गीर्वाणवाणी
(गीतिका) (भुजङ्गप्रयात वृत्तम्)
इयं देववाणी सदा सेवनीया
सदा पोषणीया सदा रक्षणीया ।
इयं भारतश्रीरियं देशकीर्तिः
इयं देशवनद्यैर्वृता वन्दनीया ॥ इयं०॥
यदीष्टं भवे भारतस्याभिवृद्धिः
स्वदेशस्य कीर्ति स्वदेशस्य मानम् ।
सदाऽध्यात्म-ज्योतिः प्रसारेण शान्तिं
तदा देववाणीं वुधैः सेवनीया ॥ इयम् ॥
कथं शोभते देववाणी प्रकृष्टा
कथं राजते देववर्यैः स्तुतेयम् ।
गुणानां निधाना बुधानां प्रधाना
सुधीनां सदा ज्ञान-विज्ञान-दात्री ॥ इयं०॥
सदा संस्कृता सस्कृतेर्मूलमन्त्रः
जनैः संस्तुता प्रेम-सद्भाव-दात्री ।
अधानां निहन्त्री सुधा-धाम-धर्त्री
जनानां समस्तं मलं नाशयिनी ॥ इयं०॥
इयं भारते बद्धमूला प्रशस्ता
स्वदेशे विदेशे स्तुता विज्ञवर्यैः ।
चरित्रोन्नतेर्भाव-सद्भावनीया
सदा शिक्षणे दत्तचित्ता वरेण्या ॥ इयं०॥
पराधीनता-पाश-नष्टाऽप्यनष्टा,
सदा दानवैः पीडिताऽप्यक्षतेयम् ।
सुधाऽऽगार रूपा बुधाऽऽधार-रूपा,
गुणाऽऽकार-रूपा जनाऽऽह्लाद-रूपा ॥ इयं०॥
अजस्रं गुणाऽधायिनी ज्ञान-मूला,
श्रुतेर्नाद-जुष्टा, प्रपुष्टाऽगमैश्च ।
सदाऽध्यात्म-पुष्टा, श्रिता दर्शनैश्च
वृता ज्ञान-दीप्त्या, धृता धर्मधुर्यैः ॥ इयं०॥
श्रिता ज्ञानिभिर्वेद विद्योपलब्ध्यैः
वृता योगिभिर्योग-ज्ञानाऽऽगमाय ।
श्रिता काव्यकारैर्रसाऽऽस्वाद-हेतोः,
धृता नाटयकारैर्जनाऽऽह्लाद-हेतोः ॥ इयं०॥
इयं शान्ति-दात्री, इयं ज्ञानदात्री,
इयं भारतोत्थान-तन्त्रं प्रकृष्टम् ।
इयं गौरवाऽधानहेतुः प्रकृष्टः
इयं ज्ञान-ज्योतिः, सुविद्या प्ररोचि ॥ इयं०॥
इदं सस्कृतं देशबन्धस्य मूलम्, ।
इदं देश-प्रान्तादि भेदस्य हर्तृः ।
इदं भारतस्याक्षयं कोषजातम्,
इदं शान्ति मूलं सदा पोषणीयम् ॥ इयं०॥
Proofread by Mandar Mali