गुणगणमण्डित यदुवरलसिता
देशगीतिका
गुणगणमण्डित-यदुवरलसिता
राजति भारतमाता ।
नीतिबोधकपरात्परगीता
बोधकयोगिजनाप्ता ॥ १॥
रम्यसुरालय-सरिदाक्रीडैः
भव्यसुललितनिजाङ्गा ।
अभिमतसिद्धा धन्या
शुभफलवृद्धिसुमान्या
जीयाद् भारतशोभा ॥ २॥
अनुदिन-मङ्गलदायक-दयया
भारतमाता जयतात् ।
जयतात्, जयतात्, जयतात्
निजजनगणमवतात्
भारतमाता जयतात् ॥ ३॥
- श्री सीतारामाचार्यः
Encoded and proofread by Shubha shubhazero at gmail.com