तत्रैव (एतत् सर्वं श्रुत्वा तत्क्षणमेव बुद्धिमान् राकेशः वदति) राकेशः - एषा अस्माकं शिक्षिका या अधुना दिवंगता

१३७ हास्यकणिकासंग्रहः

॥ ॐ ॥ चिरन्तन-हासः । चोरस्य पुत्रः - जनक ! अहं चाकलेहम् इच्छामि । आनयतु किल ! चोरः - प्रतीक्षां करोतु रे ! आपणानि पिहितानि भवन्तु । संस्कृतानन्दः ।

१३८ हास्यकणिकासंग्रहः

(चिकित्सकः कोरोनारोगिणं पृच्छति) चिकित्सकः - तव अन्तिमा इच्छा का अस्ति ? रोगी - जीवने यैः जनैः सह मम क्लेशः अस्ति तान् आलिङ्ग्य क्षमायाचनं कर्तुम् इच्छामि ।

१३९ हास्यकणिकासंग्रहः

(कश्चन कृशकायः पुरुषः स्वस्थूलां भार्यां पृच्छति) पुरुषः - एतत् तु वदतु यत्, कष्टानि सहमानः मरणं वरम् अथवा एकस्मिन् एव क्षणे मरणं वरं? भार्या - एकस्मिन् क्षणे मरणम् एव वरम् । पुरुषः - एवं चेत् , भवती स्वस्याः द्वितीयं पादम् अपि मम उपरि स्थापयतु ।

१४० हास्यकणिकासंग्रहः

॥ ॐ ॥ चिरन्तन-हासः । सुरेखा काचन तरुणी । तस्याः वाङ्निश्चयः (engagement) अभवत् । सुरेखायाः सखी अस्ति सुवर्णा । सुवर्णा किञ्चित् परिहासशीला अस्ति । सुवर्णा - सुरेखे, भवती प्रतिदिनम् एकं सेवफलं (apple) खादति खलु ? सुरेखा - आम् । सुवर्णा - यदि स्वहितम् इच्छति भवती तर्हि इतःपरं मा खादतु । सुरेखा - (साश्चर्यम्) कस्मात् कारणात् ? सुवर्णा - भवत्याः भावी पतिः चिकित्सकः (doctor) अस्ति किल ! संस्कृतानन्दः ।

१४१ हास्यकणिकासंग्रहः

कौतुकः - अहं यत् किमपि कार्यं करोमि मम पत्नी सर्वदा मध्ये आगच्छति । मित्रम् -भवान् किमर्थं न ट्रकयानचालनस्य कार्यं करोति कदाचित् भवतः भाग्यं परिवर्तितं भवेत् ।

१४२ हास्यकणिकासंग्रहः

कार्तिकः - कति लकाराः सन्ति ? रमणः - दश इति मन्ये कार्तिकः - ते के ? रमणः - ल् ल् ल् ल् ल् ल् ल् ल् ल् कार्तिकः - किं भणति रे ? रमणः - भवान् एव उक्तवान् यत् अनुबन्धलोपे सर्वेषां लकाराणं ``ल्'' इत्येव अवशिष्यते । इति कार्तिकः - सर्वेषां शिष्याणां स्नातकानन्तरम् त्वमेवात्र अवशिष्यसे रमणः -

१४३ हास्यकणिकासंग्रहः

एका रुदन्ती भयभीता च महिला सायङ्कालसमये त्वरया आरक्षकस्थानकं (पोलिचे स्ततिओन्) प्रवेशं कृतवती तत्रस्थं च समवेक्षकम् (निरीक्षकम्, इन्स्पेच्तोर्, समालोककम्) उक्तवती । महिला - महोदय ! मम पतिराजः अद्य प्रभाते आलुकान् आनेतुं गृहात् निर्गतः । इदानीं सायङ्कालः । किन्तु इदानीं यावत् अपि सः न प्रत्यागतः । मम मानसे महती चिन्ता वर्तते । किमपि करोतु महोदय ! समवेक्षकः - चिन्ता मास्तु, भगिनि ! मया इदानीम् एव मम गृहोपयोगार्थम् आलुकाः क्रीताः । भवती तान् नयतु, शाकं च पाचयतु । अहम् आलुकान् विना कथम् अपि चालयिष्यामि ।

१४४ हास्यकणिकासंग्रहः

चिकित्सकः (रोगिणं प्रति)- बहुः कृशकायः असि त्वम् .... फलानि खाद आवरणेन सह । (अग्रिमे दिवसे) रोगी - भोः चिकित्सकवर्य! बहुः उदरवेदना भवति कृपया किमपि करोतु । चिकित्सकः - किम् खादितवान् त्वम्? रोगी - नारिकेलम् आवरणेन सह ।

१४५ हास्यकणिकासंग्रहः

ॐ श्रीहरये नमः ॥ जयश्रीकृष्ण ॥

१४६ हास्यकणिका

एका स्त्री एकं वृषभं लप्सिकां पूलिकां च खादयतिस्म । एक महिला एक साॅँड् को हलुवा-पूडी खिला रही थी । तत्र स्थितः एकः सज्जनः संशयं कृतवान् सम्भवतः इयं स्त्री वृषभं धेनुः चेतति ! वहां खडे एक सज्जन को शक हुआ कि शायद यह महिला साँड को गाय समझ रही है ! तदा.... ऽतब.... सज्जनः- भगिनि अयं वृषभः अस्ति । धेनुः नास्ति यत् भवती इमं पूलिकाः खादयति । ऽऽ बहन, यह साँड है, गाय नहीं, जो आप इसे पूडियाँ खिला रही हैं । अयं वृषभः च नित्यं ग्रामे त्रिचतुर्जनान् श‍ृङ्गेन आघातं कृत्वा अस्थीनि त्रोटयति । और यह सांड प्रति दिन गाँव में तीन चार लोगों को सींग मार कर हड्डियाँ तोड देता है । महिला- बन्धो ! अहं जानामि यत् अयं वृषभः अस्ति । परन्तु भवान् न जानाति यत् महिला - भाईसाहब ! मुझे पता है कि.... यह साँड है ! पर आपको नहीं पता कि.... मम पतिः अस्थिचिकित्सकः अस्ति तस्य च चिकित्सालयः अनेन वृषभेन एव चलति । ऽमेरे पति हड्डियों के डाॅक्टर हैं और उनका हाॅस्पिटल इसी साँड की वजह से ही चल रहा है....! ॐ ॥जयतु संस्कृतम् ॥ जयतु भारतम् ॥ॐ

१४७ हास्यकणिकासंग्रहः

एका महिला आपणं गच्छति शाटिकां क्रेतुम् । आपणिकः - कीदृशीं शाटिकाम् दर्शयानि? महिला - तादृशीं दर्शयतु यां दृष्ट्वा प्रतिवेशिनी ईर्ष्यया एव म्रियेत ।

१४८ हास्यकणिकासंग्रहः

कौतुकः - भोः, त्वं किमर्थं चिकित्सालयात् शल्यचिकित्साम् अकारयित्वा एव आगतवान् असि । मित्रम् - अरे, तत्र अनुवैद्या वारं वारं वदन्ती आसीत् यत् भयं मा करु, धैर्यं धरतु, किमपि न भविष्यति, लघुः शल्यक्रिया एव अस्ति इति । कौतुकः - चेत् एतस्मिन् को वा क्लेशः, सा सम्यक् एव वदति स्म । मित्रम् - अरे, सा मां न अपितु वैद्यं वदति स्म ।

१४९ हास्यकणिकासंग्रहः

ॐ हॅलो ! अद्य वर्ल्ड मदरटंग डे अस्ति इति भवतां नाॅलेज अस्ति किम् ? इन फॅक्ट अहं तु मोस्टली मदरटंगेन एव टाॅकिंग करोमि । कदा कदा आॅकेजनली सीच्युएशनस्य रिक्वायरमेंट अस्ति चेत् इंग्लिशस्य अपि यूज करोमि । किन्तु तत् तु रेअरली । मम गृहे अपि वयं सर्वे फॅमिली मेंबर्स इनव्हेरिएबली मदरटंगेन एव वदामः । अरे अस्माकं मदरटंगस्य प्रोटेक्शन् अस्माभिः एव करणीयं खलु ! किमर्थं जनाः अन्नेसेसरिली इंग्लिशं वदन्ति न जाने । स्वस्य एज्युकेशन दर्शयन्ति ते । अरे ! साॅरी साॅरी ! मम मोबाईलस्य रिंग श्रूयते । पश्यामि कस्य काॅल अस्ति इति । अन्यथा पुनः मिसकाॅल भवति चेत् प्राॅब्लेम ! ओ के ! गुड्डे ! सी यू अगेन ! एतादृशं वक्तव्यं मातृभाषया कुर्वतां जनानां कृते साष्टाङ्गं नमनम् अद्य वैश्विक-मातृभाषा-दिवस-निमित्तम् ! संस्कृतानन्दः ।

१५० हास्यकणिकासंग्रहः

चतुरः शिक्षकः ऽ सर्वकारीये विद्यालये एकः शिक्षकः गहननिद्रायां निद्राति स्म । तदा एव जनपदशिक्षाधिकारी विद्यालयम् आगतवान्, सः शयानः आसीत् इति अधिकारी ज्ञातवान्, बहुकालपर्यन्तम् उत्थापनात् अनन्तरं यदा शिक्षकः उत्तिष्ठति तदा सः परिस्थितिम् अभिज्ञाय झटिति वदति.... शिक्षकः - अस्तु बालकाः! भवन्तः अधुना सम्यक् ज्ञातवन्तः खलु कुम्भकर्णः कथं शेते इति ।

१५१ हास्यकणिकासंग्रहः

पिता पुत्रस्य उपरि क्रोधं कुर्वन् वदति.... पिता - एकमपि कार्यं सम्यक् रूपेण न करोषि, अजगन्धम् (पुदीना) आनेतुं प्रेषितः परं धान्याकम् (धनिया) आनीतवान् त्वम्.... तव सदृशः मूर्खजनः तु गृहात् निष्कासनीयः । पुत्रः - तात! यदि एवं चेत् आगच्छ आवां गृहात् निर्गच्छावः । पिता - किमर्थम् आवाम् । पुत्रः - यतोऽहि माता वदन्ती आसीत् यत् एतत् तु मेथिका (मैथी) अस्ति ।

१५२ हास्यकणिकासंग्रहः

भक्तः - हे भगवन् ! भवान् कुत्र अस्ति ? भगवान् - हे भक्त ! त्वं किम् इच्छसि तत् मां पृच्छ । अहं यच्छामि । भक्तः - अहं समुद्रस्य तरणं कर्तुम् इच्छामि । अतः सागरस्य उपरि वज्रचूर्ण-मार्ग-निर्माणं कृपया भवता कर्तव्यम् । भगवान् - भोः ! समुद्र-मध्ये वज्रचूर्ण-मार्ग-निर्माणं तु बहु कठिनं कार्यं भवति । अन्यं वरं पृच्छतु । भक्तः - तर्हि मम भार्यया तस्याः वचनानि न्यूनानि करणीयानि । तया मम वचनानि एव श्रोतव्यानि प्रतिवादः न करणीयः च इति वराः भवता दीयन्ताम् । भगवान् - अहो ! चिन्ता मास्तु । एकं क्षणं ददातु । वज्रचूर्ण-मार्गः सिद्धः भविष्यति । भक्तः - ???????? Devotee : Oh God! Where are you ? God : Dear Bhakta! What do you want ? Ask me, I will give you. Devotee : I want to cross the ocean. So, a cement road should be built on the ocean by you. God : Building a cement road is a very hard task. Ask me another boon. Devotee : Then my wife should try to reduce her lectures and listen to me without arguments. God : Ok Bhakta! Your cement road will be ready in a second. Devotee : ?????

१५३ हास्यकणिकासंग्रहः

पतिः - कीदृशं सूपं निर्मितवती भवती? लवणता नास्ति कटुता नास्ति निस्स्वादुः अस्ति । सम्पूर्णे दिवसे भवती दूर्वाण्याम् एव व्यस्ता भवती किमपि न जानाति कथं निर्मातव्यं कथं न इति । (वेल्लनीं दर्शयन्ती पत्नी उक्तवती) पत्नी - प्रथमं भवान् दूरवाणीम् अपसार्य खादतु बहुकालात् पश्यामि यत् तत्र जलेन रोटिकां खादन् अस्ति ।

१५४ हास्यकणिकासंग्रहः

ॐ पिता - अद्यतन-धावनस्पर्धायां भवता विजयः प्राप्तः किम् ? पुत्रः - न पितृवर्य ! पिता - कियत् शोच्यं रे ! (होव् पितिअब्ले !) अरे भोः! शिवाजि-महाराजः भवत्समवयस्कः (ओफ़् योउर् अगे) आसीत् तदा तेन दुर्गद्वयं प्राप्तम् आसीत् ! पुत्रः - सत्यम् एव पितृवर्य ! किन्तु यदा महाराजः भवत्समवयस्कः आसीत् तदा सः छत्रपति-नृपः अभवत् खलु ! --- संस्कृतानन्दः ।

१५५ हास्यकणिकासंग्रहः

संस्कृतं व्यावहारिकी भाषा भवेत् उत्तरप्रदेश-विधानसभायै आयोजितस्य निर्वाचनस्य घोषितः आधिकारिकः परिणामः (Officially announced Results of Election held for U.P. Assembly) शिवसेनादलम् - ३९५ समाजवादी-पार्टीं - २१० भारतीय-जनता-पार्टी - ००१ बहुजन समाज पार्टी - २६५ कांग्रेस-दलम् - ३८५ अपना-दलम् - ००४ अन्यानि दलानि - १२४१ कृपया अधोलिखितम् अपि पठ्यताम् .... उपरिदत्ता संख्या तेषां प्रत्याशिनाम् अस्ति येषां प्रतिभूः अपहृतः (यह संख्या उन उम्मीदवारों की है जिनकी जमानत जब्त हो गई है = Those whose security deposit has been confiscated) । KSG

१५६ हास्यकणिका

- सुजाता हळदीपुर, मुम्बई जनकः - विशाल, अद्य तव अम्बायाः स्वास्थ्यं सम्यक् नास्ति वा ? होराद्वयं सा किमपि न उक्तवती । किमर्थम् ? मूर्ख, किं कृतवान् त्वम् ?? विशालः - तात, चिन्ता मास्तु । स्वस्था अस्ति सा । सा ओष्ठरङ्गम् (लिप्स्टिक) इष्टवती । अहम् अनवधानेन तस्यै फेविस्टिक-लेपम् दत्तवान् । जनकः - अत्युत्तमम् । शतायुषी भव । ईश्वरकृपया ईदृशः सुपुत्रः सर्वे लभेयुः।

१५७ हास्यकणिकासंग्रहः

ॐ शिक्षकः - गृहकार्यार्थं दत्तानां प्रश्नानाम् उत्तराणि लिखितानि किम् ? छात्रः - न आचार्य महोदय ! शिक्षकः - किं कारणम् ? छात्रः - महोदय ! मम पिता अन्यत् कार्यार्थम् आदिनं गृहात् बहिः आसीत् । --- संस्कृतानन्दः ।

१५८ हास्यकणिकासंग्रहः

कदा यास्यति होलिका? उल्केति चलिते चित्रे कदा यास्यति होलिका?। पृच्छको गब्बरो जातस् तथेमाः सकलाः प्रजाः ॥ उल्का (शोले) नामक चलचित्र में ``होली कब है?'' पूछने वाला गब्बर सिंह हुआ था । उसी प्रकार आज सारी जनता है । ऽ कुशाग्र अनिकेत

१५९ हास्यकणिकासंग्रहः

द्रोणाचार्यः - ``अर्जुन! त्वं किं पश्यसि?'' अर्जुनः- ``आचार्य! अहं केवलं एकम् आम्रफलं पश्यामि''। द्रोणः- `` तर्हि अहं भवनस्य अन्तः प्रविश्य द्वारं कीलयामि । तदनन्तरं त्वं अस्त्रप्रेषणेन आम्रफलं पातय ।''

१६० हास्यकणिकासंग्रहः

॥ ॐ ॥ हास-सेचनम् । कश्चन धनिकः तस्य पुत्रं प्रति उपदेशं करोति । धनिकः - प्राणेषु कण्ठम् आगतेषु अपि अन्यजनेभ्यः दत्तस्य वचनस्य पालनम् अवश्यं कठोरतया च एव करणीयम् । वचनभङ्गः तु कदापि नैव भवेत् । पुत्रः - आं, पितृवर्य ! धनिकः - तस्मात् अपि अधिकम् एव महत्वपूर्णम् अस्ति यद् .... पुत्रः - आम् । वदतु पितृवर्य ! श्रुणोमि अहम् । धनिकः - प्राणेषु कण्ठम् आगतेषु अपि कस्मै अपि कदापि किमपि वचनं नैव दातव्यम् ! भवतां सर्वेषां जीवनं वचनभाररहितं भवेत् ! संस्कृतानन्दः ।

१६१ हास्यकणिकासंग्रहः

॥ ॐ ॥ चिरन्तन-हासः । कस्मिंश्चित् वर्गे कश्चन शिक्षकः ``स्म भूतकालः'' इति बिन्दोः पाठनं करोति । शिक्षकः - या क्रिया पूर्वकाले सातत्येन घटिता सा क्रिया भूतकालस्य एतेन प्रकारेण दर्शिता भवेत् । अधुना सा क्रिया नैव घटति इति तस्य भावार्थः अस्ति । भूतकाले अमुककृतिः कर्तृणा बहुवारं कृता किन्तु सद्यः नैव क्रियते इति भावं दर्शयितुं एतस्य प्रयोगः भवति । आङ्ग्लभाषायाम् एतस्य अनुवादः ``उसेद् तो'' इत्येन भवितुं शक्नोति । उदाहरणार्थं, युवावस्थायाम् अहं नृत्यं करोमि स्म । (अधुना न करोमि ।) In the young age I used to dance. (Presently I don't.) पूर्वं सा गायति स्म । (अधुना न गायति ।) सत्ययुगे साक्षात् ईश्वर-दर्शनं भवति स्म । (अधुना न भवति ।) . . . इदानीं भवन्तः अपि कानिचित् उदाहरणानि वदन्तु । राहुल ! भवान् प्रथमं वदतु । राहुलः - शैशवकाले अहं सत्यं वदामि स्म । (भवतां सर्वेषां जीवनम् सत्ययुतं भवेत् ।) संस्कृतानन्दः ।

१६२ हास्यकणिकासंग्रहः

कश्चन वृद्धः प्रतिवर्षं स्वपत्न्या सह विवाहं रचयति स्म । कामपि बाधां विना सर्वः माङ्गलिककार्यक्रमः सुसम्पन्नः भवति स्म । एवमेव प्रतिवर्षं तस्यैव पुनरावृत्तिः भवति स्म । सम्पूर्णे ग्रामे विवाहोत्सवोऽयं कुतूहलस्य विषयः अभवत् । अन्ते च एतद्दृष्ट्वा कश्चन तूष्णीं स्थातुं न अशक्नोत्, स च तस्य कारणं तम् अपृच्छत् भोः! भवान् किमर्थं प्रतिवर्षम् एकया सहैव पुनः पुनः विवाहं करोति? वृद्धः तदा हसन् प्रत्यवदत् - भोः! अहं तमेव शब्दं श्रुत्वा अतीव प्रसन्नः भवामि, अतः पुनः पुनः विवाहं करोमि । सः पुनः अपृच्छत् कः स शब्दः? वृद्धः अवदत् यदा पण्डितः वदति युवानम् (वरम्) आह्वयन्तु । इत्येव पण्डितस्य मुखात् युवान् इति शब्दं श्रुत्वा अहं प्रसन्नः भवामि ।

१६३ हास्यकणिकासंग्रहः

॥ ॐ ॥ भोजनोत्तरं मनोरञ्जनम् ! ग्राहकः - इयत् महार्घं धान्यम् ? आपणिकः - युक्रेनतः आगच्छति । ग्राहकः - खाद्यतैलम् अपि एतावत्प्रमाणेन महार्घं कथम् ? आपणिकः - युक्रेनतः आगच्छति । ग्राहकः - शर्करा अपि एतावती महार्घा ? आपणिकः - युक्रेनतः आगच्छति । ग्राहकः वस्तूनां क्रयणं करोति । वस्तूनि गृहीत्वा धनं च अदत्वा एव गमनं करोति । आपणिकः - अरे महोदय ! धनं न दत्तं भवता । ग्राहकः - युक्रेनतः आगमिष्यति । अस्मद्देशीयम् आनन्दम् अनुभवन्तु सर्वे । संस्कृतानन्दः ।

१६४ हास्यकणिकासंग्रहः

संस्कृतं व्यावहारिकी भाषा भवेत् एकः विद्यार्थी परीक्षायां शून्यांकं (०) प्राप्तवान् यद्यपि तस्य सर्वेषां प्रश्नानाम् उत्तराणि शुद्धानि आसन् । कथम् एतद् अभवत् इति द्रष्टव्यम् । (कैसे हुआ यह देखना चाहिए ।) (प्रश्नान् तस्य उत्तराणि च पश्यन्तु प्र०१--टीपू सुलतानः कस्मिन् युद्धे अम्रियत् ? उ० -- स्वकीये अन्तिमे युद्धे । प्र० २ - पति-पत्न्योः सम्बन्ध-विच्छेदस्य मुख्यं कारणं किं भवति ? उ० - तयोः विवाहः । प्र० ४ - महात्मा गांधी कदा जन्म लेभे ? उ० - स्वकीये जन्म दिवसे । प्र० ५ - त्रि-जनेषु षट् आम्राणि कथं समं विभक्तुं शक्यन्ते ? उ०-- मैंगो-शेकं (आम्रगुत्थनं) निर्माय पेयपात्रेषु समं पातयित्वा । प्र० ६ - भारतदेशे एकवर्षकाले सर्वाधिकं हिमं कुत्र पतति ? उ० - मद्यपानां मद्यपात्रेषु । (शराबियों के प्यालों में ।) KSG

१६५ हास्यकणिकासंग्रहः

॥ ॐ ॥ कश्चन गृहस्थः कार्यार्थं गृहात् बहिः गच्छति । गमनसमये द्वारे टिप्पणीं (नोते) स्थापयति । ``अत्र चोरिका मास्तु कृपया । अहं मुष्टियुद्धस्पर्धा-विजेता अस्मि ।'' (No theft here, please. I am a boxing champion.) कश्चन चोरः तत्र आगच्छति । टिप्पणीं पठति । बहुमूल्य-वस्तूनि चोरयति । गमनसमये द्वारे काञ्चन अन्यां टिप्पणीं स्थापयति । प्रत्यागमनपश्चात् गृहस्थः टिप्पणीं पठति । तस्यां लिखितम् अस्ति, ``मम अन्वेषणं मास्तु कृपया । अहं धावनस्पर्धा-विजेता अस्मि ।'' (No search of mine, please. I am a running champion.) संस्कृतानन्दः । The संस्कृत संवादः telegram/whatsapp channel provides vAkyAbhyAsa, subhAShitam, hAsyakaNikA and many others. The group also hosts daily discussion via telegram voicechat at 11AM. Also with the subsidiary named रामदूतः the group is active in providing All India Radio (AIR) sanskrit news and text bulletins, and magazines such as samprati vArtAH, DD news vArtA, sudharma, sanskritvArtA and all online freely available sources at one place. Join -- Telegram channel link : https://t.me/samskrt_samvadah Whatsapp group link : https://chat.whatsapp.com/HLeG1yYRUbk4Il2GuTLjKa Ramdootah telegram Link : https://t.me/ramdootah Ramdootah Whatsapp Link : https://chat.whatsapp.com/EQvIhBgzbFvLnG5A65Z368 Contact samskrit.samvadah at gmail dot com for any questions and details. Checkout the archive page on the sanskritdocuments.org : https://sanskritdocuments.org/sites/sanskritsamvada/
% Text title            : Collection of Jokes in Sanskrit hAsyakaNikA 1
% File name             : hAsyakaNikA1.itx
% itxtitle              : hAsyakaNikA 1
% engtitle              : hAsyakaNikA 1
% Category              : misc
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : "संस्कृत संवादः" 
% Indexextra            : (Collection archive)
% Latest update         : May 15, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org